| YouTube Channel

रात्रिः (rAtriH)

 
Apte
English
रात्रिः [rātriḥ] त्री [trī], त्री
f.
[राति सुखं भयं वा रा-त्रिप् वा ङीप्
Uṇ.*
4.69]
Night
रात्रिर्गता मतिमतां वर मुञ्च शशथ्याम्
R.*
5.66
दिवा काकरवाद् भीता रात्रौ तरति नर्मदाम्.
The darkness of night.
Turmeric
Mb.
* 13.136.25.
One of the four forms or bodies of Brahmā.
Day and night
अहःशब्दो$पि अहोरात्रवचनः रात्रिशब्दो$पि ŚB. on MS.* 8.1.16
यां रात्रिं जायते जीवो यां रात्रिं विनश्यति
Mb.
* 13.9.4.
Comp.
अटः a goblin, demon, ghost.
a thief. -अन्धः
a.
night-blind. -आगमः, -उपायः the approach of night.
करः the moon.
camphor. -चरः (also -रात्रिंचर) (-री
f.
)
'a night rover', robber, thief.
a watchman, patrol, guard.
a demon, ghost, evil spirit
(तं) यान्तं वने रात्रिचरी डुढौके
Bk.*
2.23.
चर्या night-roving.
a nightly act or ceremony. -जम् a star, constellation. -जलम् dew.
जागरः night-watching, wakefulness or sitting up at night
आरुरोह कुमुदा- करोपमां रात्रिजागरपरो दिवाशयः
R.*
19.34.
a dog. ˚दः a gnat. -तरा the dead of night. -तिथिः
f.
a lunar night. -द्विष् the sun. -नाथः the moon. -नाशनः the sun. -पर्युषित
a.
stale. -पुष्पम् a lotus-flower opening at night. -बलः a demon. -भुजङ्गः the moon.
मणिः the moon.
camphor. -योगः night-fall.-रक्षः, -रक्षकः a watchman, guard. -रागः darkness, obscurity. -वासस्
n.
night-dress.
darkness.-विगमः 'end of night', break of day, dawn, daylight. -विश्लेषगामिन्
m.
the ruddy goose. -वेदः, -वेदिन्
m.
a cock. -सत्रन्यायः the rule according to which an act, for which no fruit is stated directly in the injunctive text, should be held as yielding the result spoken of in the अर्थवाद text connected with it. This rule is discussed and established by Jaimini and Śabara in MS.* 4.3.17-19. -हासः the white lotus.
हिण्डकः a guard of the women's apartments.
a night-stalker.
Apte 1890
English
रात्रिः
त्री f. [रा-त्रिप् वा ङीप्] 1 Night
रात्रिर्गता मतिमतां वर मुंच शय्यां R. 5. 66
दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम्.
2 The darkness of night.
3 Turmeric.
4 One of the four forms or bodies of Brahmā.
Comp.
अटः {1} a goblin, demon, ghost. {2} a thief
अंध a. nightblind.
करः {1} the moon. {2} camphor.
चरः (also रात्रिंचर) (री f.) {1} ‘a night-rover’, robber. thief. {2} a watchman, patrol, guard. {3} a demon, ghost, evil spirit
(तं) यांतं वने रात्रिचरी डुढौके Bk. 2. 23.
चर्या {1} night-roving. {2} a nightly act or ceremony.
जं a star, constellation.
जलं dew.
जागरः {1} night-watching, wakefulness or sitting up at night
R. 19. 34. {2} a dog. °दुः a gnat.
तरा the dead of night.
तिथिः f. a lunar night.
नाशनः the sun.
पुष्पं a lotusflower opening at night.
बलः a demon.
मणिः {1} the moon. {2} camphor.
योगः night-fall.
रक्षः,
रक्षकः a watchman, guard.
रागः darkness, obscurity.
वासस् n. {1} night-dress. {2} darkness.
विरामः ‘end of night’, break of day, dawn, day-light.
विश्लेषगामिन् m. the ruddy goose.
वेदः,
वेदिन् m. a cock.
हासः the white lotus.
हिंडकः {1} a guard of the women's apartments. {2} a night-stalker.
