| YouTube Channel

रामबाण (rAmabANa)

 
Monier Williams Cologne
English
राम—बाण
m.
a species of cane,
L.
a partic. medicinal preparation,
Bhpr.
Aufrecht Catalogus Catalogorum
English
रामबाण med. by Dāmodara. Hpr. 2, 181.
शब्दकल्पद्रुमः
Sanskrit
रामबाणः,
पुं,
(रामस्य बाण इव सफलत्वात् ।)औषधविशेषः यथा रसेन्द्रचिन्तामणौ ।“पारदामृतलवङ्गगन्धकंभागयुग्ममरिचेन मिश्रितम् ।तत्र जातिफलमर्द्धभागिकंतित्तिलीफलरसेन मर्द्दितम्
वह्निमान्द्यदशवक्त्रनाशनोरामबाण इति विश्रुतो रसः ।संग्रहग्रहणीकुम्भकर्णक-मामवातखरदूषणं जयेत्
दीयते तु चणकानुमानतःसद्य एव जठराग्निदीपनः ।रोचकः कफकुलान्तकारकःश्वासकासवमिजन्तुनाशनः
”पाराभागः विषभागः लवङ्गभागः १गन्धकभागः मरिचभागः जायफलभागः ।रामबाणो रसोऽजीर्णे इति भावप्रकाशः
(शरवृक्षभेदः इति राजनिर्घण्टः
राम-शरश्च
)
वाचस्पत्यम्
Sanskrit
रामबाण
पु०
रसभेदे भावप्र० ।“पारदामृतलवङ्गगन्धक मागयुग्ममरिचेन मिश्रितम् ।तत्र जातिफलमर्द्धभागिकं तिन्तिलीफलरसेन मर्द्दितम् ।वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः ।संग्रहग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत् दीयतेतु स्वबलानुमानतः सद्य एव जठराग्निदीपन रोचकःकफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः” भावप्र०