| YouTube Channel

रागषाडवः (rAgaSADavaH)

 
शब्दकल्पद्रुमः
Sanskrit
रागषाडवः,
पुं,
दाडिमद्राक्षायुक्तमुद्गयूषः अस्यगुणाः रुचिकारित्वम् लघुपाकित्वम् वात-पित्तकफाविरोधित्वञ्च इति राजवल्लभः
(यथा, सुश्रुते ४६ अध्याये कृतान्नवर्गे ।“ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः ।स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः ।रुचिष्यो लघुपाकश्च दोषाणामविरोधकृत्
”तथास्य गुणाः ।“लघवो वृंहणा वृष्याः हृद्या रोचनदीपनाः ।तृष्णामूर्च्छाभ्रमच्छर्द्दिश्रमघ्ना रागषाडवाः
”इति सुश्रुते सूत्रस्थाने ४६ अध्यायः
)