Hindi
Hindi
रात
Apte Hindi
Hindi
रात्रिः
स्त्री*
- राति सुखं भयं वा रा + त्रिप्
रात
रात्रिः
स्त्री*
- रा+त्रिप्
रात
रात्रिः
स्त्री*
- रा+त्रिप्
रात का अंधकार
रात्रिः
स्त्री*
- रा+त्रिप्
हल्दी
रात्रिः
स्त्री*
- रा+त्रिप्
ब्रह्मा के चार रुपों में से एक
रात्रिः
स्त्री*
- रा+त्रिप्
दिन रात
Wordnet
Sanskrit
Synonyms:
रात्रिः, निशा, रजनी, क्षणदा, क्षपा, शर्वरी, निश्, निद्, त्रियामा, यानिनी, यामवती, नक्तम्, निशीथिनी, तमस्विनी, विभावरी, तमी, तमा, तमिः, ज्योतष्मती, निरातपा, निशीथ्या, निशीथः, शमनी, वासुरा, वाशुरा, श्यामा, शताक्षी, शत्वरी, शर्या, यामिः, यामी, यामिका, यामीरा, याम्या, दोषा, घोरा, वासतेयी, तुङ्गी, कलापिनी, वायुरोषा, निषद्वरी, शय्या, शार्वरी, चक्रभेदिनी, वसतिः, काली, तारकिणी, भूषा, तारा, निट्
noun
दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।
"यदा दिक्षु अष्टासु मेरोर् भूगोलकोद्भवा। छाया भवेत् तदा रात्रिः स्याच्च तद्विरहाद् दिनम्।"
वैजयन्तीकोषः
Sanskrit
Word: रात्रिः
Root: रात्रि
Gender: स्त्री
Number: all
अर्थः रजनी
Meaning(s):
Night
Shloka(s):
2|1|56|2 रजनी यामिनी याम्या त्रियामा क्षणदा क्षपा॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|57|1 तमी तमस्विनी रात्रिर्निशा घारिर्विभावरी। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|57|2 तमिस्रा क्षणिनी क्षाणी शर्वरी वासतेय्युषा॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|58|1 निशीथिनी निशीथ्या ज्यौत्स्नी ज्यीतिष्मती निशा। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|56|2 रजनी (रजनी) (स्त्री) Night रजनी
2|1|56|2 यामिनी (यामिनी) (स्त्री) Night रजनी
2|1|56|2 याम्या (याम्या) (स्त्री) Night रजनी
2|1|56|2 क्षणदा (क्षणदा) (स्त्री) Night रजनी
2|1|56|2 क्षपा (क्षपा) (स्त्री) Night रजनी
2|1|56|2 त्रियामा (त्रियामा) (स्त्री) Night रजनी
2|1|57|1 तमी (तमी) (स्त्री) Night रजनी
2|1|57|1 तमस्विनी (तमस्विनी) (स्त्री) Night रजनी
2|1|57|1 रात्रिः (रात्रि) (स्त्री) Night रजनी
2|1|57|1 निशा (निशा) (स्त्री) Night रजनी
2|1|57|1 घारिः (घारि) (स्त्री) Night रजनी
2|1|57|1 विभावरी (विभावरी) (स्त्री) Night रजनी
2|1|57|2 तमिस्रा (तमिस्रा) (स्त्री) Night रजनी
2|1|57|2 क्षाणिनी (क्षाणिनी) (स्त्री) Night रजनी
2|1|57|2 क्षणिनी (क्षणिनी) (स्त्री) Night रजनी
2|1|57|2 क्षाणी (क्षाणी) (स्त्री) Night रजनी
2|1|57|2 शर्वरी (शर्वरी) (स्त्री) Night रजनी
2|1|57|2 वासतेयी (वासतेयी) (स्त्री) Night रजनी
2|1|57|2 उषा (उषा) (स्त्री) Night रजनी
2|1|58|1 निशिथिनी (निशिथिनी) (स्त्री) Night रजनी
2|1|58|1 निशिथ्या (निशिथ्या) (स्त्री) Night रजनी
Related word(s):
अवयव_अवयवीसंबन्धः साम्बाधिकः
जातिः कालः
परा_अपरासंबन्धः सात्त्विकी
Tamil
Tamil
ராத்ரி: : ராத்ரீ = இரவு.
