राजपुत्त्रः (rAjaputtraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritराजपुत्त्रः, (राज्ञश्चन्द्रस्य पुत्त्रः ।) बुधग्रहः ।इति शब्दरत्नावली ॥
महाराजचूतः । इतिराजनिर्घण्टः ॥
वर्णसङ्करजातिविशेषः । रंज-पुत इति भाषा ॥
यथा, --“वैश्यादम्बष्ठकन्यायां राजपुत्त्रस्य सम्भवः ॥
”इति पराशरपद्धतिः ॥
करणकन्यायां क्षत्त्रियाज्जातश्च । इति पुरा-णम् ॥
राजनन्दनः । तत्पर्य्यायः । युवराजः २कुमारः ३ भर्त्तृदारकः ४ । इत्यमरः ॥
(यथा, --“राजपुत्त्र ! चिरं जीव माजीव मुनिपुत्त्रक ! ।जीव वा मर वा साधो व्याध माजीव मा मर ॥
”इत्युद्भटः ॥
)तस्य रक्षणं यथा, --“राजपुत्त्रस्य रक्षा च कर्त्तव्या पृथिवीक्षिता ।आचार्य्यैश्चास्य कर्त्तव्यं नित्यमुक्तैश्च रक्षणम् ॥
धर्म्मकामार्थशास्त्राणि धनुर्व्वेदञ्च शिक्षयेत् ।रथे च कुञ्जरे चैनं व्यायामं कारयेत् सदा ॥
शिल्पानि शिक्षयेच्चैव नाप्तैर्मिथ्याप्रियं वदेत् ॥
गुणाधानमशक्यन्तु यस्य कर्त्तुं स्वभावतः ।बन्धनं तस्य कर्त्तव्यं गुप्ते देशे सुखान्वितम् ॥
अविनीतकुमारं हि कुलमाशु विशीर्य्यते ।अधिकारेषु सर्व्वेषु विनीतं हि नियोजयेत् ।आदौ स्वल्पेषु तत्पश्चात् क्रमेणाथ महत्स्वपि ॥
मृगयापानमक्षांश्च वर्ज्जयेत् पृथिवीपतिः ।एतान्यासेवमानास्तु विनष्टाः पृथिवीक्षितः ॥
बहवो नृपशार्दू ला येषां संख्या न विद्यते ॥
वृथाटनदिवास्वप्नं विशेषेण विवर्ज्जयेत् ।वाक्पारुष्यं न कर्त्तव्यं दण्डपारुष्यमेव च ॥
परोक्षनिन्दा च तथा वर्ज्जनीया महीक्षिता ।अर्थस्य दूषणं राजा द्बिःप्रकारं विवर्ज्जयेत् ॥
अर्थानां दूषणञ्चैव तथा चार्थेषु दूषणम् ।अकारणात् समुच्छेदं दुर्गादीनामसत्क्रिया ॥
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च ।अदेशकाले यद्दानमपात्रे दानमेव च ॥
अर्थस्य दूषणं प्रोक्तमसत्कर्म्मप्रवर्त्तनम् ।कामं क्रोधं मदं मानं लोभं हर्षन्तथैव च ।जेतव्यमरिषड्वर्गं सादरं पृथिवीक्षिता ॥
एतेषां विजयं कृत्वा कार्य्यं भृत्यजयं ततः ।कृत्वा भृत्यजयं सर्व्वं राजा जनपदं जयेत् ॥
कृत्वा तु विजयं तेषां शत्रून् बाह्यांस्ततो जयेत् ।बाह्याश्च त्रिविधा ज्ञेयास्तुल्याभ्यन्तरकृत्रिमाः ॥
गुरवस्ते यथापूर्व्वं तेषु यत्नपरो भवेत् ।पितृपैतामहं मित्रममित्रञ्च तथा रिपोः ॥
कृत्रिमञ्च महाभाग मित्रं त्रिविधमुच्यते ।तथापि च गुरुः पूर्व्वं भवेत्तत्रापि चादृतः ॥
स्वाम्यमात्यो जनपदो दुर्गं सैन्यन्तथैव च ।कोषो मित्रञ्च धर्म्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकीर्त्तितः ।तन्मूलत्वात्तथाङ्गानां राजा रक्ष्यः प्रयत्नतः ।षडङ्गरक्षा कर्त्तव्या तथा तेन प्रयत्नतः ॥
अङ्गेभ्यो यस्तथैकस्य द्रोहमाचरतेऽल्पधीः ।वधस्तस्य तु कर्त्तव्यः शीघ्रमेव महीक्षिता ॥
