| YouTube Channel

राजतं (rAjataM)

 
शब्दकल्पद्रुमः
Sanskrit
राजतं, त्रि, (रजतस्य विकारः रजत + “प्राणि-रजतादिभ्योऽञ् ।” १५४ इतिअञ् ।) रजतनिर्म्मितम् यथा, --“सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ।रजतस्य कथा वापि दर्शनं दानमेव वा
”इति मात्स्ये १७ अध्यायः
रजते, क्ली
(यथा, गो० रामायणे ४९ ।“तं तु सीता मृगं दृष्ट्वा वने काञ्चनसुप्रभम् ।हेमराजतचित्राभ्यां पार्श्वाभ्यां समलङ्कृतम्
”)