अमरकोशः
Sanskrit
Word: रात्रिः
Root: रात्रि
Gender: स्त्री
Number: all
Meaning(s):
night
woman
evening
twilight
spotted steeds of the maruts
turmeric [Curcuma Longa - Bot.]
Shloka(s):
1|4|3|2 प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥ (कालवर्गः)
1|4|4|1 निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। (कालवर्गः)
1|4|4|2 विभावरीतमस्विन्यौ रजनी यामिनी तमी॥ (कालवर्गः)
3|3|67|1 विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः। (नानार्थवर्गः)
3|3|143|2 त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥ (नानार्थवर्गः)
3|3|226|5 दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। (नानार्थवर्गः)
3|4|6|1 दिवाह्नीत्यथ दोषा नक्तं रजनावपि। (अव्ययवर्गः)
Synonym(s):
1|4|3|2 शर्वरी (शर्वरी) (स्त्री) night, woman, evening, twilight, spotted steeds of the maruts, turmeric [Curcuma Longa - Bot.]
1|4|4|1 निशा (निशा) (स्त्री)
1|4|4|1 निशीथिनी (निशीथिनी) (स्त्री)
1|4|4|1 रात्रिः (रात्रि) (स्त्री) night, turmeric, one of the 4 bodies of brahmA, darkness or stillness of night
1|4|4|1 त्रियामा (त्रियामा) (स्त्री)
1|4|4|1 क्षणदा (क्षणदा) (स्त्री)
1|4|4|1 क्षपा (क्षपा) (स्त्री) night, turmeric, measure of time equivalent to a whole day of twenty-four hours
1|4|4|2 विभावरी (विभावरी) (स्त्री) night, bright, turmeric, procuress, brilliant, kind of metre, kind of ginger, deceitful woman, loquacious woman, shreds of a garment torn in a scuffle
1|4|4|2 तमस्विनी (तमस्विनी) (स्त्री)
1|4|4|2 रजनी (रजनी) (स्त्री) night, indigo plant, grape or lac, coloured or dark one, turmeric [Curcuma Longa - Bot.]
1|4|4|2 यामिनी (यामिनी) (स्त्री)
1|4|4|2 तमी (तमी) (स्त्री)
3|3|67|1 वसतिः (वसति) (स्त्री) nest, home, night, housing, staying, abiding, sojourn, dwelling, residence, habitation, dwelling-place, jaina monastery, abode or seat of, place of residence, fixing one's residence
3|3|143|2 श्यामा (श्यामा) (स्त्री) night, earth, kind of bird, name or form of durgA, woman with peculiar marks or characteristics
3|3|226|5 दोषा (दोषा) (अव्य)
3|4|6|1 दोषा (दोषा) (अव्य)
3|4|6|1 नक्तन् (नक्तम्) (अव्य)
Related word(s):
अवयव_अवयवीसंबन्धः रात्रिमध्यः
परा_अपरासंबन्धः दिनद्वयमध्यगता_रात्रिः
जातिः कालः
शब्दकल्पद्रुमः
Sanskrit
रात्रिः,
स्त्री,
राति ददाति कर्म्मभ्योऽवसरं निद्रादि-सुखं वा रादाने + “राशदिभ्यां त्रिप् ।”उणा० ६७ इति त्रिप् ।) हरिद्रा ।(यथा, सुश्रुते चिकित्स्यितस्थाने अध्याये ।“लाक्षा कुष्ठं सर्षपाः श्रीनिकेतंरात्रिर्व्योषं चक्रमर्द्दस्य बीजम् ।कृत्वेकस्थं तत्र पिष्टः प्रलेपोदद्रूयुक्तो मूलकाद्बीजयुक्तः
