रागः (rAgaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishरागः [rāgḥ], [रञ्ज्-भावे घञ् नि˚ नलोपकुत्वे]
(a) Colouring, dyeing, tinging. (b) Colour, hue, dye
वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायीभवति चात्यन्तं रागः शुक्लपटे यथा ॥ 1.33.
Red colour, redness
अधरः किसलयरागः 1.21
8.15
16.46.
Red dye, red lac
रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार 3.3
5.11.
Love, passion, affection, amorous or sexual feeling
मलिने$पि रागपूर्णाम् 1.1 (where it means 'redness' also)
17.2
अथ भवन्तमन्तरेण कीदृशो$स्या दृष्टिरागः 2
see चक्षूराग also
चरणयुगलादिव हृदयमविशद्रागः 142.
Feeling, emotion, sympathy, interest.
Joy, pleasure.
Anger, wrath
निध्वनज्जवहारीभा भेजे रागरसात्तमः 19.34.
Loveliness, beauty.
A musical mode or order of sound
(there are six primary Rāgas
भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो मेघरागश्च रागाः षडिति कीर्तिताः Bharata
other writers give different names. Each rāga has six rāgiṇīs regarded as its consorts, and their union gives rise to several musical modes).
Musical harmony, melody
तवास्मि गीतरागेण हारिणा प्रसभं हृतः 1.5
अहो रागपरिवाहिणी गीतिः 5.
Regret, sorrow.
Greediness, envy
'रागस्तु मात्सर्ये लोहिता- दिषु' Medinī.
राजकामस्य मूढस्य रागोपहतचेतसः * 7.85. 54.
The quality called Rajas q. v.
Nasalization.
A process in the preparation of quicksilver.
A king, prince.
The sun.
The moon.
Inflammation.
Seasoning, condiment
* 4.Comp. -अङ्गी, -आढ्या Rubia Munjiṣṭa (Mar. मञ्जिष्ठा).-अशनिः a Buddha or Jina. -आत्मक impassioned
रजो रागात्मकं विद्धि 14.7. -आयातम्, -उद्रेकः excess of passion. -खाडव, -खाण्डव See रागषाडव
a kind of sweet rice preparation
रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते * 7. 61.8 (com. रागखाण्डवं गुडोदनं पर्पटिकेति वैदर्भाः).
चूर्णः Acasia Catechu or Khadira tree.
red lead.
lac.
red powder thrown by people over one another at the festival called holi.
the god of love. -छन्नः the god of love. -द्रव्यम् a colouring substance, a paint, dye. -दः cristal. -दालिः a kind of pulse (मसूर). -दृश् a ruby. -पट्टः a kind of precious stone. (-ट्टी) the chinese rose. -पुष्पः, -प्रसवः the red globe-amaranth.-बन्धः manifestation of feeling, interest created by a proper representation (of various emotions)
भावो भावं नुदति विषयाद्रागबन्धः स एव 2.9. -युज् a ruby.-रज्जुः the god of love. -लता of Rati, wife of Cupid.-लेखा a streak or mark of paint. -वर्धनः (in music) a kind of measure. -वृन्तः the god of love. -षाडवः a kind of sweetmeat.
सूत्रम् any coloured thread.
a silk-thread.
the string of a balance.
Apte 1890
Englishरागः [रंज्-भावे घञ् नि° नलोपकुत्वे] 1 (a) Colouring, dyeing, tinging. (b) Colour, hue, dye
Pt. 1. 33.
2 Red colour, redness
अधरः किसलयरागः Ś. 1. 21.
3 Red dye, red lac
रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार Ku. 3. 30, 5. 11.
4 Love, passion, affection, amorous or sexual feeling
मलिनेपि रागपूर्णां Bv. 1. 100 (where it means ‘redness’ also)
अथ भवंतमंतरेण कीदृशोऽस्या दृष्टिरागः Ś. 2
see चक्षूराग also
चरणयुगलादिव हृदयमविशद्रागः K. 142.
