| YouTube Channel

राहुदर्शनं (rAhudarzanaM)

 
शब्दकल्पद्रुमः
Sanskrit
राहुदर्शनं,
क्ली,
(राहोर्दशनं यत्र ।) राहो-श्चाक्षुषज्ञानम् ग्रहणमिति यावत् यथा, --“चक्षुषा दर्शनं राहोर्यत्तद्ग्रहणमुच्यते ।तत्र कर्म्माणि कुर्व्वीत गणनामात्रतो नतु
राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।स्नानमात्रन्तु कर्त्तव्यं दानश्राद्धविवर्ज्जितम्
”इति तिथ्यादितत्त्वम्