| YouTube Channel

रामनवमी (rAmanavamI)

 
शब्दसागरः
English
रामनवमी
f.
(-मी) The ninth day in the light-half of Chaitra, the anni-
versary of the birth of RĀMACHANDRA.
Monier Williams Cologne
English
राम—नवमी
f.
N.
of the 9th day in the light half of the month Caitra (being the birthday of Rāma-candra),
RāmatUp.
RTL.
430
Apte Hindi
Hindi
रामनवमी
स्त्री*
रामः-नवमी -
"चैत्रशुक्ला नवमी, राम की जयंती"
Shabdartha Kaustubha
Kannada
रामनवमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಚೈತ್ರ ಶುಕ್ಲ ನವಮಿ /ಶ್ರೀರಾಮನ ಅವತಾರದ ದಿನ
L R Vaidya
English
rAma-navamI {% f. %} the ninth day in the light half of Chaitra, the anniversary of the birth of Rāmachandra.
Wordnet
Sanskrit
Synonyms:
रामनवमी, दुर्गानवमी
noun
चैत्रमासस्य शुक्लपक्षस्य नवमी।
"प्रभुरामः रामनवम्याम् अवतरितः।"
शब्दकल्पद्रुमः
Sanskrit
रामनवमी,
स्त्री,
(रामस्य जन्मतिथिरूपा नवमी ।मध्यपदलोपिकर्म्मधारयः ।) चैत्रशुक्लनवमी साच श्रीरामचन्द्रस्य जन्मतिथिः यथा, --“अगस्त्यसंहितायाम् ।‘चैत्रे मासि नवम्यान्तु जातो रामः स्वयंहरिः ।पुनर्व्वस्वृक्षसंयुक्ता सा तिथिः सर्व्वकामदा
पुनर्व्वस्वृक्षसंयोगः स्वल्पोऽपि यदि लभ्यते ।चैत्रशुक्लनवम्यान्तु सा तिथिः सर्व्वकामदा
श्रीरामनवमी प्रोक्ता कोटिसूर्य्यग्रहाधिका ।तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ।यत्किञ्चित् क्रियते कर्म्म तद्भवक्षयकारकम्
उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम् ।तस्मिन् दिने तु कर्त्तव्यं ब्रह्मप्राप्तिमभीप्सुभिः
’चैत्रपदं चान्द्रपरम् ।‘मेषं पूषणि संप्राप्ते लग्ने कर्कटाह्वये ।आविरासीत् सकलया कौशल्यायां परःपुमान्
’अत्र मेषस्थसूर्य्ये चान्द्रचैत्रस्यैव सम्भवात् तिथि-कृत्यत्वाच्च तथा ।‘तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः ।जपेदेकान्त आसीनो यावत् स्याद्दशमीदिनम्
तेनैव स्यात् पुरश्चर्य्या दशम्यां भोजयेद्द्विजान् ।भक्ष्यभोज्यैर्ब्बहुविधैर्भक्त्या दद्याच्च दक्षिणाम् ।कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति
’तथा ।‘चैत्रशुक्ला तु नवमी पुनर्व्वसुयुता यदि ।सैव मध्याह्नयोगेन महापुण्यतमा भवेत्
नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः ।उपोषणं नवम्यान्तु दशम्यामेव पारणम्
’एतद्वचनद्बयं कालमाघवीयेऽपि किन्तु महा-पुण्या इत्यत्र महाफलेति पाठः शुद्धेति-श्रवणात् सर्व्वत्र शुद्धायामृक्षादरो विद्धाया-मिति अतएवाष्टमीविद्धा नवमी सनक्षत्रापिनोपोष्या इति माधवाचार्य्यः
सैव तादृश्येवनतु विद्धा यदा तु परदिने एकादश्यां दशमीपारणयोग्या तदा दशमीयुक्ता नवम्युपोष्या ।वैष्णवैर्विष्णुपरायणैरितिश्रवणात् अवैष्णवैस्तुअष्टमीविद्धैव ग्राह्या यदा तु पूर्व्वदिने अष्टमी-विद्धा नवमी परत्र दशमीयुता नवमी एका-दशीदिने पारणयोग्या दशमी तदानक्षत्रयोगायोगेऽप्यष्टमीविद्धैव ग्राह्या परदिनेदशम्यामेव पारणमिति नियमात् तथा चरामार्च्चनचन्द्रिकायाम् ।‘दशम्यादिषु वृद्धिश्चेत् त्याज्या विद्धैव वैष्णवैः ।तदन्येषान्तु सर्व्वेषां व्रतं तत्रैव निश्चितम्
दशम्यामेवशब्देन दशमीं नैव लङ्घयेत् ।निश्चित्यैवं विचारेण नवमीव्रतमाचरेत्
’इति कारिकाभ्यामगस्त्यसंहिताव्याख्यानम्
वस्तुतस्तु दशमीपारणसत्त्वे सर्व्वैरेवाष्टमीबिद्धानोपोष्या विष्णुपरायणैरिति तु विष्णुपरायण-त्वेन भवितव्यमित्युपदेशपरं तु कर्त्तृविशे-षणम् अगस्त्येनावैष्णवस्य विद्धोपवासानुप-देशात् कर्त्तृभेदे विधिद्बयकल्पनापत्तेश्च अत-एव माधवाचार्य्येण सामान्यत एव विद्धानिषिद्धा अगस्त्यसंहितायामस्य नित्यत्वमाह ।‘प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः ।उपोषणं कुरुते कुम्भीपाकेषु पच्यते
