| YouTube Channel

रायकः-यिका (rAyakaH-yikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रय गतौ”@} 2 रायकः-यिका, रायकः-यिका, रिरयिषकः-षिका, रारयकः-यिका
रयिता-त्री, राययिता-त्री, रिरयिषिता-त्री, रारयिता-त्री
इत्यादिकानि समस्तान्यपि रूपाणि भौवादिकचयतिवत् 3 ज्ञेयानि।
निरयः घञि-रायः, क्विपि-प्ररत्-प्ररतौ-प्ररतः इति, अचि-रयः-इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३८१)
02
=>
(१-भ्वादिः-४८२। सक। सेट्। आत्म।)
03
=>
(५०२)
1 {@“रि हिंसायाम्”@} 2 अयं घातुः क्षीरतरङ्गिण्यां दृश्यते।
रायकः-यिका, रायकः-यिका, रिरीषकः-षिका, रेरीयकः-यिका
रेता-त्री, राययिता-त्री, रिरीषिता-त्री, रेरीयिता-त्री
3 इत्यादिकानि सर्वाण्यपि रूपाणि तौदादिकपियतिवत् 4 ज्ञेयानि।
शतरि- 5 रिण्वन्-ती, 6 व्यतिरिण्वन्-ती, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३९८)
02
=>
(५-स्वादिः-१२७५। सक। अनि। पर।)
03
=>
[पृष्ठम्१११६+ २६]
04
=>
(९९१)
05
=>
[[१। अस्य धातोः स्वादित्वात्, श्नुप्रत्यये, णत्वे रूपमेवम्।]]
06
=>
[[२। ‘न गतिहिंसार्थेभ्यः’ (१-३-८७) इति शानचो निषेधात् कर्मव्यतीहारेऽपि परस्मैपदमेव।]]
1 {@“रि गतौ”@} 2 रायकः-यिका, रायकः-यिका, रिरीषकः-षिका, रेरीयकः-यिका
रेता-त्री, राययिता-त्री, रिरीषिता-त्री, रेरीयिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि तौदादिकपियतिवत् 3 ज्ञेयानि।
शतरि-रियन् 4 -न्ती-ती, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३९९)
02
=>
(६-तुदादिः-१४०४। सक। अनि। पर।)
03
=>
(९९१)
04
=>
[[आ। ‘व्यापारेऽत्र तदामरानपि रियन्नाशाः पियन्नाधित…।’ धा। का। २-८३।]]
1 {@“री गतिरेषणयोः”@} 2 प्वादिः, ल्वादिश्च।
‘स्रवणे रीयते रीङो, रिणाति गतिरेषयोः।।’ 3 इति देवः।
‘रेषणम् = 4 हिंसा’ इति क्षीरस्वामी।
“रेषणम् = वृकशब्दः।
यदाह यादवप्रकाशः-- ‘वृकस्य रेषणं रेषा, ह्रेषा हेषा वाजिनाम्।
बृंहितं करिणां शब्दः--।।’ इति।” इति पुरुषकारः।
गतिहिंसार्थयोः सकर्मकः, वृकरवार्थकत्वे तुं अकर्मक इति बोध्यम्।
‘श्रवणे’ इत्यपि केचित्।
‘-- गतिशोषणयोः’ इति न्यासे 5 पाठः।
6 रायकः-यिका, 7 रेपकः-पिका, रिरीषकः-षिका, रेरीयकः-यिका
रेता-रेत्री, रेपयिता-त्री, रिरीषिता-त्री, रेरीयिता-त्री
इत्यादिकानि समस्तान्यपि रूपाणि क्रैयादिकप्लिनातिवत् 8 बोध्यानि।
9 व्यतिरिणानः, व्यति- रिणन्-ती, 10 रयः, 11 रीतिः, रीणिः, इतीमान्यस्माद्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४१०)
02
=>
(९-क्र्यादिः-१५००। सक। अनि। पर।)
03
=>
(श्लो। १८)
04
=>
[[२। यदा तु रेषणशब्दस्य हिंसा अर्थः, तदानीं ‘रिष हिंसायाम्’ इति भौवादिक- धातोर्निष्पन्नं पदमेतदिति बोध्यम्। यदि वृकशब्दोऽर्थः--तर्हि ‘रेषृ अव्यक्ते शब्दे’ इति भौवादिकधातोर्निष्पन्नं तदिति भेदोऽत्रानुसन्धेयः।]]
05
=>
(७-३-३६)
06
=>
[पृष्ठम्११२२+ ३१]
07
=>
[[१। ण्यन्ते सर्वत्र, ‘अर्तिह्रीव्लीरीक्नूयी--’ (७-३-३६) इत्यादिना पुगागमः। ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति गुणः।]]
08
=>
(१०८१)
09
=>
