| YouTube Channel

रामायणं (rAmAyaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
रामायणं,
क्ली,
(रामस्य चरितान्वितं अयनंशास्त्रम् ।) रामेण रावणवधकाव्यम् इतित्रिकाण्डशेषः
तच्च शतकोटिसंख्यकम् यथा ।स्कान्दे पातालखण्डे अयोध्यामाहात्म्ये तत्रत्य-तीर्थाश्रमवर्णनप्रस्तावे ।“शापोक्त्या हृदि सन्तप्तं प्राचेतसमकल्मषम् ।प्रोवाच वचनं ब्रह्मा तत्रागत्य सुसत्कृतः
निषादः वै रामो मृगयाञ्चर्त्तुमागतः ।तस्य संवर्णनेनैव सुश्लोक्यस्त्वं भविष्यसि
इत्युक्त्वा तं जगामाशु ब्रह्मलोकं सनातनः ।ततः संवर्णयामास राघवं ग्रन्थकोटिभिः
”कोटिभिः शतकोटिभिः चरितं रघुनाथस्यशतकोटिप्रविस्तरमित्यन्यत्रोक्तेः तच्च संपूर्णंब्रह्मलोके इत्यैतिह्यम्
इह तु कुशलवोपदिष्टाचतुर्विंशतिसाहस्रीत्यलम् इति रामायण-टीकायां नागोजीभट्टः
*
तथा हि ।“प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवान् ऋषिः ।चकार चरितं कृत्स्नं विचित्रपदमर्थवत्
चतुर्विंशत्सहस्राणि श्लोकानामुक्तवान् ऋषिः ।तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम्
इति रामायणे वाल्मीकीये बालकाण्डे सर्गः
संक्षिप्तरामचरित्रं यथा, --“रामायणमथो वक्ष्ये श्रुतं पापविनाशनम् ।विष्णुनाभ्यब्जजो ब्रह्मा मरीचिस्तत्सुतः स्मृतः
मरीचेः कश्यपस्तस्मात् परस्तस्मात् मनुः सुतः ।मनोरिक्षाकुवंश्योऽभूद्वंशे राजा रघुः स्मृतः
रघोरजस्ततो जातो राजा दशरथो बली ।तस्य पुत्त्रास्तु चत्वारो महाबलपराक्रमाः
कौशल्यायामभूद्रामो भरतः केकयीसुतः ।सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः
रामो भक्तः पितुर्मातुर्विश्वामित्रादवाप्तवान् ।अस्त्रग्रामं यतो यक्षीं ताडकां प्रजघान
विश्वामित्रस्य यज्ञे तु सुबाहुं न्यवधीद्बली ।जनकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम्
उर्म्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम् ।शत्रुघ्नो वै कीर्त्तिमतीं कुशध्वजसुते ते
पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः ।युधाजितं मातुलञ्च शत्रुघ्नभरतौ गतौ
गतयोर्नृपवर्य्येण राज्यं दातुं समुद्यतम् ।रामाय ज्येष्ठपुत्त्राय कैकेय्या प्रार्थितं तदा ।चतुर्द्दशसमा वासो वने रामस्य वाञ्छितः
रामः पितृहितार्थन्तु लक्ष्मणेन सीतया ।राज्यञ्च तृणवत्त्यक्त्वा शृङ्गवेरपुरं गतः ।रथं त्यक्त्वा प्रयागञ्च चित्रकूटं गिरिं गतः
रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः ।संस्कृत्य भरतश्चागात् रामं मातृबलान्वितः
अयोध्यान्तु समागत्य राज्यं कुरु महामते ।स नैच्छत् पादुके दत्त्वा राज्याय भरताय तु
विसर्ज्जितोऽथ भरतो रामराज्यमपालयत् ।नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद्व्रती
रामोऽपि चित्रकूटाच्च अत्रेराश्रममाययौ ।नत्वा अभीक्ष्णं चागस्त्यं दण्डकारण्यमागतः
तत्र सूर्पनखा नाम राक्षसीसार्द्धमागता ।निकृत्य कर्णौ नासे रामेणाथ पराहिता
तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा ।चतुर्द्दशसहसेण रक्षसान्तु बलेन
रामोऽपि प्रेषयामास वाणैर्यमपुरञ्च तान् ।राक्षस्या प्रेरितोऽभ्यागात् रावणो हरणाय हि
मृगरूपं मारीचं कृत्वाग्रेऽथ त्रिदण्डधृक् ।सीतया प्रेरितो रामो मारीचं प्रजघान
म्रियमाणः प्राह हा सीते लक्ष्मणेति ।सीतोक्तो लक्ष्मणोऽथागाद्रामश्चाशु ददर्श तम्
उवाच राक्षसी माया नूनं सीता हृतेति सा ।रावणोऽन्तरमासाद्य अङ्केनादाय जानकीम्
जटायुषं विनिर्ज्जित्य ययौ लङ्कां ततो बली ।अशोकवृक्षच्छायायां रक्षितां तामधारयत्
आगत्य रामः शून्यञ्च पर्णशालां ददर्श ।शोकं कृत्वाथ जानक्या मार्गणं कृतवान् प्रभुः
जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम् ।गत्वा सख्यं ततश्चक्रे सुग्रीवेण राघवः
सप्ततालान् विनिर्भिद्य शरेणानतपर्व्वणा ।वालिनञ्च विनिर्भिद्य किष्किन्धायां हरीश्वरम्
सुग्रीवं कृतवान् रामो ऋष्यमूके स्वयं स्थितः ।सुग्रीवः प्रेषयामास वानरान् पर्व्वतोपमान्
सीताया मार्गणं कर्त्तुं पूर्व्वाद्यैः सुमहाबलान् ।प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः
दक्षिणान्तु दिशं ये मार्गयन्तोऽथ जानकीम् ।वनानि पर्व्वतान् द्वीपान् नदीनां पुलिनानि
जानकीं ते ह्यपश्यन्तो मरणे कृतनिश्चयाः ।सम्पातिवचनात् ज्ञात्वा हनूमान् कपिकुञ्जरः
शतयोजनविस्तीर्णं पुप्लुवे मकरालयम् ।अपश्यज्जानकीं तत्र अशोकवनिकास्थिताम्
भर्त्सितां राक्षसीभिश्च रावणेन रक्षसा ।भव भार्य्येति वदता चिन्तयन्तीञ्च राघवम्
अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत् ।रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि
अभिज्ञानञ्च मे देहि येन रामः स्मरिष्यति ।तत् श्रुत्वा प्रददौ सीता वेणी रत्नं हनूमते
यथा रामो नयेत् शीघ्रं तथा वाच्यं त्वया गते ।तथेत्युक्त्वा तु हनुमान् वनं दिव्यं बभञ्ज तत्
हत्वाक्षं राक्षसांञ्चान्यान् बन्धनं स्वयमागतः ।सर्व्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीत्
रामदूतोऽस्मि हनुमान् देहि रामाय मैथि-लीम् ।एतत् श्रुत्वा प्रकुपितो दीपयामास पुच्छकम्
कपिज्र्ज्वलितलाङ्गूलो लङ्कागेहे महाबलः ।दग्ध्वा लङ्कां समायातो रामपार्श्वं वानरः
जग्ध्वा फलं मधुवने दृष्ट्वा सीतेत्यवेदयत् ।मणिरत्नञ्च रामाय रामो लङ्कां ययौ पुरीम्
ससुग्रीवः सहनुमानङ्गदाद्यः सलक्ष्मणः ।विभीषणोऽपि संप्राप्तः शरणं राववं प्रति
लङ्कैश्वर्य्येष्वभ्यसिञ्चद्रामस्तं रावणानुजम् ।रामो नलेन सेतुञ्च कृत्वाब्धौ चोच्छ्रितायतम्
सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्श ।अथ ये वानरा वीरा नीलाङ्गदनलादयः
धूम्रधूम्राक्षधूम्रेन्द्रा जाम्बवत्प्रमुखास्तदा ।मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां नभञ्जिरे
राक्षसांश्च महाकायान् कालाञ्जनचयोपमान् ।रामः सलक्ष्मणो हत्वा सकपिः सर्व्वराक्षसान्
विद्युज्जिह्वञ्च घूभ्राक्षं वेदान्तकनरान्तकौ ।महोदरमहापार्श्वावतिकायं महाबलम्
कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम् ।प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम्
रावणिं लक्ष्मणश्छित्त्वा ह्यस्त्राद्यै राघवो बली ।निकृत्य बाहू वक्त्राणि रावणन्तु व्यपातयत्
सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः ।सवानरः समायातो ह्ययोध्याप्रवरं पुरम्
तत्र राज्यं चकाराथ पुत्त्रवत् पालयन् प्रजाः ।दशाश्वमेधानाहृत्य गयाशिरसि पातनम्
पिण्डानां विधिवत् कृत्वा दत्त्वा दानानि राघवः ।पुत्त्रौ कुशलवौ सृष्ट्वा तौ राज्येऽभ्यषेचयत्
एकादशसहस्राणि रामो राज्यमकारयत् ।शत्रुघ्नो लवणं हत्वा शैलूषं भरतः स्थितः
अगस्त्यादीन् मुनीन् श्रुत्वा श्रुत्वोत्पत्तिञ्च रक्ष-साम् ।स्वर्गं गतो जनैः सार्द्धमयोध्यां वैकृतान्तकः
”इति गारुडे १४८ अध्यायः
*
एतदतिरिक्तं वाल्मीकिप्रणीतं सप्तविंशतिसर्ग-युक्तं सहस्रश्लोकात्मकं सीताकर्त्तृकसहस्रकन्ध-रावणवधकाव्यरूपाद्भुतोत्तरकाण्डमस्ति तस्यप्रथमसर्गीयश्लोका यथा, --“तमसातीरनिलयं सर्व्वेषां तपसां गुरुम् ।वचसां प्रथमं स्थानं वाल्मीकं मुनिपुङ्गवम्
विनयावनतो भूत्वा भारद्बाजो महामुनिः ।पप्रच्छ सम्मतः शिष्यः कृताञ्जलिपुटो वशी
रामायणमितिख्यातं शतकोटि प्रविस्तरम् ।प्रणीतं भवता यच्च ब्रह्मलोके प्रतिष्ठितम्
श्रूयते ब्रह्मणा नित्यमृषिभिः पितृभिः सुरैः ।पञ्चविंशतिसाहस्रं रामायणमिदं भुवि ।तदाकर्णितमस्ताभिः सावशेषं महामुने
शतकोटिप्रविस्तारे रामायणमहार्णवे ।किं गीतमिह यन्नास्ति तन्मे कथय सुव्रत
आकर्ण्यादरिणः पृष्टं भरद्बाजस्य वै मुनिः ।हस्तामलकवत् सर्व्वं सस्मार शतकोटिकम्
ओमित्युक्त्वा मुनिः शिष्यं प्रोवाच वदतां वरः ।भारद्वाज चिरं जीव साधु स्मारितमद्य नः
शतकोटिप्रविस्तारे रामायणमहार्णवे ।रामस्य चरितं सर्व्वमाश्चर्य्यं सम्यगीरितम्
पञ्चविंशतिसाहस्रं नृलोके यत् प्रतिष्ठितम् ।नृणां हि सदृशं रामचरितं वर्णितं मया ।सीतामाहात्म्यसारं यत् विशेषादत्र नोक्त-वान् ।शृणुष्वावहितो ब्रह्मन् काकुत्स्थचरितं महत् ।सीताया मूलभूतायाः प्रकृतेश्चरितञ्च यत्
”इत्याद्यार्षे रामायणे वाल्मीकीये अद्भुतोत्तर-काण्डे आदिकाव्ये प्रथमः सर्गः
*
अन्यत् ब्रह्माण्डपुराणीयोत्तरखण्डान्तर्गतैकषष्टितमाध्यायादिक-हरपार्व्वती-संवादरूपाध्यात्म-रामायणमस्ति ।तत्र अध्यात्मबालकाण्डे सर्गाः सप्तैव शम्भु-नोद्दिष्टाः षष्ट्युत्तरत्रिशतश्लोकाः मोक्षप्रदानृणाम् अध्यात्मरामचरिते अयोध्याकाण्डेनवानां सर्गाणां सप्तशतानि श्लोकाः पुण्यमोक्ष-प्रदाः काण्डेऽरण्येऽध्यात्माख्ये सर्गा द्विपञ्चपरिक्षिप्ताः पञ्चशतानि श्लोकाः पापहराःपार्व्वतीशोक्ताः श्रीमदध्यात्मरामायणे उमा-महेश्वरसंवादे किष्किन्ध्याकाण्डे नवमः सर्गःपञ्चशतानि श्लोकाः दुरितहरा पञ्चपञ्चाशत् ।सुन्दरकाण्डे सर्गाः पञ्चैवाध्यात्मिकशब्दितेप्रोक्तास्त्रीणि शतानि श्लोकास्त्रिभुवनपाप-हराः काण्डे युद्धात्मके सर्गा नवसप्त नील-कण्डोक्ताः सार्द्धैकादशशतश्लोका मनुसंख्यायुता-पुण्याः अध्यात्मोत्तरकाण्डे सर्गाः ग्रह-संख्यया प्रक्षिप्ता ऋतुशतसंख्यश्लोकाः ।पुराणसंख्याश्च पुरा हरेणोक्ताः ।“पार्व्वत्यै परमेश्वरेण गदिते ह्यध्यात्मरामायणेकाण्डैः सप्तभिरन्वितेऽतिशुभदे सर्गाश्चतुः-षष्टिकाः ।श्लोकानान्तु शतद्वयेन सहिता युक्तानि चत्वारिसा-हस्राण्येव समासतः श्रुतिशते सूक्तानि तत्त्वा-र्थतः
”इत्यध्यात्मरामायणम्
*
अपरं रामवशिष्ठसंवादरूपमोक्षोपायकदेव-हूतोक्तवाशिष्ठनामकमहारामायणमस्ति तत्रप्रथमार्द्धे अष्टाविंशत्यूत्तरशतसर्गाः तस्यआद्यन्तश्लोकौ यथा, --श्रीवाल्मीकिरुवाच ।“उपशमप्रकरणादनन्तरमिदं शृणु ।तन्निर्व्वाणप्रकरणं ज्ञातं निर्व्वाणदायि यत्
इमं शृणुयान्नित्यं विधिं रामवशिष्ठयोः ।सर्व्वावस्थोऽपि श्रवणान्मुच्यते ब्रह्म ऋच्छति
उत्तरार्द्धे षोडशोत्तरद्बिशतसर्गाः तस्या-द्यन्तश्लोकौ यथा, --श्रीराम उवाच ।“नैष्कर्म्म्यात् कल्पनात्यागात् तनुः पततिरोहितः ।कथमेतदता ब्रह्मन् सम्भवत्याशु जीवतः
यत् तर्व्वं खल्विदं ब्रह्म तज्जलानिति स्फुटम् ।श्रुत्या ह्युदीर्य्यते साम्नि तस्मै ब्रह्मात्मने नमः
अत्रादौ वैराग्यप्रकरणग्रन्थः द्वितीयो मुमुक्षु-ग्रन्थः तृतीय उत्पत्तिग्रन्थः चतुर्थः स्थिति-ग्रन्थः पञ्चमः सकलोपशमग्रन्थः षष्ठप्रक-रणे निर्व्वाणग्रन्थः पूर्व्वार्द्धे सटीकग्रन्थ-संख्या १३६०० उत्तरार्द्धे सटीकग्रन्थसंख्या२३९०० इति श्रीमहारामायणे निर्व्वाणप्रक-रणे बालकाण्डे मोक्षोपाये देवहूतोक्ते द्बात्रिं-शत्साहस्र्यां संहितायां वाशिष्ठे ब्रह्मदर्शनेउत्तरार्द्धे षोडशोत्तरद्विशततमः सर्गः