| YouTube Channel

राधो (rAdho)

 
Monier Williams Cologne
English
राधो in comp. for राधस्.
धातुप्रदीपः
Sanskrit
राधोँ राधो अकर्मकाद् वृद्धौ
एव- वृद्धिग्रहणमकर्मकक्रियोपलक्षणम् अत एव सकर्मकक्रियाव्यावृत्तयेऽकर्मादित्युक्तम् एवकारेण सकर्मकक्रियाव्यावृत्तिर्द्योत्यते राध्यति तरुणता राध्यत्योदनः स्वयमेव (17) देवतत्ताय राध्यति ''यन्मह्यमपराध्यति'' (18) राद्धा रात्स्यति अरात्सीत् सकर्मकत्वे वृद्धेरन्यत्र राध्नोति 74
क्षीरतरङ्गिणी
Sanskrit
राधोँ राधो अकर्मकाद् वृद्धौ
एव- इतः स्निहान्ता (92) एकविंशतिरनिटः परस्मैपदिनश्च राध्नोतेः (519) अकर्मकक्रियाद् वृद्ध्यर्थे श्यन् राध्यति सकर्मकाद् वृद्धरेन्यत्र श्नुः-राध्नोत्योदनम्, पचतीत्यर्थः चुरादौ राधयति 68
धातुवृत्तिः
Sanskrit
राधोँ राधो (अर्थः) अकर्मकाद्वृद्धावेव
एवकारो भिन्नक्रमः अस्मादकर्मकादेव श्यन् वृद्धिग्रहणं तु उदाहरणदर्शनार्थम्, यथा वृद्धावकर्मक इति एवकारश्च एवमर्थात्सिद्धायाः सकर्मकक्रियाव्यावृत्तेरनुवादमात्रम् काश्यपस्तु यथाश्रुतमेवान्वयं वदन् "अथावधारणार्थेनैवकारेण अन्यत्रार्थनिर्देशेष्वनियमो ज्ञाप्यते' इति तत् "कर्मवत्'' सूत्रभाष्ये राध्यत्योदनस्स्वयमेवेत्यवृद्धौ श्यनो दर्शनादुपेक्ष्यम् अत्र हि सिद्ध्यतीत्यर्थः तथा "राधीक्ष्ण्योः'' इत्यत्र वृत्तौ देवदत्ताय राध्यतीति दैवपर्यालोचने श्यनोऽदर्शनाच्च, अत्र दैवस्यजीवत्यादौ प्राणादिवद्धात्वर्थेऽन्तर्भावादकर्मकत्वम् एवं हि माघप्रयोगश्चोपपद्यते
नू दूये सात्वतीसूनुर्यन्मह्ममपराध्यति क्रियासमभिहारेण विराध्यन्तं क्षमेत कः
इत्यत्र हि द्रोहोऽर्थः ( रराध, रराधतुः, ) "राधे र्हिसायाम्'' इत्येत्वाभ्यासलोपौ दैवादिकस्य, यतो र्हिसार्थस्य सकर्मत्वाद् दैवादिकत्वमेव भवति ( राद्धा रात्स्यति राध्यतु अराध्यत्, राध्येत्, राध्यात्, ) लिङौ ( अरात्सीत् आराद्धम्, अरात्सुः रिरात्सति राराध्यते राधयति अरीरधत् ) अयं स्वादिश्चुरादिश्च 72