[[२। हिंसागत्यर्थंयोः ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति आत्मनेपदनिषेधात् कर्म- व्यतीहारेऽपि व्यतिरिणन् इति शतैव। शब्दार्थकत्वे तु ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानचि व्यतिरिणानः इति रूपमिति बोध्यम्।]]
10
=>
[[३। भावे ‘एरच्’ (३-३-५६) इत्यचि रूपमेवम्। अभिधानस्वाभाव्याद् गत्यर्थ- कस्यास्य वेगे वृत्तिरत्रेति बोध्यम्। ‘कथं पुनरन्यो नामान्यस्यार्थे वर्तते? कथम् ऊहिर्वह्यर्थे वर्तते? बह्वर्था अपि धातघो भवन्ति…’ इति भाष्य (३-१-१३१)- वाक्यमिहावधेयम्।]]
11
=>
[[४। क्तिचि रूपमेवम्। क्तिनि तु ‘ऋकारल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति वचनात् रीणिः इति नत्वे णत्वे भवति।]]
1 {@“रीङ् स्रवणे”@} 2 स्वादिः।
‘स्रवणे रीयते रीङो रिणाति गतिरेषयोः।।’ 3 इति देवः।
‘-- श्रवणेऽपि’ इति क्वचित् पाठः।
रायकः-यिका, 4 रेपकः-पिका, रिरीषकः-षिका, रेरीयकः-यिका
रेता-रेत्री, रेपयिता-त्री, रिरीषिता-त्री, रेरीयिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि क्रैयादिकप्लिनातिवत् 5 ज्ञेयानि।
शानचि 6 रीयमाणः, 7 रीणः-रीणवान्, क्तिनि--रीतिः, 8 9 रेवती, 10 इति णुप्रत्ययः।]] रेणुः, 11 इति असुन्प्रत्यये तुगागमे रूपम्।]] रेतः इतीमानि रूपाण्यस्मात् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४११)
02
=>
(४-दिवादिः-११३८। अक। अनि। आत्म।)
03
=>
(श्लो। १८)
04
=>
[[५। निरनुबन्धकपरिभाषानाश्रयणेनात्रापि, ‘अर्त्तिह्रीव्लीरी--’ (७-३-३६) इति पुगागमः। ‘पुगन्त--’ (७-३-८६) इति गुणः। तदुक्तम् न्यासे, ‘तेन निरनु- बन्धकपरिभाषा नापेक्ष्यत इति रीङोऽपि ग्रहणं भवति।’ (७-३-३६) इति।]]
05
=>
(१०८१)
06
=>
[[६। शानचि दिवादित्वात् श्यन्। तस्य ङिद्वद्भावेन गुणो न।]]
07
=>
[[७। ‘स्वादय ओदितः’ (ग। सू। दिवादौ) इति धातोरस्य ओदित्त्वमातिदेशिकम्। तेन, ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वम्। णत्वम्। “अत्रात्रेयः। ‘अर्थनिर्देशे शृणोतेरयं प्रयोग इति केचित्।’ तथा रीणशब्दः कर्णपर्यायः कथितः।” इति माधवधातुवृत्तौ दृश्यते। श्रवणार्थकत्वमस्य धातोः, तत्रापि कर्णपर्यायस्य रीणशब्दस्य प्रयोगश्चास्यान्वेष्टव्यः।]]
08
=>
[पृष्ठम्११२३+ २६]
09
=>
[[१। कर्तरि विच्प्रत्यये, तदन्तात् मतुपि, उगित्त्वेन स्त्रियां ङीपि रेवती इति सिद्ध्यति।]]
10
=>
[[२। ‘अजिवृरीभ्यो निच्च’ [द। उ। १-१४८]
11
=>
[[३। ‘स्रुरीभ्यां तुट् च’ [द। उ। ९-६२]
1 {@“रै शब्दे”@} 2 ‘रै शब्दे रायतीतीष्टं राऽऽदाने राति शब्लुकि।।’ 3 इति देवः।
रायकः-यिका, रापकः-पिका, रिरासकः-सिका, रारायकः-यिका
राता-रात्री, रापयिता-त्री, रिरासिता-त्री, रारायिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककायतिवत् 4 बोध्यानि।
5 शतरि 6 रायन्-न्ती, 7 कीरः।
प्रासङ्गिक्यः
01
=>
(१४४३)
02
=>
(१-भ्वादिः-९०९। अक। अनि। पर।)
03
=>
(श्लो। ११)
04
=>
(२६३)
05
=>
[पृष्ठम्११४२+ २३]
06
=>
[[आ। ‘रायद्धयस्त्यानरुचौ रथेऽपि तं भक्तितिष्ट्यापयिषुं दृष्ट्वा।’ धा। का। २। ३१।]]
07
=>
[[१। ‘की’ इति रायति = शब्दायतेऽसाविति कीरः = शुकः, शारिका वा। ‘सुपि स्थः’ (३-२-४) इत्यत्र, ‘सुपि’ इति योगविभागात् कर्तरि कप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे रूपमेवम्।]]