| YouTube Channel

राजधर्म (rAjadharma)

 
शब्दसागरः
English
राजधर्म्म
m.
(-र्म्मः)
1. Royal duty.
2. The duty of the military tribe.
Capeller Eng
English
राजधर्म
m.
a king's duty
Pl. the laws relating to
kings.
Yates
English
राज-धर्म्म (र्म्मः) 1.
m.
Royal duty
duty
of the military tribe.
Wilson
English
राजधर्म्म
m.
(-र्म्मः)
1 Royal duty.
2 The duty of the military tribe.
E.
राज, and धर्म्म duty.
Monier Williams Cologne
English
राज—धर्म
m.
a k°'s duty
pl.
rules or laws relating to kings,
Mn.
MBh.
&c.
=
°मानुशासन,
Cat.
Apte Hindi
Hindi
राजधर्मः
पुं*
राजन्-धर्मः -
राज कर्तव्य
राजधर्मः
पुं*
राजन्-धर्मः -
राजाओं से सम्बन्ध रखने वाला नियम या विधि
Shabdartha Kaustubha
Kannada
राजधर्म
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರಾಜನ ಕರ್ತವ್ಯವಾದ ಪ್ರಜಾಪರಿಪಾಲನೆ
व्युत्पत्तिः - > राज्ञो धर्मः
L R Vaidya
English
rAjan-Darma {% m. %} a king’s duty, law relating to kings.
Aufrecht Catalogus Catalogorum
English
राजधर्म Pheh 12.
--from Matsyapurāṇa. Haug 52. Burnell 192^a.
Sanskrit Tibetan
Tibetan
rgyal po'i chos
राजधर्म
rgyal po'i chos
राजधर्म
शब्दकल्पद्रुमः
Sanskrit
राजधर्म्मः,
पुं,
(राज्ञो धर्म्मः ।) राज्ञः कर्त्तव्यंकर्म्म यथा, --“राजधर्म्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा
ब्राह्मं प्राप्तेन संस्कारं क्षत्त्रियेण यथाविधि ।सर्व्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम्
अराजके हि लोकेऽस्मिन् सर्व्वतो विद्रुते भयात् ।रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः
इन्द्रानिलयमार्क्काणामग्नेश्च वरुणस्य ।चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्म्मितो नृपः ।तस्मादभिभवत्येष सर्व्वभूतानि तेजसा
तपत्यादित्यवच्चैष चक्षूंषि मनांसि ।न चैनं भूवि शक्नोति कश्चिदप्यभिवीक्षितुम्
सोऽग्निर्भवति वायुश्च सोऽर्क्कः सोमः धर्म्मराट् ।स कुबेरः वरुणः महेन्द्रः प्रभावतः
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।महती देवता ह्येषा नररूपेण तिष्ठति
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम्
कार्य्यं सोऽवेक्ष्य शक्तिञ्च देशकालौ तत्त्वतः ।कुरुते धर्म्मसिद्ध्यर्थं विश्वरूपं पुनःपुनः
यस्य प्रसादे पद्मा श्रीर्व्विजयश्च पराक्रमे ।मृत्युश्च वसति क्रोधे सर्व्वतेजोमयो हि सः
तं यस्तु द्वेष्टि संमोहात् विनश्यत्यसंशयम् ।तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः
तस्माद्धर्म्मं यमिष्टेषु व्यवस्येन्नराधिपः ।अनिष्टञ्चाप्यनिष्टेषु तं धर्म्मं विचालयेत्
तस्यार्थे सर्व्वभूतानां गोप्तारं धर्म्ममात्मजम् ।ब्रह्मतेजोमयं दण्डमसृजत् पूर्व्वमीश्वरः
तस्य सर्व्वाणि भूतानि स्थावराणि चराणि ।भयाद्भोगाय कल्पन्ते स्वधर्म्मान्न चलन्ति
तं देशकालौ शक्तिञ्च विद्याञ्चावेक्ष्य तत्त्वतः ।यथार्हतः संप्रणयेन्नरेष्वन्यायवर्त्तिषु
राजा पुरुषो दण्डः नेता शासिता सः ।चतुर्णामाश्रमाणाञ्च धर्म्मस्य प्रतिभूः स्मृतः
दण्डः शास्ति प्रजाः सर्व्वा दण्ड एवाभिरक्षति ।दण्डः सुप्तेषु जागर्त्ति दण्डं धर्म्मं विदुर्ब्बुधाः
समीक्ष्य धृतः सम्यक् सर्व्वा रञ्जयति प्रजाः ।असमीक्ष्य प्रणीतस्तु विनाशयति सर्व्वतः
