राजनीतिः (rAjanItiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiराजनीतिः
राजन्-नीतिः -
"राज्य का प्रशासन, सरकार का प्रशासन, राजनय, राजनीतिज्ञता"
Wordnet
Sanskrit राजनीतिः
सत्तासम्बद्धः सामाजिकसम्बन्धः।
"शिक्षाक्षेत्रे वर्तमानया राजनीत्या शिक्षाकर्मकराणां दुर्गतिः आपन्ना।"
राजनीतिः, राजनयः
राज्यस्य सा व्यवस्था यस्याः अनुसारेण प्रजायाः शासनं पालनञ्च भवति तथा च अन्यैः राज्यैः सह व्यवहारः भवति।
"राजनीतौ कः अपि विश्वसितुम् न अर्हति।"
Tamil
Tamilராஜநீதி: : அரசியல் நீதி.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritराजनीतिः, (राज्ञां नीतिः ।) राज्ञां नयः ।यथा, चाणक्यपण्डितकृतप्रथमः श्लोकः ।“नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ।सर्व्वबीजमिदं शास्त्रं चाणक्यं सारसंग्रहम् ॥
”सा यथा, --“गदितं वलिशुक्राभ्यां श्रुत्वा भागवतोऽसुरः ।प्राह धर्म्मार्थसंयुक्तं प्रह्नादो वाक्यमुत्तमम् ॥
यदायत्यां क्षमं राजन् ! यद्धितं भुवनस्य ह ।अविरोधेन धर्म्मस्य अर्थस्योपार्ज्जनञ्च यत् ॥
सर्व्वसत्वानुगमनं कामवर्गफलञ्च यत् ।परत्रेह च थच्छ्रेयः पुत्त्र तत् कर्म्म आचर ॥
यथा श्लाघां प्रयास्यद्य यथा कीर्त्तिर्भवेत्तव ।यथा नापयशोयोगस्तथा कुरु महामते ॥
एतदर्थं श्रियं दीप्तां काङ्क्षन्ते पुरुषोत्तमाः ।येनैति हि गृहेऽस्माकं निवसन्ति सुनिर्व्वृताः ।वृद्धो ज्ञातिर्गुणा विप्रः कीर्त्तिश्च यशसा सह ॥
तस्माद्यथा ते निवसन्ति पुत्त्र-राज्यस्थितस्येह कुलोत्तमाद्याः ।तथा यतस्वामलसत्त्वचेष्टयायथा यशस्वी भवितासि लोके ॥
भूम्यां सदा ब्राह्मणभूषितायांक्षेत्रान्वितायां दृढवापितायाम् ।शुश्रूषणासक्तसमुद्भवायांऋद्धिं प्रयान्तीह नराधिपेन्द्राः ॥
तस्माद्द्बिजाग्र्याः श्रुतिशास्त्रयुक्तानराधिपांस्ते प्रतियाजयन्ते ।दिव्यैर्यजन्तु क्रतुभिर्द्विजेन्द्रायज्ञाग्निधूमो न नृपस्य शान्तिः ॥
तपोऽध्ययनसम्पन्ना याजनाध्यापने रताः ।सन्तु विप्रा बले पूज्यास्त्वत्तोऽनुज्ञामवाप्य हि ॥
स्वाध्याययज्ञनिरता दातारः शस्त्रजीविनः ।क्षत्त्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्म्मिणः ॥
यज्ञाध्ययनसम्पन्ना दातारः कृषिकारिणः ।पाशुपाल्यं प्रकुर्व्वन्तु वैश्या विपिनजीविनः ॥
ब्राह्मणक्षत्त्रियविशां सदा शुश्रूषणे रताः ।शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा ॥
यदा वर्णाः स्वधर्म्मस्था भवन्ति दितिजेश्वर ! ।धर्म्मवृद्धिस्तदा स्याद्बै धर्म्मवृद्धौ नृपोदयः ॥
तस्माद्वर्णा सधर्म्मस्थास्त्वया कार्य्याः सदा बले ! ।तद्वृद्धौ भवतो वृद्धिस्तद्धानौ हानिरुच्यते ॥
इत्थं वचः श्राव्य महासुरेन्द्रोबलिं महात्मा स बभूव तूष्णीम् ।ततो यदाज्ञापयसे करिष्येइत्थं बलिः प्राह वचो महर्षे ॥
”इति वामने ७१ अध्यायः ॥
* ॥