”)एतद्द्वीपावच्छिन्न-सूर्य्यकिरणानवच्छिन्नकालः ।राति इति भाषा तत्पर्य्यायः शर्व्वरी २निशा निशीथिनी त्रियामा क्षणदा ६क्षपा विभावरी तमस्विनी रजनी १०यामिनी ११ तमी १२ इत्यमरः
श्यामा१३ घोरा १४ याम्या १५ तुङ्गी १६ नक्तम् १७दोषा १८ वासतेयी १९ तमा २० क्षमा २१शताक्षी २२ क्षणिनी १३ निशिथ्या २४चक्रभेदिनी २५ शार्व्वरी २६ शय्या २७वासुरा २८ निषद्वरी २९ इति शब्दरत्ना-वली
वसतिः ३० वायुरोषा ३१ निशीथः ३२निट् ३३ इति जटाधरः
यामवती ३४तारा ३५ भूषा ३६ ज्योतिष्मती ३७ तार-किणी ३८ काली ३९ कलापिनी ४० इतिराजनिर्घण्टः
*
तस्याः कारणं यथा, --“यदा दिक्षु अष्टासु मेरोर्भूगोलकोद्भवा ।छाया भवेत्तदा रात्रिः स्याच्च तद्बिरहाद्दिनम्
”इति वह्निपुराशे गणभेदो नामाध्यायः
*
पितृदेवानां रात्रिर्यथा, --“मासेन नराणाञ्च पितॄणां तदहर्निशम् ।कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्त्तिता
वत्सरेण नराणाञ्च देवानाञ्च दिवानिशम् ।उत्तरायणे दिनं प्रोक्तं रात्रिश्च दक्षिणायने
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः
अथ रात्रिकृत्यम् स्मृतिः ।“पूर्व्वाह्णविहितं कर्म्म कृतं तत् प्रमादतः ।रात्रेस्तु प्रहरं यावत् तत् कर्त्तव्यं यथोक्तवत्
दिवोदितानि कर्म्माणि प्रमादात् पतितानिच ।शर्व्वर्य्याः प्रथमे यामे तानि कुर्य्यादतन्द्रितः
”इति रत्नाकरः
याज्ञवल्क्याङ्गिरसौ ।“उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य ।भृत्यैः परिवृतो भुक्त्वा नातितृप्तोऽथ संविशेत्
अग्निहोमोपासने साग्निपरे उपास्य चेतिचकारो वैश्वदेवादिकं समुच्चिनोति संविशेत्स्वपेत् तथा विष्णुपुराणम् ।“पुनः पाकमुपादाय सायमप्यवनीपते ।वैश्वदेवनिमित्तं वै पत्न्या सार्द्धं वलिं हरेत्
अतिथिञ्चागतं तत्र स्वशक्त्या पूजयेद्बुधः ।दिवातिथौ तु विमुखे गते यत् पातकं भवेत् ।तदेवाष्टगुणं पुंसां सूर्य्योढे विमुखे गते
”सूर्य्योढे अस्तं गते सूर्य्ये तथा, --“कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही ।गच्छेदस्फुटितां शय्यामति दारुमयीं नृप
”भोजने सायमिति सार्द्धप्रहरपरं प्रागुक्तात्
अथ रात्रौ शयनविधिः सति सूर्य्ये शय्या नपातनीया सा सूर्य्योदयात् पूर्व्वमुत्तोलनीया ।तथा स्मृतिः ।“भास्करादृष्टशय्यानि नित्याग्निसलिलानि ।सूर्य्यावलोकिदीपानि लक्ष्म्या वेश्मानि भाजनम्
”व्यासः ।“शुचौ देशे विविक्ते गोमयेनोपलेपिते ।प्रागुदक्प्लवने चैव संविशेत्तु सदा बुधः
मङ्गल्यं पूर्णकुम्भञ्च शिरःस्थाने विधाय ।वैदिकैर्गारुडैर्मन्त्रै रक्षां कृत्वा स्वपेत्ततः
”गर्गः ।“स्तगृहे प्राक्शिराः शेते ह्यायुषे दक्षिणाशिराः ।प्रत्यक्शिराः प्रवासे तु कदाचिदुदक्शिराः
”मार्कण्डेयपुराणे ।“प्राक्शिरः शयने विद्यात् धनमायुश्च दक्षिणे ।पश्चिमे प्रबलां चिन्तां हानिं मृत्युं तथोत्तरे
”तथा ।“नमस्कृत्याव्ययं विष्णुं समाधिस्थं स्वपेन्निशि
”मार्कण्डेयः ।“शून्यालये श्मशाने एकवृक्षे चतुष्पथे ।महादेवगृहे चापि शर्करालोष्ट्रपांशुषु
