| YouTube Channel

राशिः (rAziH)

 
Apte
English
राशिः [rāśiḥ],
m.
,
f.
[अश्नुते व्याप्नोति, अश्-इञ् धातोरुडागमश्च
cf.
Uṇ.*
4.132]
A heap, mass, collection, quantity, multitude
मृदुनि मृगशरीरे तूलराशाविवाग्निः Ś1
धनराशिः, तोयराशिः, यशोराशिः
&c.
The numbers or figures put down for any arithmetical operation (such as adding, multiplying
&c.
)
A sign of the zodiac.
Mathematics
Ch.
Up.*
7.1.2.
One-twelfth part of the ecliptic.
An astrological house.
Comp.
-अधिपः the regent of an astrological house. -गत
a.
heaped, piled up.
summed up.
algebraical or arithmetical. -चक्रम् the zodiac. -त्रयम् the rule of three.-नामन्
n.
a name given to a child taken from the Rāśi under which he is born. -पः the regent of an astrological house. -भागः a fraction. ˚अनुबन्धः the addition of fractions. -भेदः a division of a zodiacal sign or astrological house. -भोगः the passage of the sun, moon, or any planet through a sign of the zodiac.-मण्डलम् (= -चक्रम् above). -वर्धन
a.
adding to the number (संख्यापूरक).
(fig. ) useless
राशिवर्धनमात्रं नैव स्त्री पुनः पुमान्
Mb.
* 5.133.23. -व्यवहारः (in
Arith.
) the method for finding the quantity contained in a heap. -स्थ
a.
accumulated.
Apte 1890
English
राशिः [अश्नुते व्याप्नोति, अश्-इञ् धातोरुडागमश्च
cf. Uṇ. 4. 132] 1 A heap, mass, collection, quantity, multitude
धनराशिः, तोयराशिः, यशोराशिः &c.
2 The numbers or figures put down for any arithmetical operation (such as adding, multiplying &c.).
3 A sign of the zodiac.
Comp.
अधिपः, the regent of an astrological house.
गत a. {1} heaped, piled up. {2} summed up.
चक्रं the zodiac.
त्रयं the rule of three.
नामन् n. a name given to a child taken from the Rāśi under which he is born.
भागः a fraction. °अनुबंधः the addition of fractions.
भोगः the passage of the sun, moon, or any planet through a sign of the zodiac.
Apte Hindi
Hindi
राशिः
पुं*
- "अश्नुते व्याप्नोति-अश् + इञ्, धातोरुडागमच्स"
"ढेर, अंबार, संग्रह, परिणाम, समुदाय"
राशिः
पुं*
- -
"अकं या संख्याएं जो अंकगणित की किसी विशेष प्रकिया के लिए प्रयुक्त की जायँ (जैसे जोड़ना, गुणा करना आदि) "
राशिः
पुं*
- -
"ज्योतिश्चक्र, बारह राशियाँ"
राशिः
पुं*
- अश्+इञ् धातोरुडागमश्च
"ढेर, संग्रह.समुच्चय"
राशिः
पुं*
- अश्+इञ् धातोरुडागमश्च
संख्या
राशिः
पुं*
- अश्+इञ् धातोरुडागमश्च
ज्योतिष का घर जिसमें २.१/४ नक्षत्र समिमलित होते है
Wordnet
Sanskrit
Synonyms:
राशिः
noun
कृषिक्षेत्रे वर्तमानः धान्यस्य संचयः।
"जनाः राशिं स्यूते स्थापयन्ति।"
Synonyms:
राशिः, चयः, धृषुः, प्रकरः, संहतिः
noun
समानवस्तूनाम् उन्नतः समूहः।
"रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।"
Synonyms:
राशिः
noun
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति इत्येताः।
"मम राशिः कन्या ।"
वैजयन्तीकोषः
Sanskrit
Word: राशिः
Root: राशि
Gender: पुं
Number: all
अर्थः ज्योतिश्चक्रस्य मेषादिद्वादशांशाः
Meaning(s):
Twelfth part of the 27 nakṣatras
or 2 1
4 nakṣatras
Shloka(s):
2|1|50|2 ज्योतिषामयनं ज्योतिःशास्त्रं राशिर्ग्रहाह्वयः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|50|2 ग्रहः (ग्रह) (पुं) Twelth part of the 27 nakṣatras ज्योतिश्चक्रस्य मेषादिद्वादशांशाः
2|1|50|2 राशिः (राशि) (पुं) Twelfth part of the 27 nakṣatras
or 2 1, 4 nakṣatras ज्योतिश्चक्रस्य मेषादिद्वादशांशाः
Related word(s):
जातिः कालः
उपाधि समूहः
अवयव_अवयवीसंबन्धः होरा
Tamil
Tamil
ராசி’: : குவியல், கூட்டம், ஜோதிடச் சக்கரத்தில் ஒரு ராசி.
अमरकोशः
Sanskrit
Word: राशिः
Root: राशिः
Gender: undefined
Number: undefined
Meaning(s):
ram
sheep
Aries [Astr. zodiac]
Shloka(s):
1|3|27|2 राशीनामुदयो लग्नं ते तु मेषवृषादयः॥ (दिग्वर्गः)
3|3|37|1 अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्। (नानार्थवर्गः)
Synonym(s):
1|3|27|2 मेषः (मेष) (पुं)
1|3|27|2 वृषः (वृष) (पुं) man, bull, male, water, enemy, virtue, husband, moral merit, semen virile, mouse or rat, male of any animal, strong or potent man, just or virtuous act, zodiacal sign Taurus, particular form of a temple, boar [male of various animals], piece of ground suitable for the foundation of a house, Justice or Virtue personified as a bull or as ziva's bull, chief of a class or anything the most excellent or preeminent or best of its kind
3|3|37|1 कूटः (कूट) (पुं) untrue, dwelling, deceitful, kind of hall, ox whose horns are broken, subdivision of grahayuddha, mystical name of the letter kSa, not horned or cornuted [as an animal with incomplete continuations of the bone of the forehead]
3|3|37|1 कूटम् (कूट) (नपुं) untrue, dwelling, deceitful, kind of hall, ox whose horns are broken, subdivision of grahayuddha, mystical name of the letter kSa, not horned or cornuted [as an animal with incomplete continuations of the bone of the forehead]
Related word(s):
जातिः कालः
शब्दकल्पद्रुमः
Sanskrit
राशिः,
पुं,
(राशते इति राश शब्द + इण् ।यद्वा, अश्नुते व्याप्नोतीति अशू व्याप्तौ + “अशि-पणाय्यो रुडायलुकौ ।” उणा० १३२ ।इति इण् रुडागमश्च ।) धान्यादिसमूहः ।तत्पर्य्यायः पुञ्जः उत्करः कूटम् ।इत्यमरः ४२
समुच्चयः समा-हारः इति जटाधरः
अश्नुते व्याप्नोतिइति राशिः अशू व्यप्तिसंहत्योरित्यस्मात्नाम्नीति इञ् निपातनाद्रेफागमः इतिभरतः
*
(यथा, शकुन्तलायाम् अङ्के ।“न खलु खलु बाणः सन्निपात्योऽयमस्मिन्मृदुनि मृगशरीरे तुलराशाविवाग्निः
”)ज्योतिश्चक्रस्य द्वादशांशः तस्योत्पत्तिर्यथा, --अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्त्तिभृत् ।मनसश्चन्द्रमा जज्ञे सूर्य्योऽक्ष्णोस्तेजसां निधिः
मनसः खं ततो वायुरग्निरापो धरा क्रमात् ।गुणेकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे
अग्नीषोमौ भास्करेन्दू ततस्त्वङ्गारकादयः ।तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे
पुनर्द्वादशधात्मानं विभजेद्राशिशंज्ञकम् ।नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी
”इति सूर्य्यसिद्धान्ते गोलाध्यायः
*
तस्य संस्थानं यथा, --“विषुवत्क्रान्तिवृत्त्यैक्यात् पूर्व्वभागस्थिताःस्थिराः ।मेषाद्या राशयः क्रान्तिवृत्तयः पूर्व्वदिक्क्रमात्
”इति मुनीश्वरकृतसार्व्वभौमसिद्धान्तः
*
अथ राश्यादिनिर्णयः ।“मेषवृषमिथुनकर्क्कटसिंहाः कन्या तुलाथवृश्चिकभम् ।धनुरथ मकरः कुम्भो मीन इति राशयःकथिताः
”इति राशिकथनम्
*
“अश्विन्या सह भरणी कृत्तिकापादश्च कीर्त्तितोमेषः ।वृषभः कृत्तिकाशेषं रोहिण्यर्द्धश्च मृग-शिरसः
मृगशिरसोऽर्द्धं चार्द्रा पुनर्व्वसोस्त्रिपादो मिथु-नम् ।पादः पुनर्व्वसोरन्त्यः पुष्योऽश्लेषा कर्कटः
सिंहोऽथ मघा पूर्व्वफल्गुणी पाद उत्तरायाः ।तच्छेषं हस्ता चित्रार्द्धञ्च कन्यकाख्यः
तोलिनि चित्रार्द्धं स्वाती विशाखायाः पाद-त्रयम् ।अलिनि विशाखा पादस्तथानुराधान्विताज्येष्ठा
मूल पूव्वाषाढा प्रथमश्चाप्युत्तरांशको धन्वी ।मकरस्तत्परिशेषं श्रवणा चांर्द्धं धनिष्ठायाः
१०
धनिष्ठार्द्धं शतभिषा पुर्व्वभाद्रपदपादत्रयंकुम्भः ११ ।पूर्व्वभाद्रपदाशेषस्तथोत्तरा रेवती मीनः
११
इति राशिनक्षत्रभेदकथनम्
*
“राशिनामानि क्षेत्रं भमृक्षे गृहनाम ।मेषादीनाञ्च पर्य्यायं लोकादेव विचिन्तयेत्
”इति राशिपर्य्यायकथनम्
*
“क्रियतावुरिजितुमकुलीरलेयपाथेययूककौ-र्पाख्याः ।तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं चेत्थम्
”इति मेषादीनां विशेषनामकथनम्
*
“अरुणसितहरितपाटलपाण्डुविचित्राः सिते-तरपिषङ्गौ ।पिङ्गलकर्व्वुरवभ्रुमलिना रुचयो यथासंख्यम्
”इति मेषादीनां वर्णभेदकथनम्
*
“मत्स्यौ घटी नृमिथुनं सगदं सवीणंचापी नरोऽश्वजघनो मकरो मृगास्यः ।तौली सशस्यदहना प्लवगा कन्याशेषाः स्वनामसदृशाः स्वचराश्च सर्व्वे
”अश्वजघनोऽश्वाकारजघनो नतु अश्वारूढ-इति जघनः उत्तरत्र चतुश्चरणत्वकथनात् ।राश्यधिष्ठातृदेवताकथनम्
*
“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना चओजोऽथ युग्मं विषमः समश्च ।चरास्थरद्ब्यात्मकनामघेयामेषादयोऽमी क्रमशः प्रदिष्टाः
”इति राशीनां क्रूरसौम्यादिविवेकः
*
दैवज्ञमनोहरे ।“पुण्यश्च पुष्करश्चैव आघानाख्यस्तथैव ।श्रुत्या वृत्त्या भवन्त्येते नित्यं द्बादश राशयः
”इति पुण्यादिविवेकः
*
“मिथुनतुलाघटकन्या द्बिपादाख्याश्चापपूर्व्व-भागश्च ।मृगधनुराद्यन्तार्द्धे वृषाजसिंहाश्चरणाः
”इति द्विपदचतुष्पदराशिकथनम्
*
“कर्कटवृश्चिकमीना मकरान्त्यार्द्धञ्च कीट-संज्ञाः स्युः ।वृश्चिकराशिर्मुनिभिः सरीसृपत्वेन निर्दिष्टः
”इति कीटसरीसृपराशिकथनम्
*
“द्बिपदवशगाः सर्व्वे सिंहं विहाय चतु-व्यदाः ।सलिलनिलया भक्ष्या वश्याः सरीसृपजातयः
मृगपतिवशे तिष्ठन्त्येते विहाय सरीसृपान् ।अकथितगृहेषूह्यं वश्यं जनव्यवहारतः
”सरीसृपजातय इति बहुवचनात् कीटस्यापिपरिग्रहः राशीनां वश्यावश्यकथनम्
*
“ग्राम्या मिथुनतुलास्त्रीचापालिघटाः निशासुवृषमेषौ ।मकरादिमार्द्धसिंहौ वन्यौ दिवसेऽजवृषभौ
जलजौ कर्कटमीनौ मकरान्त्यार्द्धञ्च शिवमतेकुम्भः
इति ग्राम्यारण्यजलजराशिकथनम्
*
“ह्नस्वास्तिमिगोऽविघटा मिथुनधनुःकर्किमृग-मुखाश्च समाः ।वृश्चिककन्यामृगपतिबणिजो दीर्घाः समा-ख्याताः
”इति राशीनां ह्नस्वदीर्घकथनम्
*
“प्रागादिककुभां नाथा यथासंख्यं प्रदक्षिणम् ।मेषाद्या राशयो ज्ञयास्त्रिरावृत्तिपरिभ्रमात्
”इति दिगधिपलग्नकथनम्
*
“कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनीभुवाम् ।जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः
इति ग्रहाणां क्षेत्रकथनम्
*
“अजो गोपतियुग्मञ्च कर्किधन्विमृगास्तथा ।निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः
निशासंज्ञा विमिथुनाः स्मृताः पृष्ठोदयास्तथा ।शेषाः शीर्षोदया ह्येते मीनश्चोभयसंज्ञकः
”इति निशादिसंज्ञाकथनम्
*
“रविर्मासं निशानाथः सपाददिवसद्वयम् ।पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादशवासरान्
वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः ।शनिः सार्द्धद्वयं वर्षं स्वर्भानुः सार्द्धवत्सरम्
एवं प्रमाणात् सकलाः स्वराशिं भुञ्जते ग्रहाः
”इति राशिभोगकथनम्
इति ज्योतिस्तत्त्वम्
*
द्बादशराश्यात्मक-शिवरूपं यथा, --पुलस्त्य उवाच ।“स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालरूपिणः ।अश्विनी भरणी चैव कृत्तिकाप्रथमांशकम्
मेषकं हि विजानीयात् कुजक्षेत्रमुदाहृतम् ।आग्नेयांशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम्
सौम्यार्द्धं वृषनामेदं वदनं परिकीर्त्तितम् ।मृगार्द्धमार्द्रादित्यां शास्त्रयः सौम्यगृहं त्विदम्
मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः ।आदित्यांशश्च पुष्यश्च अश्लेषा शशिनो गृहम्
राशिः कर्कटको नाम पार्श्वे मखविनाशिनः ।पित्र्यर्क्षं भगदैवत्यं उत्तरांशश्च केशरी
सूर्य्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिकीर्त्तितम् ।उत्तरांशास्त्रयः पाणिश्चित्रार्द्धं कन्यका त्वियम् ।सोमपुत्त्रस्य सद्मैतद्द्बितीयं जठरं विभोः
