| YouTube Channel

राहुवृहस्पतियोगः (rAhuvRhaspatiyogaH)

 
शब्दकल्पद्रुमः
Sanskrit
राहुवृहस्पतियोगः,
पुं,
(राहुणा वृहस्पतेर्योगोमेलनम् ।) एकराशिस्थितगुरुराहुः गुरु-चाण्डालियोग इति ख्यातः तस्य काला-शुद्धिजनकत्वं यथा, भोजदेवव्यवहारसमुच्चये ।“सर्व्वं कार्य्यं कर्त्तव्यं गुरौ सिंहेऽस्तगेऽपि ।व्रतदीक्षे कुर्व्वीत तमोयुक्ते बृहस्पतौ
”तमोयुक्ते राहुयुक्ते व्रतदीक्षे इति नित्येतर-वैदिककर्म्मोपलक्षणम् तथा स्मृतिसारेज्योतिषम् ।“एकराशौ स्थितौ स्यातां यदि राहुवृहस्पती ।विवाहव्रतयज्ञादि सर्व्वं तत्र परित्यजेत्
”मलमासाद्युपक्रम्य भविष्ये ।“ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वानयोः ।गुरो राहोरपि तथा त्यजेद्विद्बान्न संशयः
”अत्र गुरोर्लज्जितत्वं हेतुः ।“यत्र यत्र स्थितो जीवस्तमोयोगेन लज्जते ।उपहासाय किं स्यादसत्सङ्गो मनीषिणाम्
”इति मलमासतत्त्वम्
*
अस्य प्रतिप्रसवो यथा, --“कर्णाटनाटाङ्गकलिङ्गदेशेबृहस्पती राहुयुतो विरुद्धः ।शेषेषु देशेषु चास्ति दोषःसर्व्वत्र कार्य्यं मुनयो वदन्ति
”इति बृहद्राजमार्त्तण्डधृतवचनमिति केचिद्-वदन्ति