घान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि ।न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम्
नार्द्रवासा नग्नश्च नोत्तरापरमस्तकः ।नाकाशे सर्व्वशून्ये चैत्यद्रुमे तथा
”स्वपेदिति शेषः
*
अथ रात्रौ दारोप-गमनविधिः याज्ञवल्क्यः ।“षोडशर्त्तुर्निशाः स्त्रीणां तासु युग्मासु संविशेत् ।ब्रह्मचार्य्येव पर्ब्बण्याद्याश्चतस्रस्तु वर्ज्जयेत्
”स्त्रीणां षोडशनिशा ऋतुर्गर्भाधानयोग्यकालः ।तत्रोक्तविधिना गच्छेत् तत्र युग्मासु रात्रि-ष्वपि पर्व्वणि ब्रह्मचार्य्येव भवति तत्र व्रतादौगच्छतो ब्रह्मचर्य्यस्खलनदोषो नास्ति इतिमिताक्षरा
विष्णुपुराणम् ।“षष्ठ्यष्टमीममावास्यामुभे पक्षे चतुर्द्दशीम् ।मैथुनं नोपसेवेत द्बादशीञ्च मम प्रियाम्
”हारीतः “चतुर्थेऽहनि स्नातायां युग्मासु चगभाधानवदुपेत ब्रह्मगर्भं सन्दधातीति ।” अत्रचतुर्थ्यां रात्रौ यद्गर्भाधानमुक्तं तद्रजोनिवृत्तौबोध्यम् रजस्युपरते साध्वी स्नानेन स्त्री रज-स्वला इति मनुवचनैकवाक्यत्वात् साध्वीगर्भाधानादिविहितकर्म्मयोग्येत्यर्थः आद्याश्च-तस्रस्तु वर्ज्जयेत् इति तु रजोनिवृत्तीतरपरम् ।अनृतावपि कामुकीगमनमाह विष्णुपुराणम् ।“मृतो नरकमभ्येति हीयेदत्रापि चायुषः ।परदाररतिः पुंसामुभयत्रापि भीतिदा
इति मत्वा स्वदारेषु ऋतुमत्सु वुधो व्रजेत् ।यथोक्तदोषहीनेषु सकामेष्वनृतावपि
”पैठीनसिः “त्वाष्ट्रं विश्वरूपं जघान वज्रेणेन्द्रस्तंप्रति देवा ब्रह्महन्निति अवदन् स्त्रिय उपा-गृह्णीत वरं दास्यामि ततोऽस्यास्तृतीयं ब्रह्म-हत्यायाः प्रपद्यन्त स्त्रियः एकं भूमिर्व्वनस्पतय-श्चैकम् आसां मघवा तुष्टो वरं प्रायच्छत भूमेःस्थिरत्वं वृक्षाणां छिन्नप्ररोहणं स्त्रीणां सर्व्व-कालेषु सम्भवः ।” सम्भवो मेलनं सम्भोग इतियावत् सर्व्वकाले ऋतावनृतौ तु प्रति-षिद्धपर्व्वादौ तथाच गोतमः ऋतावुपेयात्सर्व्वत्र वा प्रतिषिद्धवर्ज्जमिति
दुष्टकालमाहज्योतिषे ।“ज्येष्ठा मूला मघाश्लेषा रेवती कृत्तिका-श्विनी ।उत्तरात्रितयं त्यक्त्वा पर्व्ववर्ज्जं व्रजेदृतौ
”एवञ्च ।“ऋतौ नोपैति यो भार्य्यामनृतौ यश्च गच्छति ।तुल्यमाहुस्तयोर्दोषमयोनौ यश्च सिञ्चति
”बौधायनीयमनृतौ गमनदोषाभिधानमकामा-विषयम् विष्णुः पर्व्वानारोग्यवर्ज्जमृताव-गच्छन् पत्नीं त्रिरात्रमुपवसेदिति वृद्धशाता-तपः ।“स्त्रीणां संप्रेक्षणात् स्पर्शात् ताभिः संकथनादपि ।ब्रह्मचर्य्यं विपद्येत दारेष्वृतुसङ्गमात्
”संप्रेक्षणात् संकथनादित्यत्र सरागत्वं संशब्दार्थः ।श्राद्धानन्तरन्तु निषेधमाहतुः शङ्खलिखितौ ।ऋतुस्नातां तदहोरात्रं परिहरेत् नार्त्तवेदिवामैथुनं व्रजेत् क्लीवाल्पवीर्य्याश्च दिवाप्रसूयन्तेऽल्पायुश्च तस्मादेतद्बिवर्ज्जयेत् प्रजा-कामश्च पितॄणां नोपहरेत तन्तुं विच्छिन्द्यात्प्रयतेताच्छेदाय येनाप्रतिष्ठो भवति तस्मात्प्रतिष्ठाकामः प्रजया प्रतिष्ठेतेति नोशब्दोनिषेधे तन्तुं सन्तानं अच्छेदाय अविच्छेदायसन्ताबस्य येन यस्मात् अप्रतिष्ठः प्रजा-नुत्पत्त्या अप्राप्तप्रतिष्ठः सन् पतति तस्मात्तदुत्पत्त्यर्थं यतितव्यमिति कल्पतरुः