अपि च ।“एवं दत्त्वा ततो राज्यं मूर्द्ध्नि चाघ्राय धर्म्मवित् ।उवाच मधुरं वाक्यं पुत्त्रं पुत्त्रवतां वरः ॥
राज्यस्थेनापि ते पुत्त्र कर्त्तव्यं शृणु तन्मम ।यदीच्छेत् परमं धर्म्मं पितॄणां तारणं तथा ॥
दातव्योऽर्त्तिर्न कर्त्तव्या हन्तव्या परदारिकाः ।बालवाताश्च हन्तव्या हन्तव्या स्त्रीविघातकाः ॥
मा लोभं परद्रव्येषु अन्यायोपार्ज्जितेषु च ।न चिरं तिष्ठते क्वापि सर्व्वे मान्याः कदाचन ॥
रक्षणीयश्च ते देशः कुलन्यायवशार्ज्जितः ।नित्योद्युक्तेन स्थातव्यममात्यवचनं कुरु ॥
अमात्यो यद्वचो ब्रूयात् पुत्त्र कार्य्यविमर्शनम् ।अवश्यमेव कर्त्तव्यं शरीरपरिरक्षणम् ॥
प्रजा येन प्रमोदन्ति येन तुष्यन्ति ब्राह्मणाः ।एवं ते पुत्त्र कर्त्तव्यं मम प्रियहितैषिणा ॥
सप्त व्यसनं वर्ज्ज्येत दोषो राज्ञस्तु तन्महत् ।येषु राजा विनश्येत सम्पन्नोऽपि महाद्युतिः ॥
वज्जयेत सुरापानं मृगया वर्ज्जयेत् सदा ।वाक्यं रूक्षं न वक्तव्यं वृथा यावत् कदाचन ॥
राजगुह्यं न वक्तव्यं दूतभेदं विवर्ज्जयेत् ।वर्ज्जयेदतिपारुष्यं असद्भिश्च समागमम् ॥
अर्थदूषणकञ्चैव न कर्त्तव्यं कदाचन ।अमात्यं नाप्रियं ब्रूयाद्यदीच्छेद्राजकर्म्मणि ॥
नाहं निवारणीयस्ते गमनाय पथे स्थितः ।एतन्मे क्रियतां शीघ्रं यदीच्छसि मम प्रियम् ॥
ततः पितुर्व्वचः श्रुत्वा राजपुत्त्रो यशस्विनः ।उभौ तु पादौ संगृह्य कारुण्यं प्रत्युवाच तम् ॥
”इत्यादि श्रीवराहपुराणे भगवच्छ्रास्त्रे शौकरवेतीर्थमाहात्म्ये आदित्यवरप्रदानमृगजम्बुको-पाख्यानं नामाध्यायः ॥
* ॥
अन्यच्च ।मनुरुवाच ।“राज्ञोऽभिषिक्तमात्रस्य किंनु कृत्यतमं भवेत् ।एतत्ं सर्व्वं समाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥
मत्स्य उवाच ।अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन ।सहायावरणं कार्य्यं तत्र राज्यं प्रतिष्ठितम् ॥
यदस्याल्पतरं कर्म्म तदप्येकेन दुष्करम् ।पुरुषेणासहायेन किन्नु राज्यं महत् पदम् ॥
तस्मात् सहायान् वरयेत् कुलीनान् नृपतिःस्वयम् ।शूरान् कुलीनान् जातीयान् बलयुक्तान् श्रिया-न्वितान् ॥
रूपसत्त्वगुणोपेतान् सम्मतान क्षमया युतान् ।क्लेशक्षमान् महोत्साहान् धर्म्मज्ञांश्च प्रियं-वदान् ॥
हितोपदेशकालज्ञान् स्वामिभक्तान् यशो-ऽर्थिनः ।एवंविधान् सहायांश्च शुभकर्म्मसु योजयेत् ॥
गुणहीनानपि सदा विज्ञाय नृपतिः स्वयम् ॥
कर्म्मस्वेव नियुञ्जीत यथायोग्येषु भारत ! ।कुलीनः शीलसम्पन्नो धनुर्व्वेदविशारदः ।हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषणः ॥
निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सिते ।कृतज्ञः कर्म्मणा शूरस्तथा क्लेशसहो ऋजुः ॥
व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् ।राज्ञा सेनापतिः कार्य्यो ब्राह्मणः क्षत्त्रियोयथा ॥