यदि प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।शूले मत्स्यानिवापक्ष्यन् दुर्ब्बलान् बलवत्तराः
अद्यात् काकः पुरोडाशं श्वावलिह्याद्धविस्तथा ।स्वाम्यञ्च स्यात् कस्मिंश्चित् प्रवर्त्तेताधरोत्तरम्
सर्व्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।दण्डस्य हि भयात् सर्व्वं जगद्भोगाय कल्पते
देवदानवगन्धर्व्वा रक्षांसि पतगोरगाः ।तेऽपि भोगाय कल्पन्ते दण्डेणैव निपीडिताः
दुष्येयुः सर्व्ववर्णाश्च भिद्येरन् सर्व्वसेतवः ।सर्व्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।प्रजास्तत्र मुह्यन्ति नेता चेत् साधु पश्यति
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ।समीक्ष्य कारिणं प्राज्ञं धर्म्मकामार्थकोविदम्
तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्द्धते ।कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते
दण्डो हि सुमहत्तेजो दुर्द्धरश्चाकृतात्मभिः ।धर्म्माद्बिचलितं हन्ति नृपमेव सबान्धवम्
ततो दुर्गञ्च राष्ट्रञ्च लोकञ्च सचराचरम् ।अन्तरीक्षगतांश्चैव मुनीन् देवांश्च पीडयेत्
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।न शक्यो न्यायतो नेतुं सक्तेन विषयेषु
शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा ।प्रणेतुं शक्यते दण्डः सुसहायेन धीमता
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु ।सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।विस्तीर्य्यते यशो लोके तैलबिन्दुरिवाम्भसि
अतस्तु विपरीतस्य नृपतेरजितात्मनः ।संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि
स्वे स्वे धर्म्मे निविष्टानां सर्व्वेषामनुपूर्व्वशः ।वर्णानामाश्रमाणाञ्च राजा सृष्टोऽभिरक्षिता
तेन यद्यत् सभृत्येन कर्त्तव्यं रक्षता प्रजाः ।तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्व्वशः
ब्राह्मणान् पर्य्युपासीत प्रातरुत्थाय पार्थिवः ।त्रैविद्यवृद्धान् विदुषस्तिष्ठेत्तेषाञ्च शासने
वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते
तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः ।विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित्
बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे
वेणो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ।सुदासो यवनश्चैव सुमुखो निमिरेव
पृथुस्तु विनयाद्राज्यं प्राप्तवान् मनुरेव ।कुवेरञ्च धनैश्वर्य्यं ब्राह्मण्यञ्चैव गाधिजः
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीम् ।आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ।जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः
दश कामसमुत्थानि तथाष्टौ क्रोधजानि ।व्यसनानि दुरन्तानि प्रयत्नेन विवर्ज्जयेत्
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।वियुज्यतेऽर्थधर्म्माभ्यां क्रोधजेष्वात्मनैव तु
मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः ।तौर्य्यत्रिकं वृथाट्या कामजो दशको गणः
पैशुन्यं साहसं द्रोह ईर्षासूयार्थदूषणम् ।वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः
द्वयोरप्येतयोर्म्मूलं यं सर्व्वे कवयो विदुः ।तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ
पानमक्षास्त्रियश्चैव मृगया यथाक्रमम् ।एतत् कष्टतमं विद्याच्चतुष्कं कामजे गणे