5 Feeling, emotion, sympathy, interest.
6 Joy, pleasure.
7 Anger, wrath.
8 Loveliness, beauty.
9 A musical mode or order of sound
(there are six primary Rāgas
भैरवः कौशिकश्चैव हिंदोलो दीपकस्तथा । श्रीरागो मेघरागश्च रागाः षडिति कीर्तिताः Bharata
other writers give different names. Each rāga has six rāginīs regarded as its consorts, and their union gives rise to several musical modes).
10 Musical harmony, melody
तवास्मि गीतरागेण हारिणा प्रसभं हृतः Ś. 1. 5
अहो रागपरिवाहिणी गीतिः Ś. 5.
11 Regret, sorrow.
12 Greediness, envy.
13 The quality called Rajas q. v.
14 Nasalization.
15 A process in the preparation of quicksilver.
16 A king, prince.
17 The sun.
18 The moon.
Comp.
अशनिः a Buddha or Jina.
आत्मक a. impassioned.
आयातं,
उद्रेकः excess of passion.
खाडव, खांडव see रागषाडव.
चूर्णः {1} Acasia Catechu or Khadira tree. {2} red lead. {3} lac. {4} red powder thrown by people over one another at the festival called holi. {5} the god of love.
छन्नः the god of love.
द्रव्यं a colouring substance, a paint, dye.
दा crystal.
दालिः a kind of pulse (मसूर).
पट्टः a kind of precious stone.
पुष्पः,
प्रसवः the red globe-amaranth.
बंधः manifestation of feeling, interest created by a proper representation (of various emotions)
भावो भावं नुदति विषयाद्रागबंधः स एव M. 2. 9.
युज् m. a ruby.
रज्जुः the god of love.
लता N. of Rati, wife of Cupid.
लेखा a streak or mark of paint.
वृंतः the god of love.
षाडवः a kind of sweetmeat.
सूत्रं {1} any coloured thread. {2} a silk-thread. {3} the string of a balance.
Apte Hindi
Hindiरागः
- "रञ्ज् भावे घञ्, नलोपकुत्वे"
"वर्ण, रंग, रंजक वस्तु"
रागः
- -
"लाल रङ्ग, लालिमा"
रागः
- -
"लाल रङ्ग, लाल रङ्ग की लाख, महावर"
रागः
- -
"प्रेम, प्रणयोन्माद, स्नेह, प्रीति विषयक या काम-भावना"
रागः
- -
"भावना, संवेग, सहानुभूति, हित"
रागः
- -
"हर्ष, आनन्द"
रागः
- -
क्रोध रोष
रागः
- -
"प्रियता, सौन्दर्य"
रागः
- -
संगीत के राग या स्वरग्राम
रागः
- -
"संगीत की संगति, संगीतमाधुर्य"
रागः
- -
"खेद, शोक"
रागः
- -
"लालच, ईर्ष्या"
रागः
- रञ्ज्+घञ्
प्रज्वलन
रागः
- रञ्ज्+घञ्
मिर्चमसाला
रागः
- रञ्ज्+घञ्
"प्रेम, आवेश, यौनभावना"
रागः
- रञ्ज्+घञ्
लालिमा
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit प्रेम, प्रीतिः, अभिलाषः, स्नेहः, रागः, कामः, अनङ्गरागः, शृङ्गारः, शृंगारभावः, रति, अनुरागः
प्रणयः, भावः, प्रेमबन्धः
स्त्रियाः पुरुषस्य च प्राणिनां मध्ये पारस्परिकस्नेहः यः रूपस्य गुणस्य सान्निध्यस्य कामवासनायाः वा कारणात् भवति।
"हीरराँझा इत्येतयोः, शिरीफरहाद इत्येतयोः, ढोलामारू इत्येतयोः प्रेम अमरं जातम्।"
रागः
सङ्गीते स्वराणां विशेषेण प्रकारेण तथा च क्रमेण कृतया रचनया भूतः गीतस्य आलेखः।
"भारतीयसङ्गीते षड् रागाः सन्ति इति मन्यते।"
रागः
सः पदार्थः येन वस्तु रज्यते।
"मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।"
Tamil
Tamilராக3: : ராகம், அழகு, கோபம், இன்பம், சந்தோஷம், காதல், பிரியம், சிவப்பு நிறம்.
