| YouTube Channel

राजसः (rAjasaH)

 
Hindi
Hindi
जुनून की मोड में
शब्दकल्पद्रुमः
Sanskrit
राजसः, त्रि, (रजसो भवः रजस् + अण् ।)रजोगुणोद्भवः लल्लक्षणं यथा, --“आरम्भरुचिताधैर्य्यमसत्कार्य्यपरिग्रहः ।विषयोपसेवा चाजस्रं राजसं गुणलक्षणम्
”आरम्भरुचिता फलार्थं कर्म्मानुष्ठानशीलता
*
संक्षेपतस्तल्लक्षणं यथा, --“येनास्मिन् कर्म्मणा लोके ख्यातिमिच्छतिपुष्कलाम् ।न शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम्
”तस्माद्गतिर्यथा, --“देवत्वं सात्त्विका यान्ति मनुष्यत्वञ्च राजसाः ।तिर्य्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः
”तद्गतिप्रकारा यथा, --“झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः ।द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः
राजानः क्षत्त्रियाश्चैव राज्ञश्चैव पुरोहिताः ।वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः
गन्धर्व्वा गुह्यका यक्षा विबुधानुचराश्च ये ।तथैवाप्सरसः सर्व्वा राजसीषूत्तमा गतिः
”इति वामने १२ अध्यायः
राजसाहारा यथा, --“कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।आहारा राजसस्येष्टा दुःखशोकामयप्रदाः
”राजसयज्ञो यथा, --“अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्
”राजसतपो यथा, --“सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्
*
राजसदानं यथा, --“यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।दीयते परिक्लिष्टं तद्दानं राजसं स्मृतम्
”इति श्रीभगवद्गीतायाम् १७ अध्यायः
राजसत्यागो यथा, --“दुःखमित्येव यत् कर्म्म कायक्लेशभयात् त्यजेत् ।स कृत्वा राजसत्यागं नैव त्यागफलं लभेत्
”राजसज्ञानं यथा, --“पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्-विधान् ।वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्
”राजसकर्म्म यथा, --“यत्तु कामेप्सुना कर्म्म साहङ्कारेण वा पुनः ।क्रियते बहुलायासं तद्राजसमुदाहृतम्
*
राजसकर्त्ता यथा, --“रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः
”राजसी बुद्धिर्यथा, --“यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव ।अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी
”राजसी धृतिर्यथा, --“यया तु धर्म्मकामार्थान् धृत्या धारयते-ऽर्ज्जुन ।प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी
”राजससुखं यथा, --“विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् ।परिणामे विषमिव तत् सुखं राजसं स्मृतम्
”इति श्रीभगवद्गीतायाम् १८ अध्यायः
*
राजसपुराणानि यथा, --“ब्रह्माण्डं ब्रह्मवैवर्त्तं मार्कण्डेयं तथैव ।भविष्यं वामनं ब्राह्मं राजसानि निबोधत
राजसस्मृतयो यथा, --“च्यावनं याज्ञवल्क्यञ्च आत्रेयं दाक्षमेव ।कात्यायनं वैष्णवञ्च राजसाः स्वर्गदा मताः
”इति पाद्मोत्तरखण्डे ४३ अध्यायः