| YouTube Channel

राजान्नं (rAjAnnaM)

 
शब्दकल्पद्रुमः
Sanskrit
राजान्नं,
क्ली,
(राजयोग्यमन्नम् अन्नानां राजाइति वा ।) अन्ध्रदेशोद्भवशालिविशेषः तत्प-र्य्यायः नृपान्नम् राजार्हम् दीर्घशूककम् ४धान्यश्रेष्ठम् राजधान्यम् राजेष्टम् ७दीर्घकूरकम् अस्य गुणाः त्रिदोषघ्नत्वम् ।सुस्निग्धत्वम् मधुरत्वम् लघुत्वम् दीपन-त्वम् बलकारित्वम् पथ्यत्वम् कान्तिवीर्य्य-वृद्धिदत्वञ्च इति राजनिर्घण्टः
(राज्ञःअन्नम् ।) राजस्वामिकभक्तम् तद्भोजननिषेध-प्रायश्चित्ते राजशब्दे द्रष्टव्ये
(राजान्न-भक्षणेन हि तेजोहानिर्भवति यथा, मनुः ।४ २१८ ।“राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मबर्च्चसम् ।आयुः सुवर्णकारान्नं यशश्चर्म्मावकर्त्तिनः
”)