| YouTube Channel

राजमार्गः (rAjamArgaH)

 
Apte Hindi
Hindi
राजमार्गः
पुं*
राजन्-मार्गः -
"मुख्य मार्ग, मुख्य सड़क, राजकीय या मुख्य पथ, मुख्य रास्ता या प्रधान मार्ग "
राजमार्गः
पुं*
राजन्-मार्गः -
"राजाओं की कार्य-विधि प्रणाली, या रीति"
Wordnet
Sanskrit
Synonyms:
महापथः, राजमार्गः
noun
जनैः उपयोक्तुं कृतः दीर्घः मार्गः यस्मिन् वाहनानि वेगेन धावन्ति।
"एषः प्राच्यः महापथः अस्ति।"
Synonyms:
राजमार्गः, राजपथः
noun
जनानां कृते विनिर्मीतः दृढः दीर्घः मार्गः।
"एषः राजमार्गः गुजराथप्रदेशात् आरभ्य मुम्बईनगरीं यावत् गच्छति।"
अमरकोशः
Sanskrit
Word: राजमार्गः
Root: राजमार्गः
Gender: undefined
Number: undefined
Meaning(s):
bell-road
chief road through a village highway
Shloka(s):
2|1|18|2 घण्टापथः संसरणं तत्पुरस्योपनिष्करम्॥ (भूमिवर्गः)
Synonym(s):
2|1|18|2 घण्टापथः (घण्टापथ) (पुं) bell-road, chief road through a village highway
2|1|18|2 संसरणम् (संसरण) (नपुं) world, highway, going about, principal road, walking or wandering through, commencement of war or battle, unobstructed march of an army, birth and rebirth of living beings, passing through a succession of states, resting-place for passengers near the gates of a city
Related word(s):
परा_अपरासंबन्धः मार्गः
जातिः मानवनिर्मितिः
शब्दकल्पद्रुमः
Sanskrit
राजमार्गः,
पुं,
(राज्ञो मार्गः ।) राजपथः ।तद्विवरणं यथा, --“राजमार्गं सौधयुक्तं यः करोति पतिव्रते ।वर्षाणामयुतं सोऽपि शक्रलोके महीयते
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः
अपि ।“त्रिंशद्धनूंषि विस्तीर्णो देषमार्गस्तु तैः कृतः ।विंशं धनुर्ग्राममार्गः सीमामार्गो दशैव तु
धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः ।नृवाजिरथनागानामसम्बाधः सुसञ्चरः
धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ।त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यका
जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् ।वृतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ।अवकरः परिवारः पादमात्रः समन्ततः
”इति देवीपुराणे गोपुरद्वारलक्षणं नामाध्यायः
(अत्रामेध्योत्सर्गे दण्डविधानं कर्त्तव्यम् यथा, मनुः २८२ ।“समुत्सृजेत् राजमार्गे यस्त्वमेध्यमनापदि ।स द्वौ कार्षापणौ दद्यादमेध्याञ्चाशु शोघयेत्
”नीतिः यथा, हरिवंशे भविष्यपर्व्वणि ।५४ ।“ज्ञानविज्ञानसम्पन्नौ राजमार्गविशारदौ ।युयुधाते महारङ्गे राक्षसेन दुरात्मना
”)