प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः ।चित्तग्राहश्च सर्व्वेषां प्रतीहारो विधीयते ॥
यथोक्तवादी दूतः स्याद्देशभाषाविशारदः ।शक्तः क्लेशसहो वाग्मी देशकालविभाषितः ॥
विज्ञातदेशकालश्च दूतः स्यात् स महीक्षितः ।वक्ता नयस्य यः काले स दूतो भूपतेर्भवेत् ॥
प्रांशवो व्यायताः शूराः दृढभक्ता निराकुलाः ।राज्ञा तु रक्षिणः कार्य्याः सदा क्लेशसहाहिताः ॥
अनाहार्य्योऽनृशंसश्च दृढभक्तिश्च पार्थिवे ।ताम्बूलधारी भवति नारी वाव्यथ तद्गुणा ॥
षाड्गुण्यविधितत्त्वज्ञो देशभाषाविशारदः ।सन्धिविग्रहिकः कार्य्यो राज्ञा नयविशारदः ॥
आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः ।कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादेष रक्षिता ॥
सुरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः ।शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्त्तितः ॥
शूरश्च बलयुक्तश्च गजाश्वरथकोविदः ।धनुर्धारी भवेद्राज्ञः सर्व्वक्लेशसहः शुचिः ॥
निमित्तशकुनज्ञानहयशिक्षाविशारदः ।हयायुर्व्वेदतत्त्वज्ञो भूवि भागविशेषवित् ॥
स्वामिभक्तो महोत्साहः सर्व्वेषाञ्च प्रियंवदः ।बलाबलज्ञो रथिकः स्थिरदृष्टिः प्रियंवदः ॥
शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ।अनाहार्य्यः शुचिर्दक्षश्चिकित्सितविदांवरः ॥
सूदशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते ।सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः ।सर्व्वे महानसे धार्य्या लुप्तकेशनखा जनाः ॥
समः शत्रौ च मित्रे च धर्म्मशास्त्रविशारदः ।विप्रमुख्यः कुलीनश्च धर्म्माधिकरणो भवेत् ॥
कार्य्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः ।सर्व्वदेशाक्षराभिज्ञः सर्व्वशास्त्रविशारदः ॥
लेखकः कथितो राज्ञः सर्व्वाधिकरणेषु वै ।शीर्षोपेतान् सुसम्पूर्णान् समश्रेणिगतान्समान् ।अक्षरान् वै लिखेत् यस्तु लेखकः स वरःस्मृतः ॥
उपायवाक्यकुशलः सर्व्वशास्त्रविशारदः ।बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ॥
वाक्याभिप्रायतत्त्वज्ञो देशकालविभागवित् ।अनाहार्य्यो नृपे भक्तो लेखकः स्याद्भृगूत्तम ॥
पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ।धर्म्माधिकरणे कार्य्या जनाह्वानकरा नराः ।एवंविधास्तथा कार्य्या राज्ञा दौवारिका जनाः ।लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित् ॥
विज्ञाता फल्गुसाराणामनाहार्य्यः शुचिः सदा ।निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥
आयद्वारेषु सर्व्वेषु धनान्यक्षसमा नराः ।व्ययद्वारेषु च तथा कर्त्तव्या पृथिवीक्षिता ॥
परम्परागतो यः स्यादष्टाङ्गे तु चिकित्सिते ।अनाहार्य्यः स वैद्यः स्याद्धर्म्मात्मा च कुलोद्गतः ॥
प्राणाचार्य्यः स विज्ञेयो वचनं तस्य भूभुजः ।राजन् राज्ञा सदा कार्य्यं यथाकार्य्यं पृथग्-जनैः ॥
