| YouTube Channel

राजन्वान् (rAjanvAn)

 
शब्दकल्पद्रुमः
Sanskrit
राजन्वान्, त्रि, (राजास्त्यस्यास्मिन्निति वा राजन्+ प्रशंसायां मतुप् “राजन्वान् सौराज्ये ।”८ १४ इति निपातनात् नलोपाभावः ।)सुराजयुक्तदेशः इत्यमरः
“प्रजापालनादि-स्वधर्म्मपरायणराजयुक्ते देशे राजन्वात् राजाविद्यतेऽस्येति मोङ्मझपादिति प्रशंसायां वतुः ।यदुक्तं तन्त्रान्तरे ।‘भूम्नि निन्दाप्रशंसासु नित्ययोगेऽतिशायने ।संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः
इतिस्वमते अस्त्यर्थे भमादयोऽमी अर्था अर्थात्तुलभ्यन्त एव निपातनान्नलोपाभावः नसौराज्ये राज्ञो नस्य लुङ्मताविति परे सुराज्ञिस्वधर्म्मपरत्वात् शोभना राजानोऽत्रेतिनार्च्चायां स्वतेरिति अनिषेधः देशो लोकोप-लक्षणं सुराज्ञि लोके इत्यर्थः ।” इति तट्टीकायांभरतः
(यथा, रघुः २२ ।“कामं नृपाः सन्तु सहस्रशोऽन्येराजन्वतीमाहुरनेन भूमिम् ।नक्षत्रताराग्रहसङ्कुलापिज्योतिष्मती चन्द्रमसैव रात्रिः
”)