अमरकोशः
SanskritWord: रागः
Root: रागः
Gender: undefined
Number: undefined
Meaning(s):
⇒ soup
⇒ milk
⇒ aroma
⇒ broth
⇒ resin
⇒ serum
⇒ elixir
⇒ sentiment
⇒ green onion
⇒ taste or character of a work
⇒ myna tree [Vangueria Spinosa - Bot.]
Shloka(s):
3|3|228|1 ► शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः। (नानार्थवर्गः)
Synonym(s):
➠ 3|3|228|1 ⇢ रसः (रस) (पुं) ⇒ soup, milk, aroma, broth, resin, serum, elixir, sentiment, green onion, taste or character of a work, myna tree [Vangueria Spinosa - Bot.]
Related word(s):
जातिः ➡ मानसिकभावः
शब्दकल्पद्रुमः
Sanskritरागः, (रञ्जनमिति रज्यतेऽनेनेति वा । रञ्ज+ भावे करणे वा घञ् । “घञि च भाव-करणयोः ।” ६ । ४ । २७ । इति नलोपः ।)मात्स्यर्य्यम् । लोहितादिः । (यथा, कुमारे ।३ । ३० ।“रागेण बालारुणकोमलेनचूतप्रबालोष्ठमलञ्चकार ॥
”)क्लेशादिः । अनुरागः । (यथा, आर्य्यासप्त-शत्याम् । २७० ।“तानवमेत्य छिन्नः परोपहितरागमदन-सङ्घटितः ।कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥
”)गान्धारादिः । नृपः । इति मेदिनी ॥
चन्द्रः ॥
सूर्य्यः । इति शब्दरत्नावली ॥
लाक्षादिः ।(यथा, कुमारे । ४ । १९ ।“तमिमं कुरु दक्षिणेतरंचरणं निर्म्मितरागमेहि मे ॥
”)रक्तिमत्विट् । रञ्जनम् । इति नानार्थरत्न-माला ॥
प्रीतिः । यथा, --“वीतरागभयक्रोधस्थितधीर्म्मुनिरुच्यते ॥
”इति भगवद्गीताश्लोकटीकायां श्रीधरस्वामी ॥
तस्य लक्षणं यथा, --“सुखमप्यधिकं चित्ते सुखत्वेनैव रज्यते ।यतस्तु प्रणयोत्कर्षात् स राग इति कीर्त्त्यते ॥
”इत्युज्ज्वलनीलमणिः ॥
* ॥
(अभिमतविषयाभिलाषः । स तु पञ्चक्लशान्त-र्गतः । यथा, --“अविद्यास्मितारागद्वेशाभिनिवेशाः पञ्च-क्लेशाः । रागोऽभिमतविषयाभिलाषः ।” इतिशिशुपालवधटीकायां मल्लिनाथः । ४ । ५६ ॥
“सुखानुशयी रागः ।” इति पतञ्जलिः । गान-शास्त्रीयरागा यथा । भरतमते हनूमन्मतेच रागः षड्विधः । तेषां नामानि यथा ।भैरवः १ कौशिकः २ हिन्दोलः ३ दीपकः ४श्रीरागः ५ मेघः ६ । हनूमद्भरतयोर्म्मते प्रत्येक-मेषां पञ्च रागिण्यः । सोमेश्वरकल्लिनाथयोर्म्मतेप्रत्येकमेतेषां षट् रागिण्यः । एतेषां प्रत्येक-मष्टौ पुत्त्राः एकैकपुत्त्रभार्य्या च । कल्लिनाथ-सोमेश्वरमते षड्रागा यथा । श्रीरागः १वसन्तः २ पञ्चमः ३ भैरवः ४ मेघः ५ नट-नारायणः ६ । इति नानासंगीतशास्त्रम् ॥
* ॥
अथ रागस्य व्युत्पत्तिसंख्यास्थानानि ।“यैस्तु चेतांसि रज्यन्ते जगत्त्रितयवर्त्तिनाम् ।ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः ॥
गोपीभिर्गीतमारब्धमेकैकं कृष्णसन्निधौ ।तेन जातानि रागाणां सहस्राणि तु षोडश ॥
रागेषु तेषु षट्त्रिंशद्रागा जगति विश्रुताः ।कालक्रमेण तत्रापि ह्नास एव तु दृश्यते ।केचिद्वदन्ति ते रागाः सर्व्वे सन्तीति निश्चितम् ॥
मेरोरुत्तरतः पूर्व्वे पश्चिमे दक्षिणे तथा ।समुद्रकण्ठे ये देशास्तत्रामीषां प्रचारणा ॥
”तथा च । अङ्गवङ्गकलिङ्गतेलङ्गभूलिङ्गहावङ्ग-सुरङ्गयूपलङ्गखेलाङ्गसौवीरकीरकाश्मीरनाभी-रनाहीरसिन्धुजालन्धरमगमगधनिषधमलयही-हयगजाह्वयमालवजालवमरुमूरुचोलोत्कलकु-न्तलसिंहलहरिकेलकेरल-कोशलमल्लिवालमल्ल-भल्लसौविदल्लवातकिञ्जातगुजूरातगुञ्जरकालञ्जर-गौडद्रविडौड्रान्तर्व्वेदिकाञ्चीपाञ्चालसौराष्ट्रश-वरलौहावरखशकीकशवरूपकामरूपहरिगर्भ-विदर्भदुर्मटवाटकीकटदेवेङ्गनटङ्गननाटभोटक-वाटकरहाटकर्णाटकुन्तिकावन्तिककनकाब्ज-कान्यकुब्जभोजकाम्बोजतोजतुखारविहारवली-हारवाजगेहविदेहवाह्लीकचञ्चरीकत्रिगर्त्तान-र्त्तादिदेशेषु रागाः प्रचरन्तीति ।“यस्य श्रवणमात्रेण रञ्जन्ते सकलाः प्रजाः ।सर्व्वाघरञ्जनाद्धेतोस्तेन राग इति स्मृतः ॥
” * ॥
अथ रागाः ।“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः ।श्रीरागश्च ततः पश्चाद्वसन्तस्तदनन्तरम् ॥
हिन्दोलश्चाथ कर्णाट एते रागाः षडेव तु । ६ ।षट्त्रिंशद्रागिणी तत्र क्रमशः कथिता मया ॥
धानसी मालसी चैव रामकिरी च सिन्धुडा ।आशावरी भैरवी च मालवस्य प्रिया इमाः ॥
६वेलावली च पुरवी कानडा माधवी तथा ।कोडा केदारिका चापि मल्लारदयिता इमाः ॥
६गान्धारी शुभगा चैव गौरी कौमारिका तथा ।वेलोयारी च वैरागी श्रीरागस्य प्रिया इमाः ॥
६तुडी च पञ्चमी चैव ललिता पठमञ्जरी ।गुज्जरी च विभाषा च वसन्तस्य प्रिया इमाः ॥
६मायूरी दीपिका चैव देशकारी च पाहिडा ।वराडी भोरहाटी च हिन्दोलस्य प्रियाइमाः ॥
६ ॥
नाटिका चाथ भूपाली रामकेली गडा तथा ।कामोदा चापि कल्याणी कर्णाटस्य प्रियाइमाः ॥
६ ॥
३६ ॥
* ॥
अथ कालनियमः ।“विभाषा ललिता चैव कामोदा पठमञ्जरी ।रामकीरी रामकेली वेलोयारी च गुज्जरी ॥
देशकारी च शुभगा पञ्चमी च गडा तुडी ।भैरवी चाथ कौमारी रागिण्यो दश पञ्च च ।एताः पूर्व्वाह्णकाले तु गीयन्ते गायनोत्तमैः ॥
