| YouTube Channel

राघृ (rAghR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
राघ्
मूलधातुः:
राघृ
धात्वर्थः:
सामर्थ्ये
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
राघते
धातुप्रदीपः
Sanskrit
राघृँ राघृ
मानकरूपान्तरम् - लाघृँ
लाघृ
मानकरूपान्तरम् - द्राघृँ
द्राघृ सामर्थ्ये
- राघते रराघे अरराघत् लाघते उल्लाघः ।।
क्षीरतरङ्गिणी
Sanskrit
राघृँ राघृ
मानकरूपान्तरम् - लाघृँ
लाघृ
मानकरूपान्तरम् - द्राघृँ
द्राघृ
मानकरूपान्तरम् - ध्राघृँ
ध्राघृ सामर्थ्ये
राघते, लाघते निष्ठायामनुपसर्गात् फुल्लक्षीब (8255) इत्युल्लाघः नीरूक्, [अन्यत्र] उल्लाघित इति स्यात् द्राघिमन्ये पेठुः 109-112
धातुवृत्तिः
Sanskrit
राघृँ राघृ
मानकरूपान्तरम् - लाघृँ
लाघृ (अर्थः) सामर्थ्ये
( राघते रराघे राघितेत्यादि रिराघिषते राराघ्यते राराघीति राराग्धिलङि आराराक् राघयति अरराघत् ) मृदित्त्वादुपाधाह्रस्वनिषेधः एवमितरयोरपि ( उल्लाघः ) "अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः'' इति क्ते उडभावस्तलोषश्च निपात्यते उल्लाघेतिवचनाद् अनुपसृष्टाच्च ( लाघितः प्रलाघित ) इति भवति द्राघृ आयामे आयामो दैर्घ्यक्रियेति कौशिकः कदर्थनमिति स्वामी घाघृ इति तवर्गचतुर्थादिमपि केचित्पठन्ति 111
कृदन्तरूपमाला
Sanskrit
1 {@“राघृ सामर्थ्ये”@} 2 राघकः-घिका, राघकः-घिका, रिराघिषकः-षिका, राराघकः-घिका
राघिता-त्री, राघयिता-त्री, रिराघिषिता-त्री, राराघिता-त्री
इत्यादिकानि समस्तान्यपि रूपाणि भौवादिकद्राखतिवत् 3 ज्ञेयानि।
अस्यात्मने- पदत्वात् राघमानः, राघिष्यमाणः, रिराघिषमाणः, रिराघिषिष्यमाणः इति शानचि रूपाणि बोध्यानि।
4 राघितः।
प्रासङ्गिक्यः
01
=>
(१३९३)
02
=>
(१-भ्वादिः-११२। अक। सेट्। आत्म।)
03
=>
(८७९)
04
=>
[[आ। ‘प्रवङ्घमानस्य तस्य सत्वरं विमङ्घनस्याधिकराघितात्मनः।’ धा। का। १। १६।]]