| YouTube Channel

राजृ (rAjR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
राज्
मूलधातुः:
राजृ
धात्वर्थः:
दीप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
राजति-ते
अनुबन्धादिविशेषः:
फणादिः
धातुप्रदीपः
Sanskrit
राजृँ राजृ दीप्तौ
- राजति राजते रेजतुः रराजतुः रेजाते रराजाते रराज रेजे रराजे अरराजत् इति उभयतोभाषः स्वरितेदुदात्तः फणादिकार्य्यानुरोधेन हिक्कादिष्वयं पठ्यते ।। 824 ।।
क्षीरतरङ्गिणी
Sanskrit
राजृँ राजृ दीप्तौ
, उदात्तः स्वरितेत् - राजते, राजति, राजिता रराजुः रेजुः आनकः शीङ्भियः (उ0 382) इति पृथङ्-निर्देशाद् राजानकः कनिन् (उ01156) राजा राजेरन्यः (उ0 3 100) राजन्यः 791
धातुवृत्तिः
Sanskrit
राजृँ राजृ (अर्थः) दीप्तौ
उदात्तः स्वरितेत् ( राजति रराज रेजतुः रराजतुः रेजिथ रराजिथ राजिततेत्यादि तङि राजते रराजे इत्यादि पूर्ववत् रिराजिषति रिराजिषते रारज्यते राराष्टि ब्रश्चादिना षत्त्वं ज्ञलि पदान्ते राजयति अरराजत् ) "नाग्लोपि'' इत्यृदित्त्वादुपधह्रस्वनिषेधः सम्यक् राजते इति (सम्राट्) "सत्सूद्विष''इत्यादिना ( सूत्रम्) मो राजि समः क्कौ (इति सूत्रम्) इति समो मकारस्य मकारः क्किबन्तस्मिन् परे मोनुस्वरापवादः, सम्राजोपत्यं ( साम्राज्यः ) "सम्राजः क्षत्रिये'' इति कुर्वादिपाठात् क्षत्रियवनादस्मादपत्ये ण्यः, अक्षत्रियादणि (साम्राजः) राजत इति (राट्) "अन्येभ्येपि दृश्यते'' इति क्किप् ( राष्टम् )"ष्टन्'' इति ष्टन् "तितुत्र'' इतीण्नषेधः षितृवात् स्त्रियां (राष्टी), स्वाममिनित्यर्थः (राष्ट्रियः) "राष्ट्रावारपाराद् घखौ'' इति भावादौ शैषिकज्छापवादो घः ( राजा ) "कनिन्युपि'' इत्यादिना कनिन् दन्तानां राजा, (राजदन्तः) ( सूत्रम्) राजदन्तादिषु परम् (इति सूत्रम्) इति षष्ठ्यन्तस्य परप्रयोगः (राजन्यः क्षत्रियः) "राजश्वशुराद्यत्'' इति बपत्ये_थे यति व्युत्पित्तः, जातिवचनस्त्वयम् तथा तत्र वार्त्तिकं [राज्ञोपत्ये जातिग्रहणम् ]इति जतिश्चेइ क्षत्रियजातिरुच्यते "ये चाभावकर्मणोः'' इति प्रकृतिभावात् "नस्तद्धिते'' इति टिलोपाभावात् क्षत्रियजातेरन्यत्राणि (राजनः) "अन्'' इति प्रकृतिभावः, राज्ञां समृहो (राजकम्) "नस्तद्धितते'' इति टिलोपः "गोत्रोक्षोरभ्रराज'' इति वुञ् (राजन्यकम् ) ( सूत्रम्) आपततत्यस्य तद्धितेनाति (इति सूत्रम्) इति यकारस्य अनाति तद्धिते भसंज्ञानिमिइत्ते विधीयमानो लोपः "प्रकृत्याके राजन्यमनुष्युवानः'' इति प्रकृतिभावान्न्भवति यद्वायं यकारो राज्ञोपत्ये जातिग्रहणमित्युक्तत्वान्नापत्ये, राज्ञ इदं (राजकीयम् ) "राज्ञः च'' इति छप्रत्य्यः शैषिकः कश्चान्तादेशः राज्ञःकर्म भावो वा (राज्यम) पत्यन्तततपुरोहितादिषु"राजास''इति पाठादसमासेऽयम् यकारस्य भावकर्मविषयत्वात् प्रकृतिभावाभावात् "नस्तद्धिते'' इति टिलोपः समासे तु ष्यञ् (आधिराज्यम् ) ब्राह्मणादिषु राजन्शब्दः पठ्यते, हि तदन्तात ष्यञर्थः केवलस्य यको विधानात्, "राजासे'' इत्येतद्वचनं इत्येतद्वचनं ज्ञापकमत्र तदन्तत्वम् अत्रैके ब्राह्मणादेराकृतिगणत्वात् राजन्शब्दान्तात् ष्यञि सिद्धे तत्र राजन्शब्दस्य पाठसामर्थ्यात् केवलात् ष्यञपि भवतीत्याहुः तथा शाबरभाष्यमते व्यधिकरणे (राज्यं, )तस्य कर्मणि ष्ञिति अधिको राजा (अधिराजः, ) "कुगतिप्रादयः'' इति समासः ( सूत्रम्) राजाहः