| YouTube Channel

राहकः-हिका (rAhakaH-hikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रह त्यागे”@} 2 ‘रहयेत् रहति त्यागे, गतौ रंहेस्तु रंहति।’ 3 इति देवः।
राहकः-हिका, राहकः-हिका, रिरहिषकः-षिका, रारहकः-हिका
रहिता-त्री।
रहयिता-त्री, रिरहिषिता-त्री, रारहिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचहतिवत् 4 बोध्यानि, 5 रहः विरहः- 6 विराही, 7 रहस्यम्, अनुरहसम्-अवरहसम्, तप्तरहसम्, 8 इति ञुण्प्रत्यये रूपमेवम्।]] राहुः, इमानि रूपाणि 9 अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१३८६)
02
=>
(१-भ्वादिः-७३१। सक। सेट्। पर।)
03
=>
(श्लो। १९५)
04
=>
(५१४)
05
=>
[[३। पचाद्यचि रूपमेवम्।]]
06
=>
[[४। ‘सुप्यजातौ --’ (३-२-७८) इनि णिनिप्रत्यये रूपमेवम्। विरही इति तु विरहोऽ- स्यास्तीति मत्वर्थीय इनिप्रत्यये रूपम्।]]
07
=>
[[५। औणादिके (९-४९) असुन्प्रत्यये रहः इति भवति। रहसि भवम् = रहस्यम् इत्यत्र दिगादित्वात् (४-३-५४) यत्प्रत्यये रूपमेवम्।]]
08
=>
[[६। ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्’ [१-८८]
09
=>
[पृष्ठम्१११०+ २९]