रह (raha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams 1872
EnglishKridanta Forms
Sanskritरह (र꣡ह꣡ त्यागे - चुरादिः - सेट्)
ल्युट् = रहणम्
अनीयर् = रहणीयः - रहणीया
ण्वुल् = रहकः - रहिका
तुमुँन् = रहयितुम्
तव्य = रहयितव्यः - रहयितव्या
तृच् = रहयिता - रहयित्री
क्त्वा = रहयित्वा
ल्यप् = प्ररहय्य
क्तवतुँ = रहितवान् - रहितवती
क्त = रहितः - रहिता
शतृँ = रहयन् - रहयन्ती
शानच् = रहयमाणः - रहयमाणा
धातुपाठः (Krishnacharya)
Sanskrit रह्
रह
त्यागे
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
रहति
रह्
रह
त्यागे
चुरादिः
सकर्मकः
सेट्
उभयपदी
रहयति-ते
ज्ञपादिः
धातुप्रदीपः
Sanskritरहँ रह त्यागे
- रहति । रराह । रहः । रहयतीति चुरादिपाठात् ।। 732 ।।
रह त्यागे
- रहयति अररहत् विरहः 303
शब्दकल्पद्रुमः
Sanskritरहः, [स्] (रमन्तेऽस्मिन् । रह + “देशे हच ।” उणा० ४ । २१४ । इति असुन्प्रत्ययः ।हकारश्चान्तादेशः । “रह त्यागे अस्मादसुनिरह इति यातुप्रदीपः ।” इत्युज्ज्वलः ।)निर्ज्जनम् । तत्पर्य्यायः । विविक्तः २ विजनः ३छन्नः ४ निःशलाकः ५ रहः ६ उपांशुः ७इत्यमरः ॥
(यथा, रघौ । ३ । ३ ।“तदाननं मृत्सुरभि क्षितीश्वरःरहस्युपाघ्राय न तृप्तिमाययौ ॥
”)तत्त्वम् । रतिः । गुह्यम् । इति मेदिनी ॥
वाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritरहँ रह त्यागे
- रहति अरहीत् विरहः राहुः असुन् (दश0 उ0 949) रहः चुरादौ (10246) रहयति 711
रह त्यागे
- रहयति विरहः (1483) रहति, हेतौ राहयति 301
धातुवृत्तिः
Sanskritरहँ रह (अर्थः) त्यागे
(रहतीत्यादि महतिवत् रहः रहसी) असुन्र्पत्ययः (विरहीकरोति) "अभूततद्भावे कुभ्वस्तियोगे सम्पद्यकर्त्तरि'' "अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च'' इति च्विप्रत्ययः सलोपश्च "अस्य च्वौ'' इति ईत्वम् रहसि भवं (रहस्यम्) दिगादित्वाद्यत् (अरहसम् अवरहसम् तप्तरहसम्) तप्तरहसम्) "अन्ववतप्ताद्रहसः''इति अन्वादिपूर्वाद्रहःशब्दान्तात् समासमात्रादच् समासान्तः (राहुः) "हसिनरहिजीनी'' इत्यादिना उण् रह त्याग इति कथादौ मित्प्रकरणे च चुरादौ 717
रहँ रह (अर्थः) त्यागे
इतीह केचित्पठन्ति ( रहयति ) कथादावयं पठिष्यते, तत एव सिद्धेरिह पाठो व्यर्थ इति स्वामी तन्न्, चहिवत्कथादेरग्लोपित्वादित्वदीर्घयोरभावादररहदिति भवति, इह पाठादरीरहदिति, तथा ( अरहि अराहि रहंरहं राहंराहम् ) इति मित्त्वात् "चिण्णमुलोः'' इति दीर्घविकल्पोऽस्य भवतीति प्रयोजनसद्भावात् रहतीति शपि रंहतीति तत्रैव रहि गतावित्यस्य 93
रह (अर्थः) त्यागे
( रहयति अररहत् ) रहतीति शपि गतौ तु रंहति 316
कृदन्तरूपमाला
Sanskrit1 {@“रह त्यागे”@} 2 ‘रहयेत् रहति त्यागे, गतौ रंहेस्तु रंहति।’ 3 इति देवः।
राहकः-हिका, राहकः-हिका, रिरहिषकः-षिका, रारहकः-हिका
रहिता-त्री।
रहयिता-त्री, रिरहिषिता-त्री, रारहिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचहतिवत् 4 बोध्यानि, 5 रहः विरहः- 6 विराही, 7 रहस्यम्, अनुरहसम्-अवरहसम्, तप्तरहसम्, 8 इति ञुण्प्रत्यये रूपमेवम्।]] राहुः, इमानि रूपाणि 9 अस्य धातोः विशेषेण भवन्ति।
01 (१३८६)
02 (१-भ्वादिः-७३१। सक। सेट्। पर।)
03 (श्लो। १९५)
04 (५१४)
05 [[३। पचाद्यचि रूपमेवम्।]]
06 [[४। ‘सुप्यजातौ --’ (३-२-७८) इनि णिनिप्रत्यये रूपमेवम्। विरही इति तु विरहोऽ- स्यास्तीति मत्वर्थीय इनिप्रत्यये रूपम्।]]
07 [[५। औणादिके (९-४९) असुन्प्रत्यये रहः इति भवति। रहसि भवम् = रहस्यम् इत्यत्र दिगादित्वात् (४-३-५४) यत्प्रत्यये रूपमेवम्।]]
08 [[६। ‘दॄसनिजनिचरिचटिरहिभ्यो ञुण्’ [१-८८]
09 [पृष्ठम्१११०+ २९]
1 {@“रह त्यागे”@} 2 3 ज्ञपादिः।
धातुममुं क्षीरस्वामि-मैत्रेयौ न पठतः।
4 रहकः-हिका, रिरह- यिषकः-षिका
रहयिता-त्री, रिरहयिषिता-त्री
इत्यादीनि रूपणि समस्तान्यपि चौरादिकचहयतिवत् 5 बोध्यानि।
क्विपि- 6 प्ररट्-प्ररड्-प्ररहौ-प्ररहः
ल्यपि- 7 प्ररहय्य 8, णमुलि-रहम् २ राहम् २ इमानि रूपाण्यधिकान्यत्रेति विशेषः।
01 (१३८७)
02 (१०-चुरादिः-१६२६। सक। सेट्। उभ।)
03 [[१। कथादिषु (अदन्तेषु) उत्तरत्र पठिष्यमाणेन रहधातुनैव रूपाणां सिद्धेः ज्ञपादि- पञ्चकेषु रहधातोः चुरादिष्वेव पूर्वत्र पाठो मा भूदिति क्षीरस्वाम्यादयः। ‘रहयेत्--’ इति श्लोकं (१९५) विवृण्वता पुरुषकारेणापि “--‘रह त्यागे’ कथादिर्भूवादिश्च” इत्युक्तम्। तेन देवस्याप्ययमेव पक्ष इति ज्ञायते। युक्तं चैतत्। यतः ज्ञपादिषु पाठमस्याभ्युपगच्छन्तोऽपि केषाञ्चिन्मतत्वेनैवाभ्यधुः। न स्वतन्त्रत्वेन। ज्ञपादिपञ्चकान्तर्भावेन पठितॄणां णमुलि दीर्घविकल्प एक एव कृदन्ते फलमस्येति बोध्यम्।]]
04 [[२। ज्ञपादिषु अस्य धातोः पाठात् मित्त्वेन ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधायाः ह्रस्वः। एवमेव ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्तादपि उपधाह्रस्वो बोध्यः।]]
05 (५१५)
06 [[३। ‘हो ढः’ (८-२-३१) इति ढत्वे, अवसाने चर्त्वविकल्पे च रूपमेवम्।]]
07 [[४। ल्यपि, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशे रूपमेवम्।]]
08 [[आ। ‘आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः।।’ कि। अ। ९। ४।]]
1 {@“रह त्यागे”@} 2 कथादिः, उदन्तः, ।
‘रहयेत् रहति त्यागे गतौ रंहेस्तु रंहति।’ 3 इति देवः।
रहकः-हिका, रिरहयिषकः-षिका
रहयिता-त्री, रिरहयिषिता-त्री
इत्यादिकानि समस्तान्यपि रूपाणि चौरादिकचहयतिवत् 4 बोध्यानि।
णमुलि रहम् २, इत्येकमेव रूपमिति विशेषः।
यत्प्रत्यये-विरह्यः 5 इति ज्ञेयम्।
01 (१३८८)
02 (१०-चुरादिः-१८५९। सक। सेट्। उभ।)
03 (श्लो। १९५)
04 (५१५)
05 [[B। ‘मन्त्री तौ प्रपटय्य पाशवटनैः पापौ विरह्यौ पुरात्।’ धा। का। ३-५३।]]
Burnouf
Frenchरह रह abandon
solitude.
रहस् abandon, solitude.
Lieu caché
secret,
confidence
mystère
les mystères de l'amour. -- Adv.
solitairement
en secret
mystérieusement.
À l'i. रहसि mms.
रहस la mer
le ciel.
रहस्य a. secret, caché, mystérieux. -- S. secret
mystère. -- S. np. de rivière.
रहस्यव्रत le pouvoir de manier les armes mystérieuses et
magiques.
रहाट (अट्) secrétaire, conseiller, ministre.
Esprit, fantôme.
Origine (?).
रहाये (dénom. ) devenir secret, caché ou mystérieux.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