सखिभ्यष्टच् (इति सूत्रम्) इति राजाद्यन्तात् तत्युरुषाट्टचि टिलोपः अत्र लघ्वक्षरं पूर्वं निपतति इति "द्वन्द्वे घि'' इति लध्वक्षरत्वात् ध्यन्तत्वात् सखिशब्दस्य सवर्णदीर्घप्रसङ्गस्तस्यैव टजिति ज्ञापनाल्लिङ्गविशिष्टपरिभाषया अधिराज्ञीत्यादौ टज्न भवति अयं समासान्त उत्तरपदादकृत एव समासे भवतीत्युक्तं, तेन पञ्चराजीत्यादौ अकारान्तोत्तरपदसमाहारद्विगुत्वेन स्त्रियां ङीष् भवति शोभनो राजा, (सुराजा अतिराजेत्यत्र) "न पूजनात्'' इति समासान्तनिषेधः तत्र [ स्वती पूजायाम् ] इति परिगणितं, प्रतिराजेत्यत्र तु ( सूत्रम्) प्रतेरंच्चादयस्तत्पुरुषे (इति सूत्रम्) इति प्रतेः परेषामंश्वादीनामाद्युदात्तविधौ प्रतिराजेति पाठात् समासान्ताभावः (किंराजा अराजेत्यत्र) "किमः क्षेपे'' "नञस्तत्पुरुषात्'' इति समासान्ताभावः महाराजो देवता अस्य, (महाराजिकः) ( सूत्रम्) महाराजप्रोष्ठञ् (इति सूत्रम्) इति प्रथमान्ताद्देवतोपाधिकात् अस्येत्यर्थे ठञ् शोभनो राजा यस्यास्ति (राजन्वान् ) "राजन्वान् सौराज्ये'' इति मतुपि नलोपाभावो निपात्यते 807
कृदन्तरूपमाला
Sanskrit
1 {@“राजृ दीप्तौ”@} 2 फणादिः।
राजकः-जिका, राजकः-जिका, रिराजिषकः-षिका, राराजकः-जिका, राजिता-त्री, राजयिता-त्री, रिराजिषिता-त्री, राराजिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककाशतिवत् 3 ज्ञेयानि।
4 रराजिवान्-रेजिवान्, 5 सम्राट्, 6 विश्वाराट्-राट्, चेदिराट्, 7 राष्टिः, 8 राजिः, 9 राजानकः, 10 राजा, 11 राष्ट्रम्-राष्ट्री, इतीमान्यस्माद् भवन्तीति बोध्यम्।
12
प्रासङ्गिक्यः
01
=>
(१३९४)
02
=>
(१-भ्वादिः-८२२। अक। सेट्। उभ।)
03
=>
(१८६)
04
=>
[[१। कर्तरि लिटः क्वसौ, ‘फणां सप्तानाम्’ (६-४-१२५) इत्येत्वाभ्यासलोप- विकल्पः। ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इतीडागमः।]]
05
=>
[[२। ‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्’ (३-२-६१) इति ‘सम्’ इत्युपसर्गपूर्वकादस्मात् क्विप्। ‘मोऽनुस्वारः’ (८-३-२३) इत्यस्यापवा- दतया, ‘मो राजि समः क्वौ’ (८-२-२५) इति प्रतिपदविहितो मकारः।]]
06
=>
[[३। ‘विश्वाराट्’ इत्यत्र ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इति क्विप्। ‘विश्वस्य वसुराटोः’ (६-३-१२८) इति दीर्घः।]]
07
=>
[[४। ‘क्तिन् आबादिभ्यः--’ (वा। ३-३-९४) इति बाहुलकात् क्तिन्। हलन्तलक्षणाका- रप्रत्ययस्यापवादः। ‘तितुत्र--’ (७-२-९) इतीण्निषेधे ‘व्रश्चभ्रस्जसृजमृजयज- राजभ्राजच्छशां षः’ (८-२-३६) इति झलि परतो, जकारस्य षकारः।]]
08
=>
[[५। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इतीक्प्रत्यये रूपम्। राजते इति राजिः।]]
09
=>
[[६। बाहुलकात् ‘आनकः शीङ्भियः’ (द। उ। ३-२६) इत्यानकप्रत्यये रूपम्। अत्यथं राजते इति राजानकः। अत्र सूत्रे राजधातोरसंग्रहेऽपि, “प्राक् प्रत्ययनिर्देशः” (दशपाद्युणादिवृत्तिः १०-२) इत्यसकृदुक्तत्वादत्रापि राजतेरानकप्रत्यय इति बोध्यम्।]]
10
=>
[[७। ‘कनिन् युवृषितक्षिराजि--’ (द। उ। ६-५१) इति कनिन्प्रत्ययः। ‘सर्वनामस्थाने चासम्बुद्धौ, (६-४-८) इति दीर्घे, ‘न लोपः प्रातिपदिकान्तस्य’ (८-२-७) इति नकारलोपः।]]
11
=>
[[८। ष्ट्रन्प्रत्यये रूपम्। ‘तितुत्र--’ (७-२-९) इतीण्निषेधे षत्वम्। स्त्रियाम् षित्त्वात् ङीष्।]]
12
=>
[पृष्ठम्१११४+ ३०]