| YouTube Channel

राजयक्ष्मा (rAjayakSmA)

 
Wordnet
Sanskrit
Synonyms:
राजयक्ष्मा
noun
रोगप्रकारः यस्मिन् रोगिणः श्वासकोशः क्षयति तथा शरीरः क्षीणः भवति।
"तेन राजयक्ष्मणा पीडितपुत्रः उपचारार्थे नगर्यां नीतः।"
पुराणम्
English
यक्ष्मा / YAKṢMĀ (rājayakṣmā). The disease of consumption (Tuberculosis). There is a story in mahābhārata which says that this disease was created by dakṣa prajāpati. (For more details see under candra).
अमरकोशः
Sanskrit
Word: राजयक्ष्मा
Root: राजयक्ष्मा
Gender: undefined
Number: undefined
Meaning(s):
end
fall
race
seat
loss
ruin
wane
house
decay
minus
waste
abode
waning
family
decline
removal
dwelling
residing
dominion
diminution
termination
destruction
consumption
annihilation
house of yama
dwelling-place
negative quantity
sickness in general
decrement [computer]
wasting or wearing away
abode in yama's dominion
destruction of the universe
phthisis pulmonalis (Tuberculosis)
Shloka(s):
2|6|51|2 क्षयः शोषश्च यक्ष्मा प्रतिश्यायस्तु पीनसः॥ (मनुष्यवर्गः)
Synonym(s):
2|6|51|2 क्षयः (क्षय) (पुं) end, fall, race, seat, loss, ruin, wane, house, decay, minus, waste, abode, waning, family, decline, removal, dwelling, residing, dominion, diminution, termination, destruction, consumption, annihilation, house of yama, dwelling-place, negative quantity, sickness in general, decrement [computer], wasting or wearing away, abode in yama's dominion, destruction of the universe, phthisis pulmonalis (Tuberculosis)
2|6|51|2 शोषः (शोष) (पुं) breath, drying, dryness, drying up, desiccant, desiccating, desiccation, vital energy, act of drying up, pulmonary consumption
2|6|51|2 यक्ष्मा (यक्ष्मन्) (पुं)
Related word(s):
परा_अपरासंबन्धः रोगः
जातिः अवस्था
शब्दकल्पद्रुमः
Sanskrit
राजयक्ष्मा, [न्]
पुं,
(राज्ञश्चन्द्रस्य क्षयकारकोयक्ष्मा राजा चासौ यक्ष्मा चेति वा ।)क्षयरोगः इति हेमचन्द्रः
अस्य पर्य्याय-निदानौषधादयो यक्ष्मशब्दे द्रष्टव्याः
*
(असौ हि सर्व्वरोगाणामाकरः यथा, माघे ९६ ।“मावेदि यदसावेको जेतव्यश्चेदिराडिति ।राजयक्ष्मेव रोगाणां समूहः महीभृताम्
”“तथाह वाग्भटः ।अनेकरोगानुगतो बहुरोगपुरःसरः ।राजयक्ष्मा क्षयः शोषो रोगराडिति स्मृतः
नक्षत्राणां द्विजानाञ्च राज्ञोऽभूत् यदयं पुरा ।यच्च राजा यक्ष्मा राजयक्ष्मा ततो मतः
”इति तट्टीकायां मल्लिनाथः
)महापातकजचिह्नमप्ययम् यथा, विष्णुः ।अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानांमानुष्ये लक्षणानि भवन्ति कुष्ठ्यतिपातकीब्रह्महा यक्ष्मी सुरापः श्यावदन्तकः सुवर्ण-हारी कुनखी गुरुतल्पगो दुश्चर्म्मा इत्यादिकूर्म्मपुराणम्