एवञ्चश्राद्धदिने यदभिगमनं प्रागुक्तयाज्ञवल्क्यवच-नात् उक्तं मिताक्षरायां तद्धेयम् वशिष्ठः ।“शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति ।यस्यान्नं तस्य ते पुत्त्रा अस्वर्ग्याः शूद्रवत्द्बिजाः
”पराशरः ।“ऋतुस्नाताञ्च यो भार्य्यां सन्निधौ नोपगच्छति ।स गच्छेन्नरकं घोरं ब्रह्महेति तथोच्यते
”सन्निधावित्यभिधानात् असन्निहितस्य गमना-भावे दोषः पुत्त्रोत्पत्तिपर्य्यन्तमृत्वभिगमन-नियममाह कूर्म्मपुराणम् ।“ऋतुकालाभिगामी स्यात् यावत् पुत्त्रो नजायते ।ऋणापकर्षणार्थ हि पुत्त्रस्योत्पादनं प्रति
”यतितव्यमिति शेषः आपस्तम्बः ।“ऋतौ तु गर्भशङ्कित्वात् स्नानं मैथुनिनःस्मृतम् ।अनृतौ तु सदा कार्य्यं शौचं मूत्रपुरीषवदिति
द्वावेतावशुची स्यातां दम्पती शयनं गतौ ।शयनादुत्थिता नारी शुचिः स्यादशुचिःपुमान्
मैथुनशुद्धः प्राक् मलमूत्रोत्सर्गं कुर्य्यात् ।तैलाभ्यक्ते तथा वान्ते श्मश्रुकर्म्मणि मैथुने ।मूत्रोच्चारं यदा कुर्य्यादहोरात्रेण शुद्ध्यति
”इति वचनात् ।पुत्त्रानुत्पत्तौ पारस्करः सा यदि गर्भं नाद-धीत निदिग्धिकायाः श्वेतपुष्पाया उपोष्यपुष्यनक्षत्रे मूलमुत्थाप्य चतुर्थेऽहनि स्नातायांनिशायामुदकेन पिष्ट्वा दक्षिणस्यां नासिकाया-मासिञ्चतीति इयमोषधीस्त्रायमाणा सह-माना सरस्वती अस्या अहं वृहत्याः पुत्त्रःपितुरिव नाम जनयत्यभित इति सा परि-णीता ऋतुकालेऽपि कृताभिगमना यदि गर्भं नदधाति तदा उपोष्य पुष्ये नक्षत्रे श्वेतकण्ट-कारिकामूलमुत्थाप्य चतुर्थेऽहनि ऋतुस्नातायांसत्यां रात्रावुदकेन पिष्ट्वा दक्षिणनासापुटेपतिः इयमोषधीरिति मन्त्रेण नस्यं ददातिदक्षिणहस्तानामिकाङ्गुष्ठाभ्वां गृहीत्वा प्राक्-शिरः संविष्टाया इति गोभिलस्मरणात् ।आयुर्वेदीये ।“पिप्पलीं शृङ्गवेरञ्च मरीचं नागकेशरम् ।आज्येन सह भुञ्जीत अपि बन्ध्या प्रसूयते
”याज्ञवल्क्यः ।“एवं गच्छन् स्त्रियं क्षामां मषां मूलाञ्च वर्ज्ज-येत् ।शस्त इन्दौ सकृत् पुत्त्रं लक्षण्यं जनयेत्पुमान्
”क्षामामाहारलाघवादिना सकृदेकवारम् ।अत्र सम्यगाधानहेतुतया उत्तानकरचरणा-मेव कुर्व्वीत तिर्य्यगाहितकरचरणां स्त्रियञ्चऋत्वभिगमनानन्तरं दक्षिणपार्श्वे स्वापयेत् ।पुरुषायिते तु गर्भानुत्पत्तिरिति विशेषः दक्षः ।“प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् ।यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते
”इत्याह्निकतत्त्वम्
*
अथ रात्रिजागरणदोषगुणौ ।“रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ।अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्
कफमेदोविषार्त्तानां रात्रौ जागरणं हितम्
दिवा वा यदि वा रात्रौ निद्रा स्वात्मीकृतातु यैः ।न तेषां स्वपतां दोषो जाग्रतां वा विधीयते
”इति राजवल्लभः
*
रात्रौ कुलपूजा यथा “यत्तु ।रात्रावेव महापूजा कर्त्तव्या वीरवन्दिते ।न दिने सर्व्वथा कार्य्या शासनान्मम सुव्रते
तत् पुनः कुलपूजाविषयम् ।अर्द्धरात्रात् परं यच्च मुहूर्त्तद्वयमेव ।सा महारात्रिरुद्दिष्टा तद्दत्तमक्षयन्तु वै
”इति तन्त्रसारः
*