हस्तिशिक्षाविधानज्ञो वनजातिविशारदः ।क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥
एतैरेव गुणैर्युक्तः स्वासनश्च विशेषतः ।गजारोहो नरेन्द्रस्य सर्व्वकर्म्मणि शस्यते ॥
हयशिक्षाविधानज्ञस्तच्चिकित्सितपारगः ।अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते ॥
अनाहार्य्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः ।दुर्गाध्यक्षः स्मृतो राज्ञ उद्युक्तः सर्व्वकर्म्मसु ॥
वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः ।दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्त्तितः ॥
यन्त्रमुक्त पाणिमुक्ते अमुक्ते मुक्तधारिते ।अस्त्राचार्य्यो निरुद्बेगः कुलशश्च विशिष्यते ॥
वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचिः ।राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥
एवं सप्ताधिकारेषु पुरुषाः सप्त तेऽपरे ।पञ्च शब्दाधिकरणाः पुरुषाः सप्त तेऽपरम् ॥
अन्तःपुरचराः कार्य्या राज्ञा सर्व्वेषु कर्म्मसु ।स्थापनाजातितत्त्वज्ञः सततं प्रतिजाग्रता ॥
राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः ।कर्म्माण्यपरिमेयाणि राज्ञां भृगुकुलोद्भव ॥
उत्तमाधममध्यानि बुद्ध्वा कर्म्माणि पार्थिवः ।उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥
नरकर्म्मविपर्य्यासाद्राजा नाशमवाप्नुयात् ।नियोगं पौरुषं भक्तिं श्रुतं शौर्य्यं कुलं नयम् ॥
ज्ञात्वा वृत्तिर्व्विधातव्या पुरुषाणां महीक्षिता ।पुरुषान्तरविज्ञाने तत्त्वसारनिबन्धनात् ॥
बहुभिर्म्मन्त्रयेत् कामं राजा मन्त्रं पृथक् पृथक् ।मंन्त्रिणामपि नो कुर्य्यान्मन्त्रिमन्त्रप्रकाशनम् ॥
क्वचित् कस्यचिद्बिश्वासो भवतीह सदा नृणाम् ।निश्चयश्च सदा मन्त्रे कार्य्य एकेन शूरिणा ॥
भवेद्वा निश्चयावाप्तिः परबुद्ध्यनुजीवनात् ।एकस्यैव महीभर्त्तुर्भूयः कार्य्यो विनिश्चयः ॥
ब्राह्मणान् पर्य्युपासीत त्रयीं नाम सुनिश्चिताम् ।नासच्छास्त्रवतो मूढांस्ते हि लोकस्य कण्टकाः ॥
वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।तेभ्यो हि शिक्षेद्विनयं विनीतात्मा हि नित्यशः ।समग्रां वशगां कुर्य्यात् पृथिवीं नात्र संशयः ॥
बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः ।वनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥
त्रैविद्येभ्यस्त्रयीविद्यां दण्डनीतिञ्च शाश्वतीम् ।आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः ॥
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ।यजेत राजा क्रतुभिर्व्वहुभिश्चाप्तदक्षिणैः ।धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ।स्यात् स्वाध्यायपरो लोके वर्त्तेत पितृबन्धुषु ॥
आवृत्तानां गुरुकुलात् द्विजानां पूजको भवेत् ।नृपाणामक्षयो ह्येष विधिर्ब्राह्मो विधीयते ॥