“क्रियाहीनस्य मूर्खस्य महारोगिण एव ।यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्
”महारोगिणः पापरोगाष्टकान्यतमरोगवतः ।ते उन्मादस्त्वग्दोषो राजयक्ष्मा श्वासो मधु-मेहो भगन्दरः उदरोऽश्मरी इत्यष्टौ पाप-रोगा नारदोक्ताः इति शुद्धितत्त्वम्
*
तस्योत्पत्तिरूपस्थानानि यथा, --“अथ कोपवतस्तस्य दक्षस्य सुमहात्मनः ।निश्चक्राम तदा यक्ष्मा नासिकाग्राद्विभीषणः
दंष्ट्राकरालवदनः कृष्णाङ्गारसमप्रभः ।अतिदीर्घः स्वल्पकेशः कृशो धमनिसन्ततः
अधोमुखो दण्डहस्तः कासं विश्रम्य सन्ततम् ।कुर्व्वाणो निम्ननेत्रश्च योषासम्भोगलोलुपः
चोवाच तदा दक्षं कुत्र स्थास्याम्यहं मुने ! ।किंवा चाहं करिष्यामि तन्मे वद महामते
ततो दक्षस्तु तं प्राह सोमं यातु द्रुतं भवान् ।सोममत्तु भवान्नित्यं सोमे त्वं तिष्ठ स्वेच्छया
मार्कण्डेय उवाच ।इति तस्य वचः श्रुत्वा दक्षस्याथ महात्मनः ।शनैः शनैस्ततः सोममाससाद द्रुतम्
असाद्य तदा सोमं वल्मीकं पन्नगो यथा ।प्रविवेशेन्दुहृदये छिद्रं प्राप्य महागदः
तस्मिन् प्रविष्टे हृदये दारुणे राजयक्ष्मणि ।शुशोच चन्द्रस्तन्द्रीञ्च विषमां प्राप्तवांस्ततः
उत्पत्य प्रथमं यस्माल्लीनो राजन्यसौ गदः ।राजयक्ष्मेति लोकेऽस्मिंस्तस्य ख्यातिरभूत्द्विजाः
ततस्तेनाभिभूतश्च यक्ष्मणा रोहिणीपतिः ।क्षयं जगामानुदिनं ग्रीष्मे शुष्का नदी यथा
तथा चन्द्रे क्षीयमाणे सर्व्वौषध्यः क्षयं गताः ।क्षयं जातास्वोषधीषु यज्ञः संप्रवर्त्तते
यज्ञाभावात्तु देवानामन्नं सर्व्वं क्षयं गतम् ।पर्य्यण्याश्च ततो नष्टास्ततो वृष्टिर्न चाभवत् ।वृष्ट्यभावे तु लोकानामाहारो क्षीणताङ्गतः
दुर्भिक्षव्यसनोपेते सर्व्वलोके द्विजोत्तमाः ।दानधर्म्मादिकं किञ्चिन्न लोकेषु प्रवर्त्तते
सत्त्वहीनाः प्रजाः सर्व्वा लोभेनोपहतेन्द्रियाः ।पापमेव तदा चक्रुर्न धर्म्मरुचयस्तथा
एतद्दृष्ट्वा तदा भावं दिक्पालाः सपुरन्दराः ।जग्मुः क्षोभं परं देवाः सागराश्च ग्रहास्तथा
ततो दृष्ट्वा जगत् सर्व्वं व्याकुलं दस्युपीडितम् ।ब्रह्माणमगमन्देवाः सर्व्वे शक्रपुरोगमाः
उपसङ्गम्य लोकेशं स्रष्टारं जगतां पतिम् ।प्रणम्याथ यथायोग्यमुपविष्टास्ततः सुराः
तान् म्लानवदनान् वीक्ष्य ब्रह्मा लोकपितामहः ।अभिभूतान् परेणैव हृतस्वविषयानिव ।पप्रच्छ सुमुखीकृत्य गुरुमिन्द्रं हुताशनम्
ब्रह्मोवाच ।स्वागतं भोः सुरगणाः किमर्थं यूयमागताः ।दुःखोपहतदेहांश्च युष्मान् म्लानांश्च लक्षये
निराधारान् निरातङ्कान् सुरान् सर्व्वांस्तुकामगान् ।कृत्वा स्वविषये न्यस्तान् कथं पश्यामि दुष्खि-तान्
यद्बभूवे दुष्खबीजं युष्मान् वा यस्तु बाधते ।तत् कथ्यतामशेषेण सिद्धिं चाप्यवधार्य्यताम्