दण्डस्य पातनञ्चैव वाक्पारुष्यार्थदूषणे ।क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा
सप्तकस्यास्य वर्गस्य सर्व्वत्रैवानुषङ्गिणः ।पूर्व्वं पूर्व्वं गुरुतरं विद्याद्ब्यसनमात्मवान्
व्यसनस्य मृत्योश्च व्यसनं कष्टमुच्यते ।व्यसन्यधोऽधो व्रजति स्वर्य्यात्यव्यसनी मृतः
मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्-गतान् ।सचिवान् सप्त चाष्टौ वा प्रकुर्व्वीत परीक्षितान्
अपि यत् सुकरं कर्म्म तदप्येकेन दुष्करम् ।विशेषतोऽसहायेन किन्तु राज्यं महोदयम्
तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् ।स्थानं समुदयं गुप्तिं लब्धप्रशमनानि
तेषां स्वं समभिप्रायमुपलभ्य पृथक् पृथक् ।समस्तानाञ्च कार्य्येषु विदध्याद्धृतमात्मनः
सर्व्वेषान्तु विशिष्टेन ब्राह्मणेन विपश्चिता ।मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम्
नित्यं तस्मिन् समाश्वस्तः सर्व्वकार्य्याणि निःक्षि-पेत् ।तेन सार्द्धं विनिश्चित्य ततः कर्म्म समारभेत्
अन्यानपि प्रकुर्व्वीत शुचीन् प्राज्ञानवस्थितान् ।सम्यगर्थसमाहर्त्तॄनमात्यान् सुपरीक्षितान्
निर्व्वर्त्तेतास्य यावद्भिरिति कर्त्तव्यता नृभिः ।तावतोऽतन्द्रितान् दक्षान् प्रकुर्व्वीत विचक्ष-णान्
तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।शुचीनाकरकर्म्मान्ते भीरूनन्तर्न्निवेशने
दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् ।इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम्
अनुरक्तः शुचिर्द्दक्षः स्मृतिमान् देशकालवित् ।वपुष्मान् वीतभीर्व्वाग्मी दूतो राज्ञः प्रशस्यते
आमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।नृपतौ कोषराष्ट्रे दूते सन्धिविपर्य्ययौ
दूत एव हि सन्धत्ते भिनत्त्येव संहतान्
दूतस्तत् कुरुते कर्म्म भिद्यन्ते येन वा वा
विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।आकारमिङ्गितं चेष्टा भृत्येषु चिकीर्षितम्
बुद्ध्वा सर्व्वं तत्त्वेन परराजचिकीर्षितम् ।तथा प्रयत्नमातिष्ठेद्यथात्मानं पीडयेत्
जाङ्गलं शस्यसम्पन्नमार्य्यप्रायमनाविलम् ।रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत्
धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा ।नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम्
सर्व्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।एषां हि बहुगुण्येन गिरिदुर्गं विशिष्यते
त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्त्ताश्रयाप्सराः ।त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः ।तथारयो हिंसन्ति नृपं दुर्गसमाश्रितम्
एकः शतं योधयति प्राकारस्थो धनुर्द्धरः ।शतं दशसहस्राणि तस्माद्दुर्गं विधीयते
तत् स्यादायुधसम्पन्नं धनधान्येन वाहनैः ।ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन
तस्य मध्ये सुपर्य्याप्तं कारयेद्गृहमात्मनः ।गुप्तं सर्व्वर्त्तुकं शुभ्रं जलवृक्षसमन्वितम्
*
तदध्यास्योद्वहेद्भार्य्यां सवर्णां लक्षणान्विताम् ।कुले महति सम्भूतां हृद्यां रूपगुणान्विताम्
पुरोहितञ्च कुर्व्वीत वृणुयादेव चर्त्विजम् ।तेऽस्य गृह्याणि कर्म्माणि कुर्य्युर्व्वैतानिकानि
यजेत राजा क्रतुभिर्व्विविधैराप्तदक्षिणैः ।धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् ।स्याच्चाम्नायपरो लोके वर्त्तेत पितृवन् नृषु
