| YouTube Channel

राजाम्रः (rAjAmraH)

 
शब्दकल्पद्रुमः
Sanskrit
राजाम्रः,
पुं,
(आम्राणां राजा श्रेष्ठत्वात् ।राजदन्तादित्वात् परनिपातः ।) आम्रविशेषः ।तत्पर्य्यायः राजफलः स्मराम्रः कोकि-लोत्सवः मधुरः कोकिलानन्दः कामेष्टः ७नृपवल्लभः अस्य फलगुणाः कोमलत्वम् ।कट्वम्लत्वम् पित्तदाहदत्वञ्च
सुपक्वस्य तस्यगुणाः स्वादुत्वम् मधुरत्वम् पुष्टिवीर्य्य-बलप्रदत्वञ्च इति राजनिर्घण्टः
अपि ।“राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्त्रकः ।राजाम्रं तुवरं स्वादु विषदं शीतलं गुरु ।ग्राहि रूक्षं विबन्धाध्मवातकृत् कफपित्तनुत्
”इति भावप्रकाशः