| YouTube Channel

रामणीयकं (rAmaNIyakaM)

 
शब्दकल्पद्रुमः
Sanskrit
रामणीयकं, त्रि, रमणीयम् इत्यमरटीका
(यथा, महाभारते २६ ।“रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः
”रामणीयकं रमणीयं द्बीपमिति शेषः
क्ली,
रमणीयस्य भावः कर्म्म वा रमणीय +“योपधाद्गुरूपोत्तमाद्बुञ् ।” १३२ ।इति वुञ् रमणीयत्वम्
यथा, किराते ।१ ३९ ।“पुरोपनीतं नृप ! रामणीयकंद्विजातिशेषेण यदेतदन्धसा ।तदद्य ते वन्यफलाशिनः परंपरैति कार्श्यं यशसा समं वपुः
”)