| YouTube Channel

राजानुजीवी (rAjAnujIvI)

 
शब्दकल्पद्रुमः
Sanskrit
राजानुजीवी, [न्] त्रि, (राज्ञः अनुजीवी ।)राजोपजीवी तस्य कर्म्माणि यथा, --मत्स्य उवाच ।“यथानुवर्त्तितव्यं स्यान्मनो राजोपजीविना ।तथा ते कथयिष्यामि निबोध गदतो मम
आज्ञा सर्व्वात्मना कार्य्या स्वशक्त्या रविनन्दन ।आक्षिप्य वचनन्तस्य वक्तव्यं तथा वचः
अनुकूलं प्रियन्तस्य वक्तव्यं ज्ञानसंसदि ।रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत्
परार्थमस्य वक्तव्यं स्वस्थे चेतसि भार्गव ।स्वार्थः सुहृद्भिर्व्वक्तव्यो स्वयन्तु कदाचन
कार्य्याभिघातः सर्व्वेषु रक्षितव्यः प्रयत्नतः ।न हिंस्यं धनं किञ्चिन्नियुक्तेन कर्म्मणि
नोपेक्ष्यं भाष्यमाणञ्च तथा राज्ञः प्रियो भवेत् ।राज्ञश्च तथा कार्य्यं वेशभाषितचेष्टितम्
राजलीला कर्त्तव्या तद्विद्विष्टं विवर्ज्जयेत् ।राज्ञः समोऽधिको वा कार्य्यो वेशो विजा-नता
द्यूतादिषु तथैवास्य कौशलञ्च प्रदर्शयेत् ।प्रदर्श्य कौशलञ्चास्य राजानञ्च विशेषयेत्
अन्तःपुरधनाध्यक्षैश्चरदूतैः समागतैः ।संसर्गं व्रजेद्राजन् ! विना पार्थिवशासनम्
निःस्नेहताञ्चावमानं प्रयत्नेन गोपयेत् ।यच्च गुह्यं भवेद्राज्ञो तल्लोके प्रकाशयेत्
नृपेण श्रावितं यत् स्याद्वाच्यावाच्यं नृपोत्तम ! ।न तत् संश्रावयेल्लोके तदा राज्ञः प्रियो भवेत्
आज्ञाप्यमाने चान्यस्मिन् समुत्थाय त्वरान्वितः ।अहं किं करवाणीति वाच्यो राजा विजा-नता
कार्य्यावस्थाञ्च विज्ञाय कार्य्यमेव तथा भवेत् ।सततं क्रियमाणेऽस्मिन् लाघवन्तु व्रजेत् ध्रुवम्
राज्ञः प्रियाणि वाक्यानि चात्यर्थं पुनःपुनः ।न हास्यशीलश्च भवेन्न चापि भ्रुकुटीमुखः
नातिवक्ता निर्व्वक्ता मत्सरिकस्तथा ।आत्मसम्भावितश्चैव भवेत् कथञ्चन
दुष्कृतानि नरेन्द्रस्य तु संकीर्त्तयेत् क्वचित् ।वस्त्रं शस्त्रमलङ्कारं राज्ञा दत्तञ्च धारयेत्
औदार्य्येण तद्देयमन्यस्मै भूतिमिच्छता ।तच्चैवोपासनं कार्य्यं दिवास्वप्नं कारयेत्
नानिर्द्दिष्टे तथा द्वारे प्रविशेत कदाचन ।न पश्येत्तु राजानमयोग्यासु भूमिषु ।राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तथा ।पुरस्तात्तु तथा पश्चादासनन्तु विगर्हितम्
जृम्भा निष्ठीवनं कासं कोपं पर्य्यस्तिकाश्रयम् ।भ्रुकृटीं वान्तमुद्गारं तत्समीपे विवर्जयेत्
स्वयं तत्र कुर्व्वीत स्वगुणाख्यापनन्तथा ।स्वगुणाख्यापने चैव परमेव प्रयोजयेत्
हृदयं निर्म्मलं कृत्वा परां भक्तिमुपाश्रितैः ।अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः
शाट्यं लौल्यञ्च पैशुन्यं नास्तिक्यं क्षुद्रतान्तथा ।चापल्यञ्च परित्याज्यं नित्यं राजानुजीविना
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ।राजसेवां ततः कुर्य्याद्भूतये भूतिवर्द्धिनीम्
नमस्कार्य्याः सदा चास्य पुत्त्रवल्लभमन्त्रिणः ।सचिवैश्चास्य विश्वासो तु कार्य्यः कथञ्चन
अपृष्टश्चास्य ब्रूयात् कामं ब्रूयात्तथापदि ।हितं पथ्यञ्च वचनं हितैः सह सुनिश्चितम्
चित्तञ्चैवास्य विज्ञेयं नित्यमेवोपजीविना ।भर्त्तुराराधनं कुर्य्यात् चित्तज्ञो मानवः सुखम्
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ।त्यजेद्वृत्तिं विरक्तस्तु रक्तो वृत्तिन्तु कारयेत्
विरक्तः कारयेन्नाशं विपक्षाभ्युदयन्तथा ।आशावर्द्धनकं कृत्वा फलनाशं करोति
अकोपोऽपि सकोपान्तः प्रसन्नोऽपि निष्फलः ।वाक्यं मन्दं वदति वृत्तिच्छेदं करोति
प्रदेशवाक्यमुदितो सम्भावयतेऽन्यथा ।आराधनासु सर्व्वासु सुप्तवच्च विचेष्टते
कथासु दोषं क्षिपति वाक्यभङ्गं करोति ।लक्ष्यते विमुखैश्चैव गुणसंकीर्त्तने कृते
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे कर्म्मणि ।विरक्तलक्षणं ह्येतत् शृणु रक्तस्य लक्षणम्
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ।कुशलादिपरिप्रश्नी संप्रयच्छति चासनम्
विरक्तदर्शने चास्य रहस्ये शङ्कते ।जायते हृष्टवदनः श्रुत्वा तस्य तु तत्कथाम्
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति ।उपायनञ्च गृह्णाति स्तोकमप्यादरात्तथा
कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा ।इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्वह
आपत्सु त्यजेत् पूर्व्वं विरक्तमपि सेवितम्
मित्रं चापत्सु तथा भृत्यंत्यजन्ति ये निर्गुणमप्रमेयम् ।प्रभुं विशेषेण ते व्रजन्तिसुरेन्द्रधामामरवृन्दजुष्टम्
”इति मत्स्यपुराणे राजधर्म्मे अनुजीविवृत्तिनाम२१६ अध्यायः