| YouTube Channel

राजगामि (rAjagAmi)

 
शब्दकल्पद्रुमः
Sanskrit
राजगामि, [न्] त्रि, (राजानं गच्छतीति गम्+ णिनिः ।) राजसम्बन्धि यथा, --“अनृतञ्च समुत्कर्षे राजगामि पैशुनम् ।गुरोश्चालीकनिर्ब्बन्धः समानि ब्रह्महत्यया
”इति मानवे ११ अध्यायः
“राजनि वा स्तेनादीनां परेषां मरणफलदोषा-भिधानम् ।” इति कुल्लूकभट्टः
अपि ।“अपुत्त्रस्य धनं पत्न्यभिगामि तदभावे मातृगामितदभावे भ्रातृगामि तदभावे भ्रातृपुत्त्रगामितदभावे सकुल्यगामि तदभावे बन्धुगामि तद-भावे शिष्यगामि तदभावे सहाध्यायिगामितदभावे ब्राह्मणधनवर्ज्जं राजगामि ।” इतिदायभागग्रन्थधृतविष्णुवचनम्