मार्कण्डेय उवाच ।ततो वृद्धश्रवा जीवः कृष्णवर्त्मा लोककृत् ।उवाचात्मभुवे तस्मै सुराणां दुष्खकारणम्
शृणु सर्व्वं जगत्कर्त्तस्त्वां येन वयमागताः ।यदस्माकं दुःखबीजं यतो म्लानश्रियो वयम् ।न क्वचित् संप्रवर्त्तन्ते यज्ञा लोकपितामह
देवा ऊचुः ।निराधारा तिरातङ्काः प्रजाः सर्व्वाः क्षयंगताः ।न दानादिधर्म्माश्च तपांसि क्षितौ क्वचित्
नैव वर्षति पर्य्यण्यः क्षीणतोयाभवत् क्षितिः ।क्षीणाः सर्व्वास्तथौषध्यः शस्या लोकाः समा-कुलाः
दस्युभिः पीडिता विप्रा वेदवादान्न कुर्व्वते ।अन्नवैकल्यमासाद्य म्रियन्ते बहवः प्रजाः
क्षीणेषु यज्ञभागेषु भोगहीनास्तथा वयम् ।दुर्ब्बलाश्च श्रिया हीना नैव शान्तिं लभामहे
रोहिण्या मन्दिरे चन्द्रो वक्रगत्या चिरं स्थितः ।वृषराशौ क्षीणो ज्योत्स्नाहीनश्च वर्त्तते
यदैवान्विष्यते देवैश्चन्द्रो नैषां पुरःसरः ।कदाचिदपि देवानां समाजे वा भवद्विधे
कदाचिद्रोहिणीं त्यक्त्वा नैव क्व गच्छति ।यद्यन्यः कोऽपि भवेत्तदा चन्द्रो बहिर्भवेत् ।दृश्यते कलाहीनः कलामात्रावशेषितः
इति सर्व्वत्र लोकेश वृत्तः कर्म्मविपर्य्ययः ।तं दृष्ट्वा कान्दिशीकास्तु वयं त्वां शरणं गताः
पातालाद्यावदुत्थाय कालकञ्जादयोऽसुराः ।नास्मान् लोकेषु बाधन्ते तावन्नः पाहि साध्व-सात्
स्वयं प्रवर्त्तते कस्माज्जगतां वा व्यतिक्रमः ।न जानीमस्तु तत् सर्व्वं विप्लवे चापि कारणम्
मार्कण्डेय उवाच ।एतत् सुराणां वचनं दिव्यदर्शी पितामहः ।श्रुत्वा क्षणमभिध्याय निजगाद सुरोत्तमान्
ब्रह्मोवाच ।शृण्वन्तु देवताः सर्व्वा यदर्थं लोकविप्लवः ।प्रवर्त्ततेऽधुना येन शान्तिस्तस्य भविष्यति
सोमो दाक्षायणीः कन्याः सप्तविंशतिसंख्यया ।अश्विन्याद्या वरबधूर्भार्य्यार्थे परिणीतवान्
परिणीय ताः सर्व्वा रोहिण्यां सततं विधुः ।प्रवर्त्तेतानुरागेण सर्व्वासु प्रवर्त्तते
अश्विन्याद्यास्ततः सर्व्वा दौर्भाग्यज्वरपीडिताः ।षड्विंशतिर्वरारोहाः पितरं प्रस्थिताः स्वकम्
प्रवर्त्तते निशानाथो रोहिण्यां रागतो यथा ।तथा तासु भजते तद्दक्षाय न्यवेदयन्
अतो दक्षो महाबुद्धिः साम्ना संस्तूय विट्-पतिम् ।बहुसूनृतमाभाष्य पुत्त्र्यर्थेऽनुरुरोध तम्
अनुरुद्धो यथाकामं दक्षेण सुमहात्मना ।समं प्रवर्त्तितं तासु समयं कृतवान् विधुः
सममङ्गीकृते भावं तासु कर्त्तुं हिमांशुना ।स्वं जगाम ततः स्थानं दक्षोऽपि मुनिसत्तमः
गते दक्षे मुनिश्रेष्ठे वैषम्यं तासु चन्द्रमाः ।जहौ भावं ताः शश्वत् कुपिताः पितरंगताः
ततो दक्षः पुनश्चन्द्रमनुरुध्य सुतान्तरे ।समवृत्तिं प्रतिश्राव्य वचनञ्चेदमब्रवीत्
समं वर्त्तते चन्द्र सर्व्वास्वासु भवान् यदि ।तदा शप्स्ये त्वहं तुभ्यं तस्माद् कुरु समञ्ज-सम्
ततो गते पुनर्द्दक्षे समं वर्त्तते यदा ।तासु चन्द्रस्तदा दक्षं पुनर्गत्वाब्रुवन् रुषा
