| YouTube Channel

रसोनः (rasonaH)

 
Apte 1890
English
रसोनः A kind of garlic
cf. लसोन.
Apte Hindi
Hindi
रसोनः
पुं*
- रसेनैकेन ऊनः
लहसुन
Wordnet
Sanskrit
Synonyms:
लशुनम्, रशुनम्, लशूनम्, लसुनम्, रसुनम्, रसोनः, रसोनकः, गृञ्जनः, महौषधम्, महाकन्दः, अरिष्टः, सोनहः, उग्रगन्धः, दीर्घपत्रः, ग्रन्थमूलम्, श्रीमस्तकः, मुखदूषणः, राहूच्छिष्टम्, तरिता
noun
कन्दविशेषः- यः उपस्करे उपयुज्यते।
"सीता सागार्थे मरिचलशुनादीनां खण्डनं करोति।"
Synonyms:
लशुनम्, रसुनः, महौषधम्, गृञ्जनः, अरिष्टः, महाकन्दः, रसोनकः, रसोनः, म्लेच्छकन्दः, भूतघ्नः, उग्रगन्धः
noun
एकः क्षुपः यद् व्यञ्जनरूपेण उपयुज्यते अस्य गुणाः ऊनत्वम्, गुरुत्वम्, उष्णत्वम्, कफवातनाशित्वम्, अश्रुचित्वम्, क्रिमिहृद्रोगशोहघ्नत्वम् रसायनत्वञ्च
"तिक्तिकां निर्मातुं सः क्षेत्रात् हरितं लशुनं औन्मूलयत्।"
शब्दकल्पद्रुमः
Sanskrit
रसोनः,
पुं,
(रसेनैकेनोनः ।) रसुनः इति राज-निर्घण्टः
(तस्योत्पत्तिर्यथा, --“राहोरमृतचौर्य्येण लूनात् ये पतिता मलात् ।अमृतस्य कणा भूमौ ते रसोनत्वमागताः
द्बिजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम् ।साक्षादमृतसम्भूतेर्ग्रामणीः सरसायनम्
”इति वाभटे उत्तरस्थाने ३९ अध्यायः
“अथ वीर्य्यञ्च वक्ष्यामि रसोनस्य महामते ।रसैश्च पञ्चभिर्युक्तो रसोनस्तेन वर्जितः
”“दध्ना वातादिशमनो रसोनो विहितो बुधैः ।जाङ्गलानि रसान्येव भोजनार्थे प्रदापयेत्
”इति हारीते कल्पस्थाने तृतीयेऽध्याये
अथास्यगुणाः ।“रसोनो बृंहणो वृष्यः स्निग्धोष्णः पाचनःसरः ।रसे पाके कटुकस्तीक्ष्णो मधुरको मतः
भग्नसन्धानकