| YouTube Channel

रावणगङ्गा (rAvaNagaGgA)

 
Monier Williams Cologne
English
रावण—गङ्गा
f.
‘R°'s Ganges’,
N.
of a river in Laṅka,
GāruḍaP.
शब्दकल्पद्रुमः
Sanskrit
रावणगङ्गा,
स्त्री,
(रावणेन कृता गङ्गा ।) सिंहल-देशस्थनदीविशेषः यथा, --सूत उवाच ।“दिवाकरस्तस्य महामहिम्नोमहासुरस्योत्तमरत्नबीजम् ।असृग्गृहीत्वा चरितं प्रतस्थेनिस्त्रिंशनीलेन नभस्तलेन
जेत्रा सुराणां समरेष्वजस्रंवीर्य्यावलेपोद्धतमानसेन ।लङ्काधिपेनार्द्धपथं समेत्यस्वर्भानुनेव प्रसभं निरुद्धम्
तत् सिंहलीचारुनितम्बविम्ब-विक्षोभितागाधमहाह्नदायाम् ।पूगद्रुमाबद्धतटद्वयायांमुमोच सूर्य्यः सरिदुत्तमायाम्
ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया ।नाम्ना रावणगङ्गेति प्रथिमानगुपागता
ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ।पद्मरागा घनं रागं विभ्राणाः स्वस्फटार्च्चिषः
”इति गारुडे ७० अध्यायः
वाचस्पत्यम्
Sanskrit
रावणगङ्गा स्त्री रावणनिर्म्मिता गङ्गा नदी सिंहल-देशस्थे नदीभेदे गरुडपु० अ०