यस्तु रामनवम्यान्तु भुङ्क्ते मोहाद्विमूढधीः ।कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः
’अत्र मर्त्य इत्युपादानात् नरमात्रस्याधिकारः ।एवञ्च ।‘कुर्य्याद्रामनवम्यां उपोषणमतन्द्रितः ।मातुर्गर्भमवाप्नोति नैव रामो भवेत् खयम्
तस्मात् सर्व्वात्मना सर्व्वे कृत्वैवं नवमीव्रतम् ।मुच्यन्ते पातकैः सर्व्वैर्यान्ति ब्रह्म सनातनम्
’इति फलकीर्त्तनं प्रागुक्तसंयोगपृथक्त्वन्यायात्सिद्धम् अगस्त्यसंहितायाम् ।‘शालग्रामशिलायाञ्च तुलसीदलकल्पिता ।पूजा श्रीरामचन्द्रस्य कोटिकोटिगुणाधिका
’तत्रानुष्ठानं अगस्त्यसंहितातः संक्षिप्य लिख्यते ।कृतप्रातःस्नानादिः ।‘उपोष्य नवमीन्त्वद्य यामेष्वष्टसु राघव ।तेन प्रीतो भव त्वंभो संसारात्त्राहि मां हरे
’इति निवेद्य
‘कोमलाङ्गं विशालाक्षमिन्द्रनीलसमप्रभम् ।दक्षिणांशे दशरथं पुत्त्रावेक्षणतत्परम्
पृष्ठतो लक्षणं देवं सच्छत्रं कनकप्रभम् ।पार्श्वै भरतशत्रुघ्नौ तालवृन्तकरावुभौ ।अग्रे व्यग्रं हनूमन्तं रामानुग्रहकाङ्क्षिणम्
’एवं ध्यात्वा श्रीरामं पूजयेत् स्नानमन्तस्तु ।‘इन्द्रोऽग्निश्च यमश्चैव नैरृतो वरुणोऽनिलः ।कुवेर ईशो ब्रह्माहिर्दिक्पालाः स्नापयन्तु ते
’अहिरनन्तः कौशल्यां पूजयेत् मन्त्रस्तु ।‘रामस्य जननी चासि राममयमिदं जगत् ।अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते
’तथा ।‘नमो दशरथायेति पूजयेत् पितरं ततः ।ततोऽनुजञाप्य देवेशं परिवारान् समर्च्चयेत् ।पूर्व्वषट्कोणकोणेषु हृदयादीनि क्रमात्
’हृदयादीनि यथा रां हृदयाय नमः रींशिरसे स्वाहा रूं शिखायै वषट् रैं कव-चाय हुम् रौं नेत्राभ्यां वौषट् रः अस्त्रायफट् तथा, --‘हनूमन्तं ससुग्रीवं भरतं सविभीषणम् ।लक्ष्मणाङ्गदशत्रुघ्नं जाम्बवन्तं दलादिषु
धूम्रं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्द्धनम् ।अकोपं धूम्रपालाख्यं सुमन्त्रं दलमध्यतः ।दलाग्रे लोकपालांश्च तदस्त्राणि तदग्रतः
’लोकपाला इन्द्रादयो दश तदस्त्राणि वज्र-शक्तिदण्डखड्गपाशाङ्कुशगदाशूलपद्मचक्राणि ।मध्याह्ने जन्म भावयेत् ।‘उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यांतिथौलग्ने कर्कटके पुनर्व्वसुदिन मेर्ष गते पूषणि ।निर्दग्धुं निखिलाः पलाशसमिधो मध्याद-योध्यारणे-राविर्भूतमभूदपूर्व्वविभवं यत्किञ्चिदेकं महः
’पलाशा राक्षसाः ।‘मत्वैवं वादयेद्वाद्यानर्घ्यं दद्याज्जगत्पतेः ।फलपुष्पाम्बुसंपूर्णं गृहीत्वा शङ्खमुत्तमम् ।अशोकरत्नकुसुमैर्युक्तञ्च तुलसीदलैः
’मन्त्रस्तु ।‘दशाननवधार्थाय धर्म्मसंस्थापनाय ।दानवानां विनाशाय दैत्यानां निधनाय
परित्राणाय साधूनां रामो जातः स्वयं हरिः ।गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितो मम
पुष्पाञ्जलिं पुनर्दत्त्वा यामे यामेष्वतन्द्रितः ।पूजयेद्विधिवद्भक्त्या दिवारात्रं नयेद्बुधः
’तदयं संक्षेपः शुद्धायां नक्षत्रयुक्तायांविवादाभावः विद्धायान्तु एकादशीदिनेदशमी पारणयोग्या चेत् तदा नक्षत्रयोगा-योगेऽपि अष्टमीविद्धायाम् पारणयोग्या चेत्तदा अष्टमीविद्धां त्यक्त्वा परेऽहनि उपवासः ।”इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
रामनवमी स्त्री रामस्य जन्माधारो नवमी चैत्तशुक्ल-नवम्याम् “चैत्रे मासि नवम्यान्तु जातो रामः खयंहरिः” अगस्त्यसंहिता “प्राप्ते श्रीरामनवमीदिनेमर्त्यो विमूढवीः उपोषणं कुरुते कुम्भीपाकेनपच्यते” ति० त०