चित्रांशद्वितयं स्वाती विशाखायांशकत्रयम् ।द्वितीयं शुक्रसदनं तुला नाभिरुदाहृता
विशाखांशमनुराधा ज्येष्ठा भौमगृहं त्विदम् ।द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः
मूलं पूर्व्वोत्तरांशश्च देवाचार्य्यगृहं धनुः ।उरुयुगलमीशस्य अमरर्षे प्रगीयते
उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने ।धनिष्ठार्द्धं शनिक्षेत्रं जानुनी परिकीर्त्तिते
धनिष्ठार्द्धं शतभिषा प्रोष्ठपदांशकत्रयम् ।सौरं पद्मापरमिदं कुम्भो जङ्घे विश्रुते
प्रोष्ठपद्यंशमेकन्तु उत्तरा रेवती तथा ।द्बितीयं जीवसदनं मीनन्तु चरणावुभौ
*
राशीनां लक्षणस्वरूपादि यथा, --नारद उवाच ।“राशयः कथिता ब्रह्मन् ! त्वया द्बादश वै मम ।तेषां विशेशतो ब्रूहि लक्षणानि स्वरूपतः
पुलस्त्य उवाच ।स्वरूपं तत्र वक्ष्यामि राशीनां शृणु नारद ।यादृशा यत्र सञ्चारा यस्मिन् स्थाने बसन्ति हि
सञ्चारस्थानमेकस्य धान्यरत्नाकरादिषु ।नवसाद्बलसंच्छन्नो वसुधायाञ्च सर्व्वशः
नित्यं चरति फुल्लेषु सरसां पुलिनेषु ।मेषः समानमूर्त्तिश्च अजाविकधनादिषु
वृषः सदृशरूपेषु चरते गोकुलादिषु ।तस्याधिवासभूमिस्तु कृषीबलधराश्रया
स्त्रीपुंसयोः समं भद्रशय्यासनपरिग्रहैः ।बीणावाद्यधृङ्मिथुनं गीतनर्त्तकशिल्पिषु
स्थितं क्रीडा रतिर्न्नित्यं विहारोऽवनिरस्य तु ।मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्मृतः
कर्किः कुलीरेण समः सलिलस्थः प्रकीर्त्तितः ।केदारवापीपुलिनविविक्तावनिरेव
सिंहस्तु पर्व्वतारण्यदुर्गकन्दरभूमिषु ।वसते व्याधपल्लीषु गह्वरेषु गुहासु
या हि प्रदीपककरा नावारूढा कन्यका ।चरते स्त्रीरतिस्थाने वसते तद्वनेषु
तुलापाणिश्च पुरुषो वीथ्यापणविचारकः ।नगराध्वनि शालासु वसते तत्र नारद
स्वभ्रवल्मीकसञ्चारी वृश्चिको वृश्चिकाकृतिः ।वृषगोमयकीटोऽहिपाषाणादिषु संस्थितः
धनुस्तुरङ्गजघनो दीप्यमानो धनुर्द्धरः ।बाजिशूरोऽस्त्रविद्बीरः स्थायी युद्धबलादिषु
मृगास्यो मकरो ब्रह्मन् ! वृषस्कन्धः फणाङ्गदः ।मकरोऽसौ नदीचारी वसते महोदधौ
रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः ।दूतशालाचरः कुम्भस्थायी शौण्डिकसद्मसु
मीनरूपत्वमासक्तो मीनस्तीर्थाम्बुसञ्चरः ।वसते पुण्यदेशेषु देवब्राह्मणपूजकः
लक्षणं गदितं तुभ्यं मेषादीनां महामुने ।न कस्यचित्त्वयाख्येयं गुह्यमेतत् पुरातनम्
एतन्मया ते कथितं सुरर्षेयथा त्रिनेत्रः प्रममाथ यज्ञे ।पुण्यं पुराणं परमं पवित्रंसंशृण्वतां पापहरं शिवञ्च
”इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे हर-ललितः पञ्चमोऽध्यायः