ततः स्तेनानवामित्रा हरन्ति न च नश्यति ।तस्माद्राज्ञा विधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥
समोत्तमाधमै राजा ह्याहूय पालयेत् प्रजाः ।न निवर्त्तेत संग्रामामात् क्षत्त्रव्रतमनुस्मरन् ॥
संग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनम् ।शुश्रूषा ब्राह्मणानाञ्च राजा निश्रेयसं परम् ॥
कृपणानाञ्च वृद्धानामातुराणाञ्च रोगिणाम् ।योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ॥
वर्णाश्रमव्यवस्थानं तथा कार्य्यं विशेषतः ।स्वधर्म्मप्रच्युतान् राजा स्वधर्म्म स्थापयेत्तथा ॥
आश्रमे च यथाकार्य्यं तैलभाजनभोजनम् ।स्वयमेवानयेद्राजा सत्कृतान्नावमानयेत् ॥
तापसे सर्व्वकार्य्याणि राज्यमात्मानमेव च ।निवेदयेत् प्रयत्नेन देववच्चिरमर्च्चयेत् ॥
द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः ।वक्रां ज्ञात्वा न सेवेत प्रतिबाधेत चागताम् ॥
नास्य च्छिद्रं परो विद्यात् विद्याच्छिद्रं परस्य तु ।गूहेत् कूर्म्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
विश्वासयेच्चाप्यपरं तत्त्वभूतेन हेतुना ।वकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ॥
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।दृढप्रहारी च भवेत् तथा शूकरवन्नृपः ॥
चित्राकारश्च शिखिवद्दृढभक्तस्तथाश्ववत् ।भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ॥
काकशङ्की भवेन्नित्यं नाज्ञातवसतिं वसेत् ।नापरीक्षितपूर्व्वञ्च भोजनं शयणं व्रजेत् ॥
वस्त्रं पूष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ! ।न गाहेज्जलसम्बाधं न चाज्ञातजलाशयम् ॥
अपरीक्षितपूर्व्वन्तु पुरुषैराप्तकारिभिः ।नारोहेत् कुञ्जरं व्यालं न जातु तुरगं तथा ॥
नाविज्ञातस्त्रियं गच्छेत् नैव देवोत्सवे वसेत् ।नरेन्द्रलक्ष्म्या धर्म्मक्ष त्राता यत्तो भवेन्नृपः ।सद्वृत्ताश्च तथा पुष्टा सततं प्रतिमानिताः ।राज्ञा सहायाः कर्त्तव्याः पृथिवीं जेतुमिच्छता ।यथार्हञ्चाथ सुभृतान् राजा कर्म्मसु योजयेत् ।धर्म्मिष्ठान् धर्म्मकार्य्येषु शूरान् संग्रामकर्म्मसु ॥
निपुणानर्थकृत्येषु सर्व्वत्र च तथा शुचीन् ।स्त्रीषु षण्डान् नियुञ्जीत तीक्ष्णान् दारुणकर्म्मसु ।धर्म्मे चार्थे च कामे च भये च रविनन्दन ।राजा यथार्हञ्च कुर्य्यादुपधाभिः परीक्षणम् ॥
समतीतोपधान् भृत्यान् कुर्य्याद्धस्तिवनेचरान् ।तत्पादान्वेषणे यत्नांस्तदध्यक्षांश्च कारयेत् ॥
एवमादीनि कर्म्माणि नृपैः कर्य्याणि भार्गव ।सर्व्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणक्षयः ॥
पापसाध्यानि कर्म्माणि यानि राज्ञां नृपोत्तम ।सन्तस्तानि न कुर्व्वन्ति तस्मात्तान् विभृयान्नृपः ।नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्रिया ।यस्मिन् कर्म्मणि यस्य स्यात् विशेषेण च कौश-लम् ।तस्मिन् कर्म्मणि तं राजा परीक्ष्य विनियोजयेत् ॥