अध्यक्षान् विविधान् कुर्य्यात् तत्र तत्र विप-श्चितः ।तेऽस्य सर्व्वाण्यवेक्षेरन् नृणां कार्य्याणि कुर्ष्व-ताम्
आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् ।नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते
तं स्तेना चामित्रा हरन्ति नश्यति ।तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः
स्कन्दते व्यथते विनश्यति कर्हिचित् ।वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम्
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।प्राधीते शतसाहस्रमनन्तं वेदपारगे
पात्रस्य हि विशेषेण श्रद्दधानतयैव ।अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम्
समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः ।न निवर्त्तेत संग्रामात् क्षात्त्रं धर्म्ममनुस्मरन्
संग्रामेष्वनिवर्त्तित्वं प्रजानाञ्चैव पालनम् ।शुश्रूषा ब्राह्मणानाञ्च राज्ञां श्रेयस्करं परम्
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः
कूटैरायुधैर्हन्यात् युध्यमानो रणे रिपून् ।न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः
हन्यात् स्थलारूढं क्लीवं कृता-ञ्जलिम् ।न मुक्तकेशं नासीनं तवास्मीति वादिनम्
सुप्तं विसन्नाहं नग्नं निरायुधम् ।नायुध्यमानं पश्यन्तं परेण समागतम्
नायुधव्यसनप्राप्तं नार्त्तं नातिपरीक्षतम् ।न भीतं परावृत्तं सतां धर्म्ममनुस्मरन्
यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः ।भर्त्तुर्यद्दष्कृतं किञ्चित्तत् सर्व्वं प्रतिपद्यते
यच्चास्य सुकृतं किञ्चिदमुत्रार्थमुपार्ज्जितम् ।भर्त्ता तत् सर्व्वमादत्ते परावृत्तहतस्य तु
*
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः ।सर्व्वद्रव्याणि कुप्यञ्च यो यज्जयति तस्य तत्
राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः ।राज्ञा सर्व्वयोधेभ्यो दातव्यमपृथग्जितम्
एषोऽनुपस्कृतः प्रोक्तो योधधर्म्मः सनातनः ।अस्माद्धर्म्मान्न च्यवेत क्षत्त्रियो घ्नन् रणे रिपून्
अलब्धञ्चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।रक्षितं वर्द्धयेच्चैव वृद्धं पात्रेषु निःक्षिपेत्
एतच्चतुर्व्विधं विद्यात् पुरुषार्थप्रयोजनम् ।अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादतन्द्रितः
अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।रक्षितं वर्द्धयेद्वृद्ध्या वृद्धं दानेन निःक्षिपेत्
*नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।नित्यं संवृतसंवार्य्यो नित्यं छिद्रानुसार्य्यरेः
नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ।तस्मात् सर्व्वाणि भूतानि दण्डेनैव प्रसाधयेत्
अमाययैव वर्त्तेत कथञ्चन मायया ।बुद्ध्येतारिप्रयुक्ताञ्च मायां नित्यं स्वसंवृतः
नास्य च्छिद्रं परो विद्याद्बिद्याच्छ्रिद्रं परस्य तु ।गूहेत् कूर्म्म इवाङ्गानि रक्षेद्विवरमात्मनः
वकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ।वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत्
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः ।तानानयेद्बशं सर्व्वान् सामादिभिरुपक्रमैः
यदि ते तु तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।द्दण्डेनैव प्रसह्यैताञ्छनकैर्व्वशमानयेत्
सामादीनामुपायानां चतुर्णामपि पण्डिताः ।सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये
यथोद्धरति निर्द्दाता कक्षं धान्यञ्च रक्षति ।तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात्
राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् ।सुसंगृहोतराष्ट्रो हि पार्थिवः सुखमेधते
द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् ।तथा ग्रामशतानाञ्च कुर्य्याद्राष्ट्रस्य संग्रहम्
ग्रामस्याधिपतिं कुर्य्याद्दशग्रामपतिं तथा ।विंशतीशं शतेशञ्च सहस्रपतिमेव
ग्रामे दोषान् समुत्पन्नान् ग्रामिकः शनकैःस्वयम् ।शंसेद्ग्रामदशेशाय दशेशो विंशतीशिनम्
विंशतीशस्तु तत्सर्व्वं शतेशाय निवेदयेत् ।शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम्
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात्
दशो कुलन्तु भुञ्जीत विंशी पञ्च कुलानि ।ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम्
तेषां ग्राम्याणि कार्य्याणि पृथक् कार्य्याणि चैवहि ।राज्ञोऽन्यः सचिवः स्निग्धस्तानिपश्येदतन्द्रितः
नगरे नगरे चैकं कुर्य्यात् सर्व्वार्थचिन्तकम् ।उच्चैः स्थानं घोररूपं नक्षत्राणामिव ग्रहम् ।सताननुपरिक्रामेत् सर्व्वानेव सदा स्वयम् ।तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु तच्चरैः
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः
ये कार्य्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः ।तेषां सर्व्वस्वमादाय राजा कुर्य्यात् प्रवासनम्
राजकर्म्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य ।प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्म्मानुरूपतः
पणो देयोऽवकृष्टस्य षडूत्कृष्टस्य वेतनम् ।षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तुमासिकः
*
क्रयविक्रयमध्वानं भक्तञ्च सपरिव्ययम् ।योगक्षेमञ्च संप्रेक्ष्य बणिजो दापयेत् करान्
यथा फलेन युज्येत राजा कर्त्ता कर्म्मणाम् ।तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान्
यथाल्पाल्पमदन्त्याद्यं वार्य्योको वत्स षट्पदाः ।तथाल्पाल्पो गृहीतव्यो राष्ट्राद्राज्ञाब्दिकःकरः
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।धान्यानामष्टमो भागः षष्ठो द्वादश एव वा
आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।गन्धौषधिरसानाञ्च मूलपुष्पफलस्य
पत्रशाकतृणानाञ्च वैदलस्य चर्म्मणाम् ।मृण्मयानाञ्च भाण्डानां सर्व्वस्याश्ममयस्य
म्रियमाणोऽप्याददीत राजा श्रोत्रियात्करम् ।न क्षुधास्य संसीदेत् श्रोत्रियो विषये वसन्
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति
श्रुतवित्ते विदित्वास्य वृत्तिं धर्म्म्यां प्रकल्पयेत् ।संरक्षेत् सर्व्वतश्चैनं पिता पुत्त्रमिवौरसम्
संरक्ष्यमाणो राज्ञा यं कुरुते धर्म्ममन्वहम् ।तेनायुर्व्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव
यत्किञ्चिदपि वर्षस्य दापयेत् करसंज्ञितम् ।व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम्
कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः ।एकैकं कारयेत् कर्म्म मासि मासि महीपतिः
नोच्छिन्द्यादात्मनो मूलं परेषाञ्चातितृष्णया ।उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीड-येत्
तीक्ष्णश्चैव मृदुश्च स्यात् कार्य्यं वीक्ष्य मही-पतिः ।तीक्ष्णश्चैव मृदुश्चैव राजा भवति सम्मतः
अमात्यमुख्यं धर्म्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।स्थापयेदासने तस्मिन खिन्नः कार्य्येक्षणे नृणाम्