ते वचः कुरुते नैवास्मासु प्रवर्त्तते ।वयं तपः करिष्यामः स्थास्यामश्च त्वदन्तिके
तासामिति वचः श्रुत्वा कुपितस्य तदा मुनेः ।क्षयाय चन्द्रस्य मनः शापायोत्सुकतां गतम्
शापायोद्युक्तमनसः कुपितस्य महात्मनः ।क्षयो नाम महारोगो नासिकाग्राद्विनिर्गतः
प्रेषितः चन्द्राय दक्षेण मुनिना ततः ।प्रविष्टवांस्तस्य देहे क्षयितस्तेन चन्द्रमाः
क्षीणे चन्द्रे क्षयं याता ज्योत्स्रा तस्य महा-त्मनः ।क्षीणासु सर्व्वज्योत्स्नासु सर्व्वौषध्यः क्षयं गताः
ओषध्यभावाल्लोकेऽस्मिन्न यज्ञः संप्रवर्त्तते ।यज्ञाभावादनावृष्टिस्ततः सर्व्वप्रजाक्षयः
यज्ञभागोपभोगेन हीनानां भवतां तथा ।दुर्ब्बलत्वं ससुत्पन्नं विकारश्च स्वगोचरे
इति वः कथितं सर्व्वं यथाभूल्लोकपिप्लवः ।येनोपायेन तच्छान्तिस्तत्शृणुध्वं सुरोत्तमाः
”इति कालिकापुराणे २० अध्यायः
*
ब्रह्मोवाच ।“गच्छन्तु भोः सुरगणा दक्षस्य सदनं प्रति ।तं प्रसादय चन्द्रार्थे पूर्णो भवेद्यथा
पूर्णे चन्द्रे जगत् सर्व्वं प्रकृतिस्थं भविष्यति ।युष्माकञ्च भवेत् शान्तिरोषधीनाञ्च सम्भवः
मार्कण्डेय उवाच ।इति ब्रह्मवचः श्रुत्वा देवाः शक्रपुरोगमाः ।प्रययुर्हृष्टमनसस्तदा दक्षनिवेशनम्
यथान्यायमुपस्थाय सर्व्वे मुनिवरं सुराः ।प्रोचुः प्रजापतिं दक्षं प्रणम्य श्लक्ष्णया गिरा
देवा ऊचुः ।प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् ।उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात्
यद्रूपं ब्रह्मसंज्ञन्तु सृष्टिकृत्परमात्मनः ।तदंशस्त्वं परं ज्योतिर्विश्वरूपं नतोऽस्मि ते
दक्षणात् सर्व्वजगतां प्रजापालनकारणात् ।दक्षप्रजापतिश्चेति योगेशस्तन्नुमो वयम्
दक्षाय सर्व्वजगतां दक्षाय कुशलात्मनाम् ।दक्षायात्महितायाशु नमस्तुभ्यं महात्मने
सततं चिन्त्यमानस्य योगिभिर्नियतात्मभिः ।सारस्य सारभूतस्त्वं दक्षाय परमात्मने
योगविद्भिरनाधृष्टः पारगाणां परायणः ।आद्यन्तमुक्तः सहसा तस्मै नित्यं नमो नमः
इति तेषां वचः श्रुत्वा दक्षो यज्ञभुजां तदा ।प्राह प्रसन्नवदनः शक्रमाभाष्य मुख्यतः
दक्ष उवाच ।कुतः शक्र महाभाग भवतां दुःखमागतम् ।दुःखहेतुं वद विभो श्रोतुमिच्छाम्यहन्तु तम्
ममास्ति यदि कर्त्तव्यं भवतां दुःखहानये ।तदहं यदि शक्नोमि करिष्यामि हितं समम्
मार्कण्डेय उवाच ।तत् श्रुत्वा वचनं तस्य ब्रह्मसूनोर्महर्षिणः ।जगाद गीष्पतिः शक्रो वीतिहोत्रोऽथ तंमुनिम्
क्षयं यातो निशानाथस्तस्मिन् क्षीणे क्षयंगताः ।सर्व्वौषध्यो द्बिजश्रेष्ठ तद्धानिर्यज्ञहानिकृत्
यज्ञे विनष्टे सकलाः प्रजाः क्षुद्भयकातराः ।वृष्ट्यभावान्महद्दुःखं प्राप्य नष्टाश्च काश्चन
क्षयोऽयं रात्रिनाथस्य यस्ते कोपात् प्रवर्त्तते ।स सर्व्वजगतो ब्रह्मन्नभवार्थमुपस्थितः
नाधुना तत्त्रिभुवने यन्न क्षुब्धन्तु किञ्चन ।विप्लवं यान्ति विप्रेन्द्र सागराः स्थावराश्चराः
