| YouTube Channel

राशिचक्रं (rAzicakraM)

 
शब्दकल्पद्रुमः
Sanskrit
राशिचक्रं,
क्ली,
(राशीनां चक्रम् ।) मेषादि-द्वादशराश्यादियुक्तवृत्तम् तस्य नामान्तरंभचक्रं ज्योतिषचक्रञ्च यथा, --“सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितवायुगम् ।तदर्कांशो भवेदाशिर्नवर्क्षचरणाङ्कितः
”इति दीपिका
*
तद्विवरणं यथा, --“भचक्रं ध्रुवयोर्ब्बद्धमाक्षिप्तं प्रवहानिलैः ।पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्
उपरिस्थस्य महतीकक्षाल्पाधःस्थितस्य ।महत्या कक्षया भागा महान्तोऽल्पास्तथा-ल्पया
कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः ।ग्रहः कालेन महता मण्डले महति भ्रमन्
खल्पया तु बहून् भुङ्क्ते भगणान् शीत-दीधितिः ।महत्या कक्षयागच्छन् ततः स्वल्पः शनैश्चरः
मन्दादधःक्रमेण स्युश्चतुर्था दिवसाधिपाः ।वर्षाधिपतयस्तद्वत् तृतीयाः परिकीर्त्तिताः
ऊर्द्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः ।होरेशाः सूर्य्यतनयादधोधः क्रमशस्तथा ।भवेद्भकक्षा तीग्मांशोर्भ्रमणं षष्टिताडितम् ।सर्व्वोपरिष्टात् भ्रमति योजनैस्तैर्भमण्डलम्
”तत्र कक्षाक्रममाह ।“ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते ।तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा
मन्दामरेज्यभूपुत्त्रसूर्य्यशुक्रेन्दुजेन्दवः ।परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः
”इति सूर्य्यसिद्धान्तः
*
ग्रहत्रयचन्द्रसंयोगे फलविशेषजनकं राशिचक्रंयथा, --“राशिचक्रं प्रवक्ष्यामि नृपाणां हितकाम्यया
रविर्जीवस्तथा सौम्यस्तैश्च चन्द्रे समागते ।जलपातो भवेत् सत्यमित्युक्तं विष्णुयामले
रविर्जीवस्तथा शुक्रस्तैश्च चन्द्रे समागते ।वायुपातो भवेत् सत्यमित्युक्तं विष्णुयामले
रविर्ज्जीवस्तथा भौमस्तैश्च चन्द्रे समागते ।अग्निपातो भवेत् सत्यमित्युक्तं ब्रह्मयामले
रविर्भौमस्तथा राहुस्तैश्च चन्द्रे समागते ।लोहपातो भवेत् सत्यमित्युक्तं रुद्रयामले
रवी राहुस्तथा केतुस्तैश्च चन्द्रे सगागते ।पाषाणपातोऽपि भवेदित्युक्तं भानुयामले
”इति नरपतिजयचर्य्यायां तुम्बुरुचक्रे राशि-चक्रम्
*
जातकराशिचक्रम् यथा, --“तन्वादिव्ययपर्य्यन्तं राशिचक्रे व्यवस्थितम् ।तन्न बुद्ध्वाल्पमतयो जल्पयन्ति वृथा वृथा
”इति पञ्चस्वरा
*
मन्त्रग्रहणोक्तराशिचक्रम् यथा आगमकल्प-द्रुमे ।“रेखाद्वयं पूर्व्वपरागतं स्यात्तन्मध्यतो याम्यकुवेरभेदात् ।एकैकमीशाननिशाचरे तुहुताशवाय्वोर्विलिखेत्ततोऽर्णान्
वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान्पञ्चेषुवाणशरपञ्चचतुष्टयार्णान् ।मेषादितः प्रविलिखेत् सकलांस्तु वर्णान्कन्धागतान् प्रविलिखेदथ शादिवर्णान्
”तथा, --“बालं गौरं खुरं शोणं शमी शोभेति राशिषु ।क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृताः
”तेन मेषः वृषः ।ॠ मिथुनम् कर्कटः औसिंहः अं अः क्षाः कन्याः ।कवर्गस्तुला चवर्गो वृश्चिकः टवर्गो धनुः ।तवर्गो मकरः पवर्गः कुम्भः यवर्गो मीनः ।स्वराशीनामनुकूलं मन्त्रं भजेत् तथा ।“स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून्
”इति वचनात्
“राशीनां शुद्धताज्ञेया त्यजेच्छत्रुं मृतिं व्ययम् ।स्वराशेर्मन्त्रराश्यन्तं गणनीयं विचक्षणैः
”यदा तु स्वराशेरज्ञानं तदा साधकनामाद्यक्षर-सम्बन्धिनं राशिं गृहीत्वा गणयेत् ।“साध्याद्यक्षरराश्यन्तं गणयेत् साधकाक्षरम् ।इति रामार्च्चनचन्द्रिकाधृतवचनात् तथा, “अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः
”इति तन्त्रराजे
“तेन मन्त्राद्यवर्णेन नाम्नश्चाद्यक्षरेण ।गणयेद्यदि षष्ठं वाप्यष्टमं द्बादशन्तु वा ।रिपुर्मन्त्राद्यवर्णः स्यात् तेन तस्याहितं भवेत्
एक पञ्च नव बान्धवाः स्मृताःद्वौ षट् दशमाश्च सेवकाः ।वह्निरुद्रमुनयस्तु पोषकाःद्बादशाष्टचतुरस्तु घातकाः
”इति विष्णुविषयम्
रामाच्चनचन्द्रिकाधृतत्वात् शक्त्यादौ तु षष्ठंवर्ज्जनीयम् तथा ।“षष्ठाष्टमद्बादशानि वर्ज्जनीयानि यत्नतः
”इति वचनात्
तन्त्रान्तरे ।“लग्नं धनं भ्रातृबन्धुपुत्त्रशत्रुकलत्रकाः ।मरणं धर्म्मकर्म्मायव्यया द्बादश राशयः
नामानुरूपमेतेषां शुभाशुभफलं लभेत्
लग्ने सिद्धिस्तथा नित्यं धने धनसमृद्धिदः ।भ्रातरि भ्रातृवृद्धिश्च शत्रौ शत्रुविवर्द्धनः
पुत्त्रे पुत्त्रविवृद्धिः स्यात् बन्धौ बान्धववत् प्रियः ।कलत्रे मध्यमा प्रोक्ता मरणे मरणं भवेत्
धर्म्मे धर्म्मविवृद्धिः स्यात् सिद्धिदः कर्म्मसंस्थितः ।आये धनसम्पत्तिर्व्यये सञ्चितक्षयः
”वैष्णवतन्त्रे तु शत्रुस्थाने बन्धुरिति पाठः इतितन्त्रसारः