न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ।न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ॥
काले मृदुर्यो भवति काले भवति दारुणः ।राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥
भृत्यैः सह महीपालः परिहासं विवर्ज्जयेत् ।भृत्याः परिभवन्तीह नृपं हर्षवशं गतम् ॥
व्यसनानि च सर्व्वाणि भूपतिः परिवर्ज्जयेत् ।लोकसंग्रहणार्थाय कृतकव्यसनो भवेत् ॥
शौटीरस्य नरेन्द्रस्य नित्यमुद्रिक्तचेतसः ।जना विरागमायान्ति सदा दुःसेव्यभावतः ॥
स्मितपूर्व्वाभिभाषी स्यात् सर्व्वस्यैव महीपतिः ।वध्येष्वपि महाभाग भ्रुकुटीं न समाचरेत् ॥
भाव्यं धर्म्मभृतां श्रेष्ठ स्थूललक्ष्येण भूभुजा ।स्थूललक्ष्यस्य वशगा सर्व्वा भवति मेदिनी ॥
अदीर्घसूत्रश्च भवेत् सर्व्वकर्म्मसु पार्थिवः ।दीर्घसूत्रस्य नृपतेः कर्म्महानिर्ध्रुवं भवेत् ॥
रागे द्वेषे च कामे च द्रोहे पापे च कर्म्मणि ।अप्रिये चैव कर्त्तव्ये दीर्घसूत्रः प्रशस्यते ॥
राज्ञा संवृतमन्त्रेण सदा भाव्यं द्विजोत्तम ।तस्यासंवृतमन्त्रस्य ज्ञेयाः सर्व्वापदो ध्रुवाः ॥
कृतान्धेव तु कर्म्माणि जायन्ते यस्य भूपतेः ।नारब्धानि महाभाग तस्य स्वाद्बसुधा वशे ॥
मन्त्रमूलं सदा राज्यं तस्मान्मन्त्रं सुरक्षितम् ।कर्त्तव्यं पृथिवीपालैर्मन्त्रभेदभयात् सदा ॥
मन्त्रवित् साधितो मन्त्रः संयतानां सुखावहः ।मन्त्रच्छलेन बहवो विनष्टाः पृथिवीक्षितः ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥
नयस्य कुशलस्तस्य वशे सर्व्वा वसुन्धरा ।भवतीह महीभर्त्तुः सदा पार्थिननन्दन ॥
नैकस्तु मन्त्रयेन्मन्त्रं न राजा बहुभिः सह ।नारोहेद्विषमां नावं नापरीक्षितनाविकाम् ॥
ये चास्य भूमिं जयतो भवेयुः परिपन्थिनः ।तानानयेद्वशे सर्व्वान् सामादिभिरुपक्रमैः ॥
यथा न स्यात् कृषीभावः प्रजानामनपेक्षया ।तथा राज्ञा प्रकर्त्तव्यं स्वराष्ट्रपरिरक्षता ॥
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनपेक्षया ।सोऽचिराद्भ्रश्यते राज्यात् जीविताच्च सबा-न्धवः ॥
भृतो वत्सो जातबलः कर्म्मयोग्यो यथा भवेत् ।तथा राष्ट्रं महाभाग भृतं कर्म्मसहं भवेत् ॥
यो राष्ट्रमनुगृह्णाति राज्यं स्वं परिरक्षति ।संघातमुपयाचेत्तु विन्दते स महत् फलम् ॥
राष्ट्राद्धिरण्यं धान्यञ्च महीं राजा सुरक्षिताम् ।महता तु प्रयत्नेन स्वराष्ट्रस्य च रक्षिता ॥
नित्यं स्वेभ्यः परेभ्यश्च यथा माता यथा पिता ।गोपितानि सदा कुर्य्यात् स विभागी प्रियाणिच ॥
अजस्रमुपयोक्तव्यं फलं तेभ्यस्तथैव च ।धर्म्मकर्म्मेदमायत्तं विधाने दैवमानुषे ।तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया ॥
एवं महीं पालयतोऽस्य भर्त्तु-र्लोकानुरागः परमो भवेच्च ।लोकानुरागप्रभवा च लक्ष्मी-र्लक्ष्मीवतश्चैव परा च कीर्त्तिः ॥
”इति मात्स्ये २०० अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