पितृपैतामहान् भृत्यान् सर्व्वकर्म्मसु योजयेत् ।विना दायादकृत्येषु परीक्ष्य स्वकृतान्नरान् ।नियुञ्जीत महाभाग तस्य ते हितकारिणः ॥
परराजगृहात् प्राज्ञ जनसंग्रहकाम्यया ।दुष्टान् वाप्यथवादुष्टानाश्रयीत प्रयत्नतः ॥
दुष्टं विज्ञाय विश्वासं न कुर्य्यात्तत्र भूमिपः ।वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ॥
राजा देशान्तरं प्राप्तं पुरुषं पूजयेद्भृशम् ।ममायं देशसंप्राप्तो बहुमानेन चिन्तितः ॥
तेषाञ्चारेण चारित्रं राजा विज्ञाय नित्यशः ।गुणिनां पूजनं कुर्य्यात् निर्गुणानाञ्च शासनम् ॥
कथिताः सततं राजन् राजानश्चारचक्षुषः ।स्वके देशे परे देशे ज्ञातशीलान् विचक्षणान् ॥
अनाहार्य्यान् क्लेशसहान् नियुञ्जीत सदा चरान् ।जनस्याविदितान् सौम्यांस्तथाज्ञातान् परस्परम् ॥
बणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् ।तथा प्रव्रजिताकारान् चारान् राजा नियो-जयेत् ॥
नैकस्य राजा श्रद्दध्यात् चारस्यापि च भाषिते ।द्वयोः सम्बन्धमाज्ञाय श्रद्दध्यान्नृपतिस्ततः ॥
परस्परस्याविदितौ यदि स्याताञ्चरावुभौ ।तस्माद्राजा प्रयत्नेन गूढांश्चारान्नियोजयेत् ॥
राज्यस्य मूलमेतावत् या राज्ञश्चारदृष्टिता ।चाराणामपि यत्नेन राज्ञा कार्य्यं परीक्षणम् ॥
विरज्यते तथा केन विज्ञेयं तन्महीक्षिता ।अनुरागात् कथं लोके कर्म्म कार्य्यं महीक्षिता ॥
लोकरागापरागौ च भृत्यानाञ्च गुणागुणान् ।सर्व्वं राज्ञां चरायत्तं तेषु यत्नपरो भवेत् ॥
कर्म्मणा केन मे लोके जनः सर्व्वोऽनुरज्यते ।विरज्यते केन तथा विज्ञेयं तन्महीक्षिता ।विरोधजनकं लोके वर्ज्जनीयं विशेषतः ॥
जनानुरागप्रभवा हि लक्ष्मीराज्ञां मता भार्गववंशचन्द्र ।तस्मात् प्रयत्नेन नरेन्द्रमुख्यैःकार्य्योऽनुरागो भुवि मानवेषु ॥
”इति मात्स्ये २१५ अध्यायः ॥
* ॥
अपरञ्च ।राजोवाच ।“बहवो भूपतेर्धर्म्मास्तान् वक्तुं नहि शक्यते ।तस्मात् समासतो वच्मि महाभाग निशामय ॥
पृथिवी वैष्णवी पुण्या सदा प्रियतमा हरेः ।नारायणादृते नान्यो वसुमत्याः पतिर्भवेत् ॥
नारायणांशजो राजा मनुष्यो न कदाचन ।अतस्तु दुर्नयं त्यक्त्वा सर्व्वां नीतिं समाचरेत् ॥
नीतिग्राही नृपो यस्तु विपत्तिर्नास्ति तस्य वै ।चिरं भुनक्ति पृथिवीं कण्टकैः परिवर्ज्जितः ॥
यस्मै न रोचते नीतिर्भूपालाय दुरात्मने ।भ्रष्टश्रीरचिरेणैव स भवेन्नात्र संशयः ॥
आयुर्ब्बलं यशो वित्तं विजयं सुखमिच्छता ।मन्त्रित्वे पण्डितो राज्ञा नियोज्यः सर्व्वदैव हि ॥
अवज्ञया महीभर्त्तुस्त्यजन्ति सदसीं बुधाः ।सभायां बुधहीनायां नीतिर्ब्बलवती न हि ॥
ततो नीतौ विपन्नायां सहसा धरणीपतेः ।राजश्रियो विनश्यन्ति सकोषबलवाहनाः ॥
ब्राह्मणान् गणकांश्चैव वैद्यांश्च बान्धवांस्तथा ।नृपाः कल्याणमिच्छन्तो न द्विषन्ति कदाचन ॥