यज्ञाः संप्रवर्त्तन्ते तपस्यन्ति तापसाः ।आहारदुःखान्निन्द्रीकाः प्रजाः क्षीणा भया-तुराः
एवं प्रवृत्ते विप्रेन्द्र विप्लवेऽस्मान् रसातलात् ।दैत्या यावदुत्थाय बाधन्ते तावदुद्धर
प्रसीद दक्ष सततं तं पूरय तपीबलात् ।पूर्णे चन्द्रे जगत् सर्व्वं प्रकृतिस्थं भविष्यति
मार्कण्डेय उवाच ।इति तेषां वचः श्रुत्वा प्रजापतिसुतस्तदा ।उवाच तान् सुरगणान् हृदयाच्छल्यमुद्धरन्
दक्ष उवाच ।यन्मे वचो निशानाथे प्रवृत्तं शापकारणम् ।न केनापि निदानेन मिथ्यां कर्त्तुं तदुत्सहे
किन्तु मद्बचनं यस्मान्नैकान्तेन मृषा भवेत् ।चन्द्रोऽपि वर्द्धते यस्मात् तमुपायमपेक्षते
तत्राप्ययमुपायोऽस्ति मासार्द्धं यातु चन्द्रमाः ।क्षयं वृद्धिञ्च मासार्द्धं स्वयं भार्य्यासु वर्द्धताम्
तस्य तद्वचनं श्रुत्वा तं प्रसाद्य प्रजापतिम् ।सर्व्वे सुरगणास्तत्र गता यत्रास्ति चन्द्रमाः
एवमुक्ते तु वचने दक्षेण मुनिना द्विजाः ।अथ चन्द्रं समादाय भार्य्याभिः सहितं तदा ।जग्मुस्ते ब्रह्मसदनं मुदिताः सुरसत्तमाः
तत्र गत्वा महाभागा यथा दक्षेण भाषितम् ।तत्सर्व्वं कथयामासुर्ब्रह्मणे परमात्मने
ब्रह्मा दक्षवचः श्रुत्वा देवानां सदनं तदा ।चन्द्रभागं महाशैलं जगाम सहितः सुरैः
तत्र गत्वा सुरश्रेष्ठः प्रजानां हितकाम्यया ।स्नापयामास शुभ्रांशुं बृहल्लोहितपुष्करे
भूतभव्यभवज्ज्ञानः पूर्व्वमेव पितामहः ।एतदर्थं चकारात्र सरः पूर्णं जगत्प्रभुः
तत्र स्नातस्य लोकस्य नीरोगत्वं प्रजायते ।चिरायुस्त्वञ्च सततं बृहल्लोहितसंज्ञके
तत्र स्नातस्य चन्द्रस्य शरीरात् तत्क्षणं गदः ।राजयक्ष्मा निःससार पूर्व्वरूपो यथोदितः
निःसृत्य राजयक्ष्मा तु ब्रह्माणञ्च जगत्पतिम् ।प्रणम्याहं किं करिष्ये क्व गच्छामीत्युवाच
स्थानं पत्नीञ्च लोकेश ! कृत्यं मम सदातनम् ।निदेशयानुरूपं मे स्रष्टा त्वं जगतां यतः
मार्कण्डेय उवाच ।ततो ब्रह्मापि तं पुष्टं निरीक्ष्येन्दुशरीरगैः ।अमृतैस्तेनातिभुक्तैः क्षीणञ्चापि निशापतिम्
दोर्भिः स्वयं तं गृहीत्वा गिरौ निष्पिष्य वैमुहुः ।अमृतं गालयामास शरीराद्राजयक्ष्मणः
अमृतानि गाल्याशु तदपूतं तदा जले ।क्षीरोदस्य चिक्षेप मध्ये रहसि लोकभृत्
तस्मादप्यमृतादिन्दोः कलाः क्षीणाः पुराथयाः ।तासां जग्राह लवशश्चूर्णान् क्षीरोदसागरात्
कलामात्रावशेषस्य संसर्गाद्राजयक्ष्मणः ।क्षीणाः कलाः पञ्चदश याः पूर्व्वममृतात्मिकाः ।ता रागयक्ष्मगर्भस्थाश्चूर्णीभूतास्तु पीडया
तेजोज्योत्स्नाकलाभिस्तु निबद्वं यत् कला-पतेः ।शरीरं तत्त्रिधाभूतं गर्भस्थं राजयक्ष्मणः
ज्योतिश्चूर्णमभूत् ज्योत्स्ना लीना राजादि-यक्ष्मणि ।द्रवीभूताः सुधाः सर्व्वा गर्भे रोगस्य स्थिताः
यदा निर्गालयामास सुधां ब्रह्मा गदान्तरात् ।तदा ज्योत्स्ना सुधा ज्योतिः सर्व्वं तस्माद्-वहिर्गतम्