अथ रात्रौ विहितनिषिद्धे छन्दोगपरिशिष्टम् ।“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनांनित्यम् ।अहनि तथा तमस्विन्यां सार्द्धप्रहर-यामान्त्रः
”जावालः ।“अहःसु तिथयः पुण्याः कर्म्मानुष्ठानतो दिवा ।नक्तादिव्रतयोगे नु रात्रियोगो विशिष्यते
”देवलः ।“राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।स्नावदानादिकं कुर्य्युर्निशि कान्यव्रतेषु
”ब्रह्माण्डपुराणम् ।“न रात्रौ पारणं कुर्य्यात् ऋते वै रोहिणीव्रतात् ।तत्र निश्यपि वै कुर्य्याद्वर्जयित्वा महानिशाम्
”इति तिथ्यादितत्त्वम्
*
“एकभक्तेन नक्तेन तथैवायाचितेन ।उपवासेन दानेन नैवाद्वादशिको भवेत्
”स्कन्दपुराणम् ।“प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ।”देवीपुराणम् ।“हविष्यभोजनं सत्यं स्नानमाहारलाघवम् ।अग्निकार्य्यमधःशय्यां नक्तभोजी षडाचरेत्
”इत्येकादशीतत्त्वम्
*
देवलः ।“रात्रौ श्राद्धं कुर्व्वीत राक्षसी कीर्त्तिता हिसा ।सन्ध्ययोरुभयोश्चैव सूर्य्ये चैवाचिरोदिते
”इति श्राद्धतत्त्वम्
*
विष्णुपुराणंम् ।“प्रातनिंशि तथा सन्ध्यामध्याह्रादिषु संस्मरन् ।नारायणमवाप्नोति सद्यः पापक्षयं नरः
”रात्रावपि गङ्गायां स्नानादौ प्रतिप्रसवमाह ।ब्रह्मपुराणम् ।“दिवारात्रौ सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः ।स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः
”रात्रिञ्चराधिकारमुपक्रम्य आदिपर्व्वणि ।“अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः ।गर्हयन्ति जनान् सर्व्वान् वनस्थान् नृपतीनपि
”तत्रार्ज्जुनस्य प्रतिवचनम् ।“समुद्रे हिमवत्पार्श्वे नद्यामस्याञ्च दुर्म्मते ।रात्रावहनि सन्ध्यायां कस्य गुप्तः परिग्रहः
”देवलः ।“महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम् ।तस्यां स्नानं कुर्व्वीत काम्यनैमित्तिकादृते
”अतएव कल्पतरुः नक्तं स्नायादिति बौधा-यनवचनं रागप्राप्तस्नानविषयम् एवञ्च गङ्गा-स्नानस्य दिवारात्रिकर्त्तव्यत्वाविशेषात् तत्त-न्निमित्ततिथिविशेषस्यापि दिवारात्रिसम्बन्धि-त्वेनाविशेषः इति प्रायश्चित्ततत्त्वम्
(रात्र्युक्तनियमाः यथा, --“रात्रौ भोजनं कुर्य्यात् प्रथमप्रहरागमे ।किञ्चिदूनं समश्नीयात् दुर्ज्जरन्तत्र वर्ज्जयेत्
शरीरे जायते नित्यं देहिनः सुरतस्पृहा ।अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनोः
बालेति गीयते नारी यावद्वर्षाणि षोडश ।ततस्तु तरुणी ज्ञेया द्वात्रिंशत् वत्सरावधि
तदूर्द्ध्वमधिरूढा स्यात् पञ्चाशद्वत्सरावधि ।वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्ज्जिता
”अधिरूढा प्रौढा ।“निदाघशरदोर्बाला हिता विषयिणी मता ।तरुणी शीतसमये प्रौडा वर्षावसन्तयोः
नित्यं बाला सेव्यमाना नित्यं वर्द्धयते बलम् ।तरुणी ह्नासयेच्छक्तिं प्रौढोद्भावयते जराम्
मद्यो मांसन्नवञ्चान्नं बाला स्त्री क्षीरभोजनम् ।घृतमुष्णोदके स्नानं सद्यः प्राणकराणि षट्
पूतिमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।प्रभाते मैथुनं निद्रा सद्यः प्राणकराणि षट्