गतश्रीर्गणकद्बेष्टा वैद्यद्वेष्टायुर्व्वर्ज्जितः ।ज्ञातिद्वेष्टा निष्कुलः स्यात् द्विजद्वेष्टास्विलार्त्ति-भाक् ॥
राजानः पितरः प्रोक्ताः पुत्त्रा जनपदास्तथा ।अतो भूपाः पालयन्ति प्रजाः पुत्त्रानिवौरसान्पौरलोकबधूं राजा पश्येत् पुत्त्रबधूमिव ।पौरलोके तथा कुर्य्यात् यथा स्नेहो निजात्मजे ॥
प्रजापीडाकरा ये च भूपाला अतिपापिनः ।शिरस्था विपदस्तेषां विज्ञेया दीर्घदर्शिभिः ॥
विवेकिनो महीपालाः पालयन्ति यथा प्रजाः ।तथा तानपि देवेशः पालयत्यनिशं हरिः ॥
प्रजानां पालनं दानं द्वेऽपि राज्ञां शुभावहे ।द्वाभ्यां ये वर्जिता भूपास्ते विज्ञेया नृपाधमाः ॥
दुष्टानां शासनञ्चैव शिष्टानां प्रतिपालनम् ।प्रकुर्व्वन्तो महीपालाश्चिरं नन्दन्ति भूतले ॥
न्यायेनोपार्ज्जितं वित्तं यत्नाद्रक्षेन्महीपतिः ।निर्व्वित्तो हि महीपालो विपत्त्यां न हि निस्त-रेत् ॥
नृपाः कल्याणमिच्छन्तो निजराज्यशुभाशुभम् ।पश्यन्ति नित्यं विप्रेन्द्र ! सत्वराश्चारचक्षुषः ॥
परचक्रभयं यावत् नायाति चिन्तयेद्भयम् ।आगते तु भये भूप आचरेन्निर्भयो यथा ॥
ज्ञातौ वापि च मित्रे वा पुत्ते वापि च मन्त्रिणि ।कुर्य्यान्मुखेन गाम्भीर्य्यं मनसा प्रेम केवलम् ॥
मन्त्रिणो ज्ञातयः पुत्त्राः प्रजाश्च भ्रातरस्तथा ।गाम्भीर्य्यहीनं भूपालं मन्यन्ते न हि भूपवत् ॥
तिष्ठन्ति प्रथमं दूरे वसन्ति पुरतस्तदा ।लोकाः श्रियं यदिच्छन्ति त्यक्तगाम्भीर्य्यभूपतेः ।एकस्य मन्त्रिणो राज्ञा चिरं राजत्वमिच्छता ।कर्त्तव्याः सकले राज्ये वृद्धयो नैव भूसुर ॥
अत्यन्तलब्धवृद्धीनां भृत्यानां सम्पदं हरेत् ।तस्यां सम्पदि भूपालो भृत्यमन्यं नियोजयेत् ॥
मूर्खः स्त्रीविजितो राजा गीतवाद्यरतः सदा ।चतुरङ्गबलैर्हीनः सहसा विपदं व्रजेत् ॥
स्वाचारग्रहणं सत्त्वं स्ववाक्यप्रतिपालनम् ।गाम्भीर्य्यञ्चेति भूपानां लक्षणानि द्बिजोत्तम ! ॥
स कथं नृपतिर्यस्तु प्रतापेन विवर्ज्जितः ।स कथं नृपतिर्येन न जिता परमेदिनी ॥
जितायां परमेदिन्यां यावत् पादं व्रजेन्नृपः ।प्रतिपादेऽश्वमेधस्य फलं प्राप्नोति चाक्षयम् ॥
परभूमिजयाकाङ्क्षी हतो वा नृपतिर्युधि ।तदा गच्छेत् परं धाम वियुक्तः सर्व्वपातकैः ॥
युधि प्राप्तजयो राजा प्राप्नोति परमं पदम् ।स साहसप्राप्तमृत्युर्द्दिवीन्द्रसम्पदं लभेत् ॥
त्यक्तसत्त्वं त्यक्तशस्त्रं पलायनपरायणम् ।योद्धारं युधि यो हन्यात् स भूपो यात्यधो-गतिम् ॥
पलायनपरो युद्धे तद्धन्ता च द्बिजोत्तम ! ।तावुभावपि तिष्ठेतां नरकेऽत्यन्तदुःसहे ॥
युधि साहसवान् योद्धा तद्धन्ता च महीसुर ।तिष्ठेतां द्वावपि स्वर्गे यावच्चन्द्रदिवाकरौ ॥
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया ।प्रजापालनकृद्राजा कदाचिन्नावसीदति ॥
”इति पाद्मे क्रियायोगसारे २० अध्याय ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