क्षीरोदसागरे क्षिप्तं तत्सर्व्वं विधिना तदा ।देवान् गिरौ परित्यज्य स्वयं गत्वा द्रुतं ततः
ततोऽमृतानि प्रक्षाल्य कलाचूर्णानि वारिधेः ।ज्योत्स्नाञ्चाप्याजगामाशु गृहीत्वा तत्त्रयंगिरिम्
क्षीरोदाद्गिरिमागम्य चन्द्रभागं तदा विधिः ।देवमध्ये कलाचूर्णं सुधां ज्योत्स्नां न्यवीविशत्
संस्थाप्य तत्त्रयं ब्रह्मा देवानां मध्यतस्ततः ।जगाद राजयक्ष्माणं तत्स्थानादि निदेशयन्
ब्रह्मोवाच ।सर्व्वदा यो दिवा रात्रौ सन्ध्यायां वनितारतः ।सेवते सुरतं तस्मिन् राजयक्ष्मन् वसिष्यसि
प्रतिश्यायश्वासकासयुक्तो यो मैथुनं चरेत् ।स ते प्रवेश्यः सततं श्लेष्मणश्च तथाविधः
कृष्णाख्या मृत्युपुत्त्री या भवतः सदृशी गुणैः ।सा तेऽस्तु भार्य्या सततं भवन्तमनुयास्यति
क्षीणत्वं भवतः कृत्यं ततस्त्वं विषये कुरु ।द्रुतं गच्छ यथाकामं चन्द्रे त्वं विमुखो भव
मार्कण्डेय उवाच ।एवं विसृष्टो विधिना राजयक्ष्मा महागदः ।पश्यतां सर्व्वदेवानामन्तर्द्धानं जगाम
अन्तर्हिते महारोगे ब्रह्मा लोकपितामहः ।चन्द्रं समग्रयामास कलापञ्चदशैधितम्
तेन क्षीरोदधौतेन सुधापूगेन वात्मभूः ।सज्योत्स्नैस्तु कलाचूर्णैः पूर्व्ववच्चाकरोद्विधुम्
षोडशकलापूर्णः पूर्व्ववद्विबभौ यदा ।चन्द्रस्तदा सर्व्वदेवा मुमुदुस्तस्य दर्शनात्
अथ चन्द्रस्तदा पूर्णः प्रणिपत्य पितामहम्
उवाचेदं सुरसदो मध्यगो नातिहर्षितः
सोम उवाच ।न स्थानं पूर्व्ववद्ब्रह्मन् शरीरे मम वर्त्तते ।न वीर्य्यं वा तथोत्साहो विसीदन्त्यङ्गसन्धयः
नोत्सहे पूर्व्ववच्चेष्टां विधातुं सुतरामहम् ।चेष्टाहीनस्त्वनुदिनं वर्त्तेयं केन लोकभृत्
ब्रह्मोवाच ।ग्रस्तस्य यक्ष्मणा सोम यदभूदङ्गसन्धयः ।पूर्व्वं विशीर्णा भवतस्तत्पूर्णमभवन्न हि
अधुना भवतो देहचूर्णं निःसारितं मया ।शरीरात् सामृतज्योत्स्ना अञ्जसा राज-यक्ष्मणः
तेषां प्रक्षालनविधौ लवशो यत् स्थितं जले ।ज्योत्स्नायाश्च सुधायाश्च तेन हीनो भवान्यतः ।ततोऽङ्गसन्धयो राजंस्तव सीदन्ति साम्प्रतम्
अत्रोपायं विधास्यामि यथा नार्त्तिं लभेद्भवान् ।प्राजापत्यः पुरोडाशो हवनीयः पुरोऽध्वरे
ऐन्द्रस्ततोऽनु चाग्नेयः प्रदेयः सर्व्वतः क्रतौ ।ततोऽनु भवतो भागः पुरोडाशो मया कृतः
तेन भागेन भुक्तेन नित्यं यज्ञहुतेन हि ।पूर्व्ववत्ते समुत्साहः स्थानं वीर्य्यं भविष्यति
यश्चामृतकणास्तोये क्षीरोदस्य स्थितास्तव ।शरीरचूर्णं यावत्ते ज्योत्स्नायाश्चापि ये कणाः ।वृद्धिं यास्यन्ति सततं क्षीरसागरमध्यगाः
स्वारोचिषेऽन्तरे प्राप्ते द्वितीये शङ्करांशजः ।दुर्व्वासा भविता विप्रः प्रचण्डश्चण्डभास्वरः
महेन्द्रस्याविनयात् शापं दत्त्वा सुदारुणम् ।करिष्यति त्रिभुवनं निःश्रीकं ससुरासुरम्
श्रिया हीने ततो लोके भविता लोकविप्लवः ।यथा तव क्षयात् सोम प्रवृत्तो लोकविप्लवः
तन्मानुषप्रमाणेन तृतीये तु कृते युगे ।भविष्यति स्थास्यति यावद्युगचतुष्टयम्