वराडी मायूरो कोडा वैरागी चाथ धानसी ।वेलावली मोरहाटी सप्तैता रागयोषितः ।गेया मध्याह्नकाले तु यथा भारतभाषितम् ॥
गान्धारी दीपिका चैव कल्याणी पुरवी तथा ।कानडा शारवी चैव गौरी केदारपाहिडा ॥
मायूरी मालसी नाटी भूपाली सिन्धुडा तथा ।सायाह्ने ताश्च रागिण्यः प्रगायन्ति चतुर्द्दश ॥
पुरुषा वस्तुभूषाढ्या रागास्ते मालवादयः ।प्रदोषे चापराह्णे च रजन्यां गानगोचराः ॥
दशदण्डात् परं रात्रौ सर्व्वेषां गानमीरितम् ।मेघमल्लाररागस्य गानं वर्षासु सर्व्वदा ॥
श्रीपञ्चम्यां समारभ्य यावत् जन्मोत्सवं हरेः ।तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः ॥
शक्रोत्थानं समारभ्य यावद्दुर्गामहोत्सवम् ।गीयते तद्बुधैर्नित्यं मालसी सा मनोहरा ॥
सर्व्वेषामिह रागाणां रागिणीनाञ्च सर्व्वशः ।रङ्गभूमौ नृपाज्ञायां कालदोषो न विद्यते ॥
रागञ्चालापयेदादौ तत्पत्न्यस्तदनन्तरम् ।नान्यपत्नी प्रगातव्या नृपाज्ञायां न दूषणम् ॥
रागाः षडथ रागिण्यः षट्त्रिंशच्चारु-विग्रहाः ।आगता ब्रह्मसदनात् ब्रह्माणं समुपासते ॥
” * ॥
अथ ध्यानम् ।“नितम्बिनीचुम्बितवक्त्रपद्मःशुकद्युतिः कुण्डलवान् प्रमत्तः ।सङ्गीतशालां प्रविशन् प्रदोषेमालाधरो मालवरागराजः ॥
१ ॥
नीलोत्पलं कर्णयुगे वहन्तीश्यामा सुकेशी च सुमध्यभागा ।ईषत्सहासाम्बुजरम्यवक्त्रासा धानसी पद्मसुचारुनेत्रा ॥
१ ॥
करे युता चाम्बुजयुग्मरम्याइतस्ततश्चारु विलोकयन्ती ।कण्ठस्फरन्मौक्तिकरत्नहारासा मालसी संकथिता विचित्रा ॥
२ ॥
प्रतप्तचामीकरचारुवक्त्राकर्णावतंसं कमलं वहन्ती ।पुष्पं धनुः पुष्पशरैर्दधानाचन्द्रानना रामकिरी प्रदिष्टा ॥
३ ॥
महेन्द्रनीलद्युतिरम्बुजाक्षीप्रवादयन्ती कपिलाशयन्त्रम् ।विचित्ररत्नाभरणा सुकेशीसा सिन्धुडा कान्तसमीपसंस्था ॥
४ ॥
जवाप्रसूनद्युतिविम्बवक्त्रासकञ्चुपद्मं करयोर्दधाना ।क्षौमांशुकाच्छादितगात्रयष्टि-राशावरी रङ्गकिला विदग्धा ॥
५ ॥
सरोवरस्था स्फटिकस्य मन्दिरेसरोरुहैः शङ्करमर्च्चयन्ती ।तालप्रयोगप्रतिरङ्गगीतै-र्गौरीतनुर्भैरविका सतीयम् ॥
” ६ ॥
* ॥
अथ मल्लारः ।“विहारशीलोऽतिसुकान्तदेहःकान्ताप्रियो धार्म्मिकशीलयुक्तः ।कामातुरः पिङ्गलनेत्रयुग्मोमल्लाररागः प्रियकृत् सुवेशः ॥
१ ॥
सङ्केतितोत्फुल्ललतानिकुञ्जेकृतस्थितिः कान्तसमागमाय ।वेलावली चम्पकमौलिनी साबाला विचित्राभरणा निरुक्ता ॥
१ ॥
