| YouTube Channel

राजमाषः (rAjamASaH)

 
Wordnet
Sanskrit
Synonyms:
राजमाषः
noun
क्षुपविशेषः- यस्य बीजगुप्तेः बीजानि धान्यरुपेण उपयुज्यन्ते।
"कृषीवलः कृषीक्षेत्रे राजमाषान् रोपयति।"
Synonyms:
राजमाषः, नीलमाषः, नृपमाषः, नृपोचितः
noun
धान्यविशेषः-द्विदलयुक्त-रक्तवर्णीय-धान्यः।(आयुर्वेदे अस्य गुणाः कफपित्तहरत्व-रुच्यत्व-वातकारित्वादि)
"राजमाषात् सूप-सागादि पचति।"
शब्दकल्पद्रुमः
Sanskrit
राजमाषः,
पुं,
(माषाणां राजा श्रेष्ठत्वात् ।राजदन्तादित्वात् परनिपातः ।) वर्व्वटः ।वरवटी कडाइ इति भाषा तत्पर्य्यायः ।नीलमाषः नृपमाषः नृपोचितः अस्यगुणाः कफपित्तहरत्वम् रुच्यत्वम् वात-कारित्वम् बलदायकत्वञ्च इति राज-निर्घण्टः
सारकत्वम् शुक्राम्लपित्तहरत्वम् ।सुस्वादुत्वम् रूक्षत्वम् कषायत्वम् विषदत्वम् ।लघुत्वञ्च इति राजवल्लभः
अन्यच्च ।“राजमाषो महामाषश्चपलश्च बलः स्मृतः ।राजमाषो गुरुः स्वादुस्तुवरस्तर्पणो रसः ।रूक्षो वातकरो रुच्यः स्तन्यो भूरिमलप्रदः
”इति भावप्रकाशः
*
कालविशेषे अस्याभक्षत्वं यथा नारदीये ।“निष्पावान् राजमाषांश्च सुप्ते देवे जनार्द्दने ।यो भक्षयति राजेन्द्र चाण्डालादधिको हि सः
कार्त्तिके तु विशेषेण राजमाषांश्च वर्ज्जयेत् ।निष्पावान् मुनिशार्द्दूल यावदाहूतनारकी
”इति तिथ्यादितत्त्वम्