ततश्चतुर्थे सम्प्राप्ते सह देवैः कृते युगे ।क्षीरोदं निर्म्मथिष्यामः शम्भुर्विष्णुरहं तथा
मन्थानं मन्दरं कृत्वा सर्पराजं तथांशुकम्
यज्ञभागेषु हीनेषु देवान्नार्थं वयं ततः ।मथिष्यामः समं देवैः क्षीरोदं सह दानवैः ।त्वच्छरीरामृतमिदं यत् स्थितं क्षीरसागरे
तत्प्रमथ्य ग्रहीष्यामो राशीभूतं तथाक्षयम् ।सर्व्वौषध्यन्तरे कृत्वा त्वच्छरीरं तदा वयम् ।क्षेप्स्थामः सागरजले शरीरार्थं विधो तव
निर्म्मथ्य सागरं पश्चात् समुद्धार्य्य यदामृतम् ।तदा तव वपुस्तस्मिन्नपूर्व्वं सम्भविष्यति
ओजो वीर्य्यांशुकं कान्तमक्षयञ्च सुधात्मकम् ।दृढाङ्गसन्धिकं चारु भविष्यति वपुस्तव
मार्कण्डेय उवाच ।सुधांशुमेवमाभाष्य ब्रह्मा लोकपितामहः ।विधोः क्षयाय मासार्द्धं वृद्धये यत्नवानभूत्
यथा दक्षेण गदितं मासार्द्धं यातु चन्द्रमाः ।क्षयं वृद्धिञ्च मासार्द्धं यत्नं तत्राकरोद्विधिः
यतः षोडशधा चन्द्रं सुरज्येष्ठो विभक्तवान् ।विभज्य सुरान् सर्व्वान् समुवाचेदमद्भुतम्
कलाः षोडश चन्द्रस्य तत्रैका शम्भुमूर्द्धनि ।तिष्ठत्यद्यावधि पराः क्षयं यान्तु क्षयं विना
क्षयेण यदि रोगेण मासार्द्धं दक्षवाक्यतः ।क्षयाय पीड्यते चन्द्रो नोपशान्तिः सदा भवेत्
किन्त्वस्य या कला शम्भौ ज्योत्स्ना गच्छन्तु तांप्रति ।चतुर्द्दशकलासंस्थाः प्रतिमासं सुरोत्तमाः
चतुर्द्दशकलासंस्थान्यमृतानि पिबन्तु वै ।प्रतिपत्तिथिमारभ्य भवन्तस्त्वाचतुर्द्दशीम्
तेजोभागाः सूर्य्यविम्बं चतुर्द्दशतिथौ क्रमात् ।प्रविशन्तु क्षयं त्वेवं कृष्णपक्षे विधोर्भवेत्
यातु शषा कलादर्शे हरित्पत्रे पलायिता ।तिष्ठतु प्रथमे भागे तिथौ तस्यां निशापतेः
द्वितीये दर्शभ्रागे तु रोहिण्या यातु मन्दिरम् ।तृती तु सरस्वत्यां स्नात्वा सन्धुक्षितो विधुः
चतुर्थे बलसंपूर्णस्तिथिभागे विभावसोः ।मण्डलं यातु चन्द्रोऽयं सविम्बरथघोटकः
यावत्कालेन हि कला प्रथमा क्षयमाप्नुयात् ।एवमेवं कृष्णपक्षे तावत्स्था प्रतिपत् भवेत्
द्वितीयादौ कृष्णपक्षे वृद्धिर्ह्नासस्तथाविधः ।तिथीनां वृद्धिहेतुश्च शुक्ले कृष्णे तथा भवेत्
ततः पुनः शुक्लपक्षे यावत् पूर्व्वा कलोदिता ।वृद्धिमैति भवेत्तावत् प्रतिपत्तिथिरादितः
ततो द्वितीयभागस्य या ज्योत्स्ना हरमूर्द्धनि ।स्थितायां वै कलायान्तु गता सा पुनरेष्यति
युष्माभिस्तु भवेत् पेयममृतं यद्दिने दिने ।तद्द्वितीयादितिथिभिः पूर्णान्ताभिः सदैव हि
स्वयमुत्पत्स्यते चन्द्रो ज्योत्स्नायोगात् सुरो-त्तमाः ।यथा दिने दिने भागाः क्षयं यान्ति तथाविधोः
वृद्धिं गच्छन्त्यनुदिनं शुक्लपक्षेऽन्वहं सुराः ।तेजोभागः सूर्य्यविम्बात् पुनरेव समेष्यति
प्रयास्यति कृष्णपक्षे यथाभागक्रमन्तथा ।ज्योत्स्नाहरशिरश्चन्द्रात् प्रत्यहं पुनरेष्यति
तेजोभागः सूर्य्यविम्बादमृतं वत्स्यते स्वयम् ।एवं वृद्धिः शुक्लपक्षे सुधांशोः संभविष्यति