रहःसु कान्तप्रियमाणपत्रंरम्यं वहन्ती कुचकुम्भयुग्मे ।दूर्व्वादलश्यामतनुः सकामापुरातनैः सा पुरवी निरुक्ता ॥
२ ॥
अशोकवृक्षस्य तले निषण्णावियोगिनी वास्पकणाञ्चिताङ्गी ।विभूषिताङ्गी जटिलेव बालासा कानडा हेमलतेव तन्वी ॥
३ ॥
संगृथ्य संगृथ्य गले दधानाप्रसूनमाला दयितेन बाला ।गौरी स्वकान्ताननचुम्बितास्यासा सुन्दरी माधविका निकुञ्जे ॥
४ ॥
सुकच्छपीं वादयति स्वभर्त्तु-र्गानार्थमभ्यस्यति सम्मुखेन ।सदैव ताला विहिता च मालाकोडा कला तानवती मता सा ॥
५ ॥
स्नात्वा समुत्तीर्णवती सुदेहाकेशप्रणिष्यन्दितवारिबिन्दुः ।निष्पीडयन्ती तिमिरांशुकान्तंकेदारिका रक्तपरोधरश्रीः ॥
” ६ ॥
* ॥
अथ श्रीरागः ।“लीलावतारेण वनान्तराणिचिन्वन् प्रसूनानि बधूसहायः ।विलासवेशो ह्यतिदिव्यमूर्त्तिःश्रीराग एष प्रथितः पृथिव्याम् ॥
१ ॥
सन्ध्यासुकाले गृहमध्यदेशेप्रवादयन्ती ह पिनाकयन्त्रम् ।धाराधराधातुविचित्रिताङ्गीगान्धारिका गन्धस्रजं निधत्ते ॥
१ ॥
रसनया सुविचारकौतुकंविदधती कविकोविदकौतुकम् ।सुकवितामृतभावनतत्पराभगवती सुभगा समुदाहृता ॥
२ ॥
पुष्पोद्याने सार्द्धमालीकलापैःक्रीडन्त्येवं कोकिलाकाकलीषु ।रामा श्यामा सद्गुणानाञ्च सीमागौरी गौरी गौरवालोकदिष्टा ॥
३ ॥
अट्टालिकायां स्फुटकौमुदीभिःप्रकाशितायां रजनीविहारम् ।अह्नाय कान्तेन समं वसन्तीकौमारिका कामकला वहन्ती ॥
४ ॥
गौरीपादाम्भोजमभ्यर्च्चयन्तीगन्धोद्धूतं गन्धमाल्यं दधाना ।नानारत्नोपायनैर्भक्तिभावै-र्वेलोयारी कथ्यते बालिकेयम् ॥
५ ॥
उल्लासयन्ती धम्मिल्ले रहःस्थान् प्राणबन्धुना ।मालतीकुसुमस्रग्भिर्व्वैरागी रागिनी स्मृता ॥
” ६अथ वसन्तः ।“चूताङ्कुरेणैव कृतावतंसोविघूर्णमानारुणनेत्रपद्मः ।पीताम्बरः काञ्चनचारुदेहोवसन्तरागो युवतिप्रियश्च ॥
१ ॥
सुनृत्यमानातिसुशीलयुक्तामुक्तालताकल्पितहारयष्टिः ।चूताङ्कुरं पाणियुगे वहन्तीजवारुणाङ्गी तुडिकेरितेयम् ॥
१ ॥
संगीतगोष्ठीषु गरिष्ठभावंसमाश्रिता गायनसम्प्रदायैः ।खर्व्वाङ्गिनी नूपुरपादपद्मासा पञ्चमी पञ्चमवेदवेत्त्री ॥
२ ॥
उरसि केशचयस्य सुभारंविदधती शयनोत्थितचारुवेशम् ।विलुलितालकवल्लिकृशाङ्गीभासुरा ललिता कथिता बुधैः ॥
३ ॥
सखीकलापैः परिहास्यमानावियोगिनी कान्तवियोगदेहा ।पीनस्तनी चैव धराप्रसुप्ताश्यामा सुकेशी पठमञ्जरीयम् ॥
४ ॥
कर्णोत्पलालम्बिमधुव्रतालीशृणोति सा मञ्जुलकूजितानि ।कान्तान्तिकं गन्तुमनाः प्रदोषेसा गुज्जरी वेशकलोचिताङ्गी ॥