”प्राणशब्दोऽत्र बलवाचकः बालार्कः कन्यार्कः ।“वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात् ।वयोऽधिकां स्त्रियं गत्वा तरुणः स्थविरायते
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ।स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः
सेवेत कामतः कामं बलाद्वाजीकृतो हि मे ।प्रकामन्तु निषेवेत मैथुनं शिशिरागमे
त्र्यहाद्वसन्तशरदोः पक्षाद्वृष्टिनिदाघयोः
”सुश्रुतस्तु ।“त्रिभिस्त्रिभिरहोभिर्हि समेयात् प्रमदान्नरः ।सर्व्वेष्वृतुषु घर्म्मेषु पक्षात् पक्षाद्व्रजेद्बुधः
”समेयात् सङ्गच्छेत् घर्म्मे ग्रीष्मे ।“शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवा-निशि ।वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः
उपेयात् पुरुषो नारीं सन्ध्ययोर्न पर्व्वसु ।गोसर्गे चार्द्धरात्रे तथा मध्यदिनेऽपि
विहारं भार्य्यया कुर्य्याद्देशेऽतिशयसंवृते ।रम्ये श्रव्याङ्गनागाने सुगन्धे सुखमारुते
देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे ।श्रूयमाणे व्यथाहेतुवचने रमेत ना
स्नातश्चन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः
भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः ।ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकः स्मरः
पुत्त्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे ।अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपा-सितः
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रोगी मैथुनम्
”रोगी मैथुनसंवर्द्धनीयरोगयुक्तः ।“भार्य्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम् ।अतिकामोऽभिकामान्तु हृष्टो हृष्टामलङ्कृताम्
सेवेत प्रमदां युक्त्या बाजीकरणबृंहितः ।रजस्वलामकामाञ्च मलिनामप्रियान्तथा
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् ।हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम्
सगोत्राङ्गुरुपत्नीञ्च तथा प्रव्रजितामपि
नाभिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया
”“स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् ।वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयः ।अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः
रात्रौ जागरणं रूक्षं कफदोषविषार्त्तिजित् ।निद्रा तु सेविता काले धातुसाम्यमतन्द्रितम्
पुष्टिवर्णबलोत्साहं वह्निदीप्तिं करोति
”इति भावप्राशस्य पूर्व्वखण्डे प्रथमे भागे
)तद्वैदिकपर्य्यायः श्यावी क्षपा शर्व्वरी ३अक्तुः ऊर्म्या राम्या यम्या नम्या ८दोषा नक्ता १० तमः ११ रजः १२असिक्नी १३ पयस्वती १४ तमस्वती १५घृताची १६ शिरिणा १७ मोकी १८ शोकी १९ऊधः २० पयः २१ हिमा २२ वस्वी २३ इतित्रयोविंशती रात्रिनामानि इति वेदनिघण्टौ ।१
(क्रौञ्चद्वीपस्थनदीविशेषः यथा, मात्स्ये १२२ ८७ ।“श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षं गताः शुभाः ।गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा
”)