पक्षयोः शुक्लकृष्णत्वं चन्द्रवृद्धिक्षयाद्भवेत् ।यावत्कालेन यो भागं क्षयं वृद्धिञ्च यास्यति
तावत्कालमभिव्याप्य तिथिः स्थास्यति सा पुनः
चिरेण वृद्धिर्यदि वा क्षयो वाद्रुतेन वृद्धिर्यदि वा क्षयो वा ।द्रुतात्तिथीनां तु सदा क्षयः स्या-च्चिरात्तु वृद्धिस्थितिषु प्रवेशे
हव्यं कव्यञ्च चन्द्रेण विना संभविष्यति ।तस्मात् तयोः प्रवृद्ध्यर्थं चन्द्रं रक्षन्तु देवताः
आस्वादनीयः शुभ्रांशुः कलाशेषोऽनुमासतः ।अमावास्यापराह्ने तु पितृभी रोहिणीगृहे
तस्यैवास्वादनात् कव्यं वृद्धिं यास्यति चान्वहम् ।तेन कव्येन पितरस्तृप्तिं यास्यन्ति वै पराम्
श्रीमार्कण्डेय उवाच ।ततः सुरगणाः सर्व्वे यथोक्तं विधिना तथा ।चक्रुर्लोकहितार्थाय चन्द्रस्य क्षयवृद्धये
महादेवोऽपि चन्द्रार्द्धं स्वरूपं परमात्मनः ।जग्राह देवैर्विधिना शिरसाभ्युदितो भृशम्
यत्तेजः परमं नित्यमजमव्ययमक्षयम् ।तत्स्वरूपाश्चन्द्रकलाः शापतस्तु क्षयं गताः
प्रविशन्ति यदा ज्योतिरानन्दमजरं परम् ।योगिनान्तु तदा तेषां चित्तं तल्लीनमेष्यति
महादेवशिरःसंस्थे लीने चित्ते सुधानिधौ ।चन्द्रद्वारा भवेन्मुक्तिरित्येवं वैदिकी श्रुतिः
एतज्ज्ञात्वा महादेवः क्षयवृद्ध्या विना कृतम् ।हिताय सर्व्वलोकानां जग्राह शिरसा विधुम्
चन्द्रज्योत्स्नासमायोगादोषध्यो यान्ति वृद्धये ।सर्व्वौषधीषु वृद्धासु प्रवर्त्तन्ते ततोऽध्वराः
अध्वरेषु प्रवृत्तेषु स्वान् स्वान भागांस्तु देवताः ।परिगृह्णन्ति पितरस्तथा कव्यानि भूरि
अमृतं ब्रह्मणा सृष्टं यद्देवेभ्यः पूरातनम् ।तेन तृप्यन्ति हीना ये हव्यभागेन दैवताः
यज्ञेनाप्यायिते तच्च ज्योत्स्नाभिर्वृद्धिमेति वै ।यज्ञज्योत्स्ना विना भूतं तच्च स्यात् क्षीण-मन्यथा
अतोऽमृतस्य यज्ञस्य चन्द्रमाः कारणं स्वयम् ।अतोऽस्य दक्षशापात्तु रक्षायै तच्चिकीर्षितम्
अद्यापि कृष्णपक्षेऽपि सुधा संपीयते सुरैः ।तेजः सूर्य्यं याति शम्भोश्चन्द्रार्द्धं ज्योत्स्निकातथा ।पुनश्च शुक्लपक्षे तु शेषोदेति कला ततः ।ज्योत्स्नाद्वितीयो भागस्तु तेजोभागो द्वितीयकः
अन्वेत्युग्रशिरश्चन्द्रात् सूर्य्यविम्बाद्यथाक्रमम् ।कलाः षोडश चन्द्रस्य तत्रैका शम्भुशेखरे
सितासितावुभौ पक्षौ शेषाणामुदयक्षयौ ।इति वः सर्व्वमाख्यातं विभक्तश्चन्द्रमा यथा
ब्रह्मणा पर्व्वतश्रेष्ठे तथा तच्चन्द्रभागतः ।यज्ञभागे स्थिते यस्माद्देवार्थमकरोद्धिधुम् ।कव्ये स्थितेऽपि पित्रर्थं तिथिवृद्धिक्षयौ यथा
इदं पुण्यतमाख्यानं यः शृणोति सकृन्नरः ।राजयक्ष्मा तस्य कुले कदाचिद्भविष्यति
यक्ष्मणा परिभूतो यः शृणोति वचनं विधेः ।अचिरात् यक्ष्मणा मुक्तः भवेन्नरसत्तमः
इदं स्वस्त्ययनं पुण्यं गुह्यात् गुह्यतरं परम् ।यः शृणोत्येकचित्तः सन् महापुण्यभाग्-भवेत्
”इति कालिकापुराणे २१ अध्यायः