एवं सर्व्वं विधायेदमिति कर्त्तव्यमात्मनः ।युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः
विक्रोशन्त्यो यस्य राष्ट्राद्ध्रियन्ते दस्युभिः प्रजाः ।संपश्यतः सभृत्यस्य मृतः तु जीवति
क्षित्त्रियस्य परो धर्म्मः प्रजानामेव पालनम् ।निर्द्दिष्टफलभोक्ता हि राजा धर्म्मेण युज्यते
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत् शुभां सभाम्
तत्र स्थितः प्रजाः सर्व्वाः प्रतिनन्द्य विसर्ज्जयेत् ।विसृज्य प्रजाः सर्व्वा मन्त्रयेत् सह मन्त्रिभिः
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।अरण्ये निःशलाके वा मन्त्रयेदविभावितः
यस्य मन्त्रं जानन्ति समागम्य पृथग्जनाः ।सकृत्स्नां पृथिवीं भुङ्क्ते कोषहीनोऽपिपार्थिवः
जडमूकान्धवधिरांस्तिर्य्यग्योनान् वयोगतान् ।स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत्
भिन्दन्त्यवमता मन्त्रं तैर्य्यग्योनास्तथैव ।स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत्
मध्यन्दिनेऽर्द्धरात्रे वा विश्रान्तो विगतक्लमः ।चिन्तयेद्धर्म्मकामार्थान् सार्द्धं तैरेक एव वा
परस्परविरुद्धानां तेषाञ्च समुपार्ज्जनम् ।कन्यानां सम्प्रदानञ्च कुमाराणाञ्च रक्षणम्
दूतसंप्रेषणञ्चैव कार्य्यशेषं तथैव ।अन्तःपुरप्रचारञ्च प्रणिधीनाञ्च चेष्टितम्
कृत्स्नं चाष्टबिधं कर्म्म पञ्चवर्गञ्च तत्त्वतः ।अनुरागापरागौ प्रचारं मण्डलस्य
मध्यमस्य प्रचारञ्च विजिगीषोश्च चेष्टितम् ।उदासीनप्रचारञ्च शत्रोश्चैव प्रयत्नतः
*
एताः प्रकृतयो मूलं मण्डलस्य समासतः ।अष्टौ चान्याः समाख्याता द्वादशैव तु ताःस्मृताः
अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः
अनन्तरमरिं विद्यादरिसेविनमेव ।अरेरनन्तरं मित्रमुदासीनं तयोः परम्
तान् सर्व्वानभिसन्दध्यात् सामादिभिरुपक्रमैः ।व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन
सन्धिञ्च विग्रहञ्चैव यानमासनमेव ।द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा
आसनञ्चैव यानञ्च सन्धिं विग्रहमेव ।कार्य्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव
सन्धिन्तु द्विविधं विद्याद्राजा विग्रहमेव ।उभे यानासने चैव द्विविधः संश्रयः स्मृतः
समानयानकर्म्मा विपरीतस्तथैव ।तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः
स्वयंकृतश्च कार्य्यार्थमकाले काल एव वा ।मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः
एकाकिनश्चात्ययिके कार्य्ये प्राप्ते यदृच्छया ।संहतस्य मित्रेण द्बिविधं यानमुच्यते
क्षीणस्य चैव क्रमशो दैवात् पूर्व्वकृतेन वा ।मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम्
बलस्य स्वामिनश्चैव स्थितिः कार्य्यार्थसिद्धये ।द्विविधं कीर्त्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः
अथसम्पादनार्थञ्च पीड्यमानस्य शत्रुभिः ।साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः
*
यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत्
”तदात्वे तत्काले ।“यदा प्रहृष्टा मन्येत सर्व्वास्तु प्रकृतीर्भृशम् ।अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम्
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।परस्य विपरीतञ्च तदा यायाद्रिपुं प्रति
यदा तु स्यात् परिक्षीणो वाहनेन बलेन ।तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन्
