| YouTube Channel

राककः-किका (rAkakaH-kikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रक आस्वादने”@} 2 ‘-- आसादने’ इति दुर्गसम्मतपाठ इति क्षीरतरङ्गिणीतो ज्ञायते।
3 क्षीरस्वामी ‘रग--’ इति पठति।
‘रघ--’ इति केचित् पठन्ति।
राककः-किका, रिराकयिषकः-षिका
राकयिता-त्री, रिराकयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककाणयतिवत् 4 ज्ञेयानि।
5 राकितः।
प्रासङ्गिक्यः
01
=>
(१३५८)
02
=>
(१०-चुरादिः-१७३७। सक। सेट्। उभ।)
03
=>
[[१। क्षीरस्वामी ‘रग--’ इति पठित्वा “अन्यत्रार्थे घटादिः--रगे शङ्कायाम्… रगयति।” इत्याह। तेन घटादिषु (भ्वादौ) ‘रगे शङ्कायाम्’ इति यत्सर्वैः पठ्यते, तस्यार्थविशेषप्रयुक्तं घटादिपाठं मन्वानः, चौरादिकत्वमप्यङ्गीकरोतीति ज्ञायते।]]
04
=>
(१५९)
05
=>
[[आ। ‘कृष्णोऽपि नाकिजनराकितलाग्यवीर्यः।।’ धा। का। ३-४१।]]