| YouTube Channel

रामबाणः (rAmabANaH)

 
Wordnet
Sanskrit
Synonyms:
रामबाणः
noun
एकः रसौषधप्रकारः।
"रामबाणः अजीर्णे अतीव उपयुक्तः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
रामबाणः,
पुं,
(रामस्य बाण इव सफलत्वात् ।)औषधविशेषः यथा रसेन्द्रचिन्तामणौ ।“पारदामृतलवङ्गगन्धकंभागयुग्ममरिचेन मिश्रितम् ।तत्र जातिफलमर्द्धभागिकंतित्तिलीफलरसेन मर्द्दितम्
वह्निमान्द्यदशवक्त्रनाशनोरामबाण इति विश्रुतो रसः ।संग्रहग्रहणीकुम्भकर्णक-मामवातखरदूषणं जयेत्
दीयते तु चणकानुमानतःसद्य एव जठराग्निदीपनः ।रोचकः कफकुलान्तकारकःश्वासकासवमिजन्तुनाशनः
”पाराभागः विषभागः लवङ्गभागः १गन्धकभागः मरिचभागः जायफलभागः ।रामबाणो रसोऽजीर्णे इति भावप्रकाशः
(शरवृक्षभेदः इति राजनिर्घण्टः
राम-शरश्च
)