५ ॥
अध्यापयन्ती निजशिष्यवृन्दंसङ्गीतशास्त्राणि विवेचनाभिः ।मनोहरा हारलताभिरामासमस्तभाषाकुशला विशेषा ॥
” ६ ॥
* ॥
अथ हिन्दोलः ।“हासाभिलासेन पतन् पृथिव्यांउत्थापितस्तत्क्षणमालिवृन्दैः ।उल्लोलसङ्गीतरसैर्विदग्धोहिन्दोलरागः कथितो रसज्ञैः ॥
१ ॥
मयूरकेकाश्रवणोल्लसन्तीमयूरिकानृत्यततं किरन्ती ।मयूरकान्तीव सितिं दधानामायूरिका संकथिता गुणज्ञैः ॥
१ ॥
प्रदोषकाले गृहसंप्रविष्टाप्रदीपहस्तारुणगात्रवस्त्रा ।सीमन्तसिन्दूरविराजमानासुरक्तमाल्या किल दीपिकेयम् ॥
२ ॥
सार्द्धं सखीभिर्विजने वसन्तीविचित्रवक्षोजनितम्बसङ्गा ।निरीक्ष्यमाणाननदर्पणा यासा देशकारी कथिता गुणज्ञैः ॥
३ ॥
भर्त्तुर्दधाना चरणारविन्दंनिषेधयन्ती परदेशयानम् ।प्रकामदाम्पत्यसुखे निमग्नासा पाहिडा संकथिता कवीन्द्रैः ॥
४ ॥
कर्णे दधाना सुरपुष्पयुग्मंस्फुरत्सुवक्षोजमनोहराङ्गी ।स्मेरानना चारुविलोलनेत्रावराङ्गनेयं कथिता वडारी ॥
५ ॥
उत्पन्नमात्रे प्रथमापराधेमानं पुनः कर्त्तमनाश्चीरेण ।ऋजुस्वभावान्नियतं रुदन्तीसा मोरहाटी हठकेलिरुष्टा ॥
” ६ ॥
* ॥
अथ कर्णाटः ।“कृपाणपाणिस्तुरगाधिरूढोमयूरकण्ठातिसुकण्ठकान्तिः ।स्फुरत्सितस्निग्धरसः प्रशान्तःकर्णाटरागो हरितालवर्णः ॥
१ ॥
चिरं नटन्ती शुभरङ्गमध्येसंप्रार्थयन्ती नटिनं वसन्तम् ।सुगीततालेषु कृतावधानानटी सुशाटीपरिधानदेहा ॥
१ ॥
स्वनायकं पुष्पलताधिरूढाहसन्मुखी सर्व्वमुदं वहन्ती ।स्वनानि शश्वद्वितनोति मुग्धाभूपालिका सा स्खलदुत्तरीया ॥
२ ॥
अध्यापयन्ती शुकसारसारोःश्रीराम रामेति सुवेशलक्ष्मीः ।वामस्तनार्द्धस्खलितांशुकश्रीःश्रीरामकेली कथिता कवीन्द्रैः ॥
३ ॥
विशेषवैदग्ध्यवती समस्तान्कलाविलासेन विमोहयन्ती ।बृहन्नितम्बा परिपुष्टदेहावडा प्रलम्बस्तनभारभव्या ॥
४ ॥
भर्त्तुः समं पाथसि सन्तरन्तीपयोविहारेण सरोरुहाणि ।विचिन्वती सौरभमोदमानाकामोदरागिण्युदिता गुणज्ञैः ॥
५ ॥
व्याधूता नटनृत्यपरिश्रमेणबाला लीलाभिः सुदती कृतादरा ।नटीनां कल्याणी कलयति मत्तहस्तीएणप्रस्थानं मुखरिता किङ्किणीकलापम् ॥
” ६ ॥
अथ रागरागिणीनां भावनिरूपणम् ।“मालवः श्रीश्च हिन्दोलो मल्लारस्तदनन्तरम् ।गायन्ति गायका धीर सानन्देन चतुष्टयम् ॥
वसन्तो रागः कर्णाटो द्वौ वीरौ भवतः क्रमात् ॥
धानसी मालसी चैव भैरवी माधवी तथा ।सुभगा पञ्चमी नाटी वेलोयारी च गुज्जरी ॥