मन्येतारिं यदा राजा सर्व्वथा बलवत्तरम् ।तदा द्विधा बलं कृत्वा साधयेत् कार्य्यमात्मनः
यदा परबलानान्तु गभनीयतमो भवेत् ।तदा तु संश्रयेत् क्षिप्रं धार्म्मिकं बलिनं नृपम्
निग्रहं प्रकृतीनाञ्च कुर्य्याद्योऽरिबलस्य ।उपसेवेत तं नित्यं सर्व्वयत्नैर्गुरुं यथा
यदि तत्रापि संपश्येत् दोषं संश्रयकारितम् ।सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत्
सर्व्वोपायैस्तथा कुर्य्यान्नीतिज्ञः पृथिवीपतिः ।यथास्याभ्यधिका स्युर्मित्रोदासीनशत्रवः
आयतिं सर्व्वकार्य्याणां तदात्वञ्च विचारयेत् ।अतीतानाञ्च सर्व्वेषां गुणदोषौ तत्त्वतः
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।अतीते कार्य्यशेषज्ञः शत्रुभिर्नाभिभूयते
यथैनं नाभिसन्दध्युर्म्मित्रोदासीनशत्रवः ।तथा सर्व्वं संविदध्यादेष सामासिको नयः
यदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः ।तदानेन विधानेन यायादरिपुरं शनैः
मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः ।फालगुनं वाथ चैत्रं वा मासौ प्रति यथाबलम्
अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् ।तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः
कृत्वा विधानं मूले तु यात्रिकञ्च यथाविधि ।उपगृह्यास्पदञ्चैव चारान् सम्यग्विधाय
संशोध्य त्रिविधं मार्गं षड्विधञ्च बलं स्वकम् ।साम्परायिककल्पेन यायादरिपुरं शनैः
शत्रुसेविनि मित्रे गूढे युक्ततरो भवेत् ।गतप्रत्यागते चैव हि कष्टतरो रिपुः
दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा ।वराहमकराभ्यां वा सूच्या वा गरुडेन वा
यतश्च भयमाशङ्केत्ततो विस्तारयेद्वलम् ।पद्मेन चैव व्यूहेन निविशेत सदा स्वयम्
सेनापतिबलाध्यक्षौ सर्व्वदिक्षु निवेशयेत् ।यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद्दिशम्
गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।स्थाने युद्धे कुशलानभीरूनविकारिणः
*
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् ।सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत्
स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा ।वृक्षनुल्मावृते चापैरसिचर्म्मायुधैः स्थले
कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालान् शूरसेनजान् ।दीर्घान् लघूंश्चैव नरानग्रानीकेषु योधयेत्
प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक् परीक्षयेत् ।चेष्टाश्चैव विजानीयादरीन् योधयतामपि
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा
उपजप्यानुपजपेद्बुध्येतैव तत्कृतम् ।युक्ते दैवे युध्येत जयप्रेप्सुरपेतभीः
साम्ना दानेन भेदेन समस्तैरथवा पृथक् ।विजेतुं प्रयतेतारीन्न युद्धेन कदाचन
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।पराजयश्च संग्रामे तस्माद्युद्धं विवर्ज्जयेत्
त्रयाणामप्युपायानां पूर्व्वोक्तानामसम्भवे ।तथा युध्येत संयत्तो विजयेत रिपून् यथा
*
जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्म्मिकान् ।प्रदद्यात् परिहारांश्च ख्यापयेदभयानि
सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम् ।स्थापयेत्तत्र तद्बश्यं कुर्य्याच्च समयक्रियाम्
प्रमाणानि कुर्व्वीत तेषां धर्म्म्यान् यथो-दितान् ।रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह
आदानमप्रियकरं दानञ्च प्रियकारकम् ।अभीप्सितानामर्थानां काले युक्तं प्रशस्यते
सर्व्वं कर्म्मेदमायत्तं विधाने दैवमानुषे ।तयोर्द्दैवमचिन्त्यन्तु मानुषे विद्यते क्रिया
सह वापि व्रजेद्युक्तः सन्धिं कृत्वा प्रयत्नतः ।मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम्
पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले ।मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात्
”आक्रन्दः पार्ष्णिग्राहस्य नियामको राजा ।“हिरण्यभूमिसम्प्राप्त्या पार्थिवो तथैधते ।यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्
*
धर्म्मज्ञञ्च कृतज्ञञ्च तुष्टप्रकृतिमेव ।अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते
प्राज्ञं कुलीनं शूरञ्च दक्षं दातारमेव ।कृतज्ञं धृतिमन्तञ्च कष्टमाहुररिं बुधाः
आर्य्यता पुरुषज्ञानं शौर्य्यं करुणवेदिता ।स्थौललक्ष्यञ्च सततमुदासीनगुणोदयः
”स्थौललक्ष्यं बहुप्रदत्वम् ।“क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।परित्यजेन्नृपो भूमिमात्मार्थमविचारयन्
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।आत्मानं सततं रक्षेद्दारैरपि धनैरपि
सह सर्व्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।संयुक्तांञ्च वियुक्तांश्च सर्व्वोपायान् सृजेद्बुधः
उपेतारमुपेयञ्च सर्व्वोपायांश्च कृत्स्नशः ।एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये
”उपेतारं आत्मानम् उपेयं प्राप्तव्यम्
*
“एवं सर्व्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः ।व्यायामाप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत्
तत्रात्मभूतैः कालज्ञैरहार्य्यैः परिचारकैः ।सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्व्विषापहेः
विषघ्नैरगदैश्चास्य सर्व्वद्रव्याणि योजयेत् ।विषघ्नानि रत्नानि नियतो धारयेत् सदा
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।वेशाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः
एवं प्रयत्नं कुर्व्वीत यानशय्यासनाशने ।स्नाने प्रसाधने चैव सर्व्वालङ्कारकेषु
भुक्तवात् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।विहृत्य तु यथाकालं पुनः कार्य्याणि चिन्तयेत्
अलङ्कृतश्च संपश्येदायुधीयं पुनर्ज्जनम् ।वाहनानि सर्व्वाणि शस्त्राण्याभरणानि
सन्ध्याञ्चोपास्य शृणुयादन्तर्व्वेश्मनि शस्त्रभृत् ।रहस्याख्यायिनाञ्चैव प्रणिधीनाञ्च चेष्टितम्
गत्वा कक्षान्तरं त्वन्यत् समनुज्ञाप्य तं जनम् ।प्रविशेद्भोजनार्थञ्च स्त्रीवृतोऽन्तःपुरं पुनः
तत्र भुक्त्वा पुनः किञ्चित्तूर्य्यघोषैः प्रहर्षितः ।संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः
एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।अस्वस्थः सर्व्वमेतत्तु भृत्येषु विनियोजयेत्
”इति मानवे अध्यायः
*
कालीकापुराणोक्तराजधर्म्मः ८५ ८६ अध्या-ययोः द्रष्टव्यः महाभारतोक्तराजधर्म्मः शान्ति-पर्व्वणि द्रष्टव्यः पद्मपुराणोक्तराजधर्म्मः स्वर्ग-खण्डे १३८ अध्याये द्रष्टव्यः
वाचस्पत्यम्
Sanskrit
राजधर्म्म
पु०
राज्ञो धर्म्मः राज्ञामवश्यकर्त्तव्ये प्रजापा-लनादौ कर्मणि तमधिकृत्य कृतो ग्रन्थः अण् भारत-शान्तिपर्वान्तर्गते व्यासप्रणीते ग्रन्थभेदे राजधर्माश्च तत्रमानवे अ० उक्ता दृश्याः
Capeller
German
राजधर्म
m.
Königsresidenz
°तस् = Abl.