| YouTube Channel

रहितं (rahitaM)

 
शब्दकल्पद्रुमः
Sanskrit
रहितं, त्रि, (रह + क्तः ।) वर्ज्जितम् यथा, --“जातसूतकमादौ अन्ते मृतसूतकम् ।गुरोस्तद्रहितं कृत्वा जपकर्म्म समाचरेत्
”इति तन्त्रसारः
अपि ।“दिग्घ्नोऽब्दश्चाश्विरहितो जन्मर्क्षाढ्यो भशे-षितः ।भं भवेदब्दवेशेऽत्र योगेऽप्येवं विचिन्तयेत्
”इति जातकपद्धतिः