कामोदा चापि कल्याणी कोडा केदारिकातुडी ।कौमारी मायूरी चैव देशकारी च सिन्धुडा ॥
रामकेली च भूपाली रागिण्यश्चेति विंशतिः ।आनन्दांशा इति प्रोक्ता गीयन्ते गानकोविदैः ॥
पुरवी कानडा गौरी रामकिरी च दीपिका ।आशावरी विभाषा च वडारी च गडा तथा ।एताश्च नव रागिण्यो वीरांशे गानमुत्तमम् ॥
वेलावली च गान्धारी ललिता पठमञ्जरी ।वैरागी रागिणी चापि मोरहाटी च पाहिडा ।करुणांशा विजानीयात् सप्तैता रागयोषितः ॥
रागेण रसभागेन षट्त्रिंशद्रागिणीषु च ।करुणानन्दवीरेषु ज्ञापनार्थं मतत्रयम् ॥
”इति संगीतदामोदरे शिवनारदसंवादे १ । ३अध्यायौ ॥
(तथा च संगीतदर्पणे ।अथ रागाणामुद्भवं दर्शयति ।“शिवशक्तिसमायोगाद्रागाणां सम्भवो भवेत् ।पञ्चास्यात् पञ्च रागाः स्युः षष्ठस्तु गिरिजा-मुखात् ॥
सद्योवक्त्रात्तु श्रीरागो वामदेवाद् वसन्तकः ।अघोराद् भैरवोऽभूत् तत्पुरुषात् पञ्चमो-ऽभवत् ॥
ईशानाख्यान्मेघरागो नाट्यारम्भे शिवादभूत् ।गिरिजाया मुखाल्लास्ये नट्टनारायणोऽभवत् ॥
”अथ रागवेला ।“मधुमाधवी च देशाख्या भूपाली भैरवीतथा ।वेलावली च मल्लारी वल्लारी सोमगुर्ज्जरी ॥
धनाश्रीर्मालवश्रीश्च मेघरागश्च पञ्चमः ।देशकारी भैरवश्च ललिता च वसन्तकः ॥
एते रागाः प्रगीयन्ते प्रातरारभ्य नित्यशः ।गुर्ज्जरी कौशिकश्चैव सावेरी पठमञ्जरी ॥
रेवा गुणकिरी चैव भैरवी रामकिर्य्यपि ।सौराटी च तथा गेया प्रथमप्रहरोत्तरम् ॥
वैराटी तोडिका चैव कामोदी च कुडायिका ।गान्धारी नागशब्दी च तथा देशी विशेषतः ।शङ्कराभरणो गेयो द्बितीयप्रहरात् परम् ॥
श्रीरागो मालवाख्यश्च गौरी त्रिवणसंज्ञिका ।नट्टकल्याणसंज्ञश्च सारङ्गनट्टकौ तथा ॥
सर्व्वे नाटाश्च केदारी कर्णाट्याभीरिका तथा ।वडहंसी पहाढी च तृतीयप्रहरात् परम् ।अर्द्धरात्रावधि ज्ञेया एते रागाः सुखप्रदाः ॥
यथोक्तकाल एवैते गेयाः पूर्व्वविधानतः ।राजाज्ञया सदा गेया न तु कालं विचारयेत् ॥
”इति रागवेला ।अथ ऋतवः ।“श्रीरागो रागिणीयुक्तः शिशिरे गीयतेबुधैः ।वसन्तः ससहायस्तु वसन्तर्त्तौ प्रगीयते ॥
भैरवः ससहायस्तु ऋतौ ग्रीष्मे प्रगीयते ।पञ्चमस्तु तथा गेयो रागिण्या सह शारदे ॥
मेघरागो रागिणीभिर्युक्तो वर्षासु गीयते ।नट्टनारायणो रागो रागिण्या सह हेमके ॥
यथेच्छया वा गातव्याः सर्व्वर्त्तुषु सुखप्रदाः ॥
”इति रायाणां ऋतुनिर्णयः । इति सोमेश्वर-मतम् ॥
* ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
