| YouTube Channel

राजावर्त्तः (rAjAvarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
राजावर्त्तः,
पुं,
(राजानं आवर्त्तयति आनन्द-यतीति + वृत् + णिच् + अण् यद्बा, राजः शोभमान आवर्त्तो यत्र ।) उपरत्नभेदः ।रेउटी इति हिन्दी भाषा तत्पर्य्यायः नृपा-वर्त्तः राजात्यावर्त्तकः आवर्त्तमणिः ४आवर्त्तः अस्य गुणाः मृदुत्वम् स्निग्ध-त्वम् शिशिरत्वम् पित्तनाशनत्वम् भूषणेप्रयोजितश्चेत् नृणां बहुभाग्यकरत्वञ्च इतिराजनिर्घण्टः
विराटदेशजहीरकः तत्-पर्य्यायः विराटजः राजपट्टः इतिहेमचन्द्रः १३२
(यथा, कथासरित्-सागरे ७३ ३३९ ।“राजावर्त्तोपलश्यामतले सद्वासवेश्मनि
”तथास्य गुणाः ।“राजावर्त्तः कटुस्तिक्तः शिशिरः पित्तनाशनः ।राजावर्त्तः प्रमेहघ्नः छर्द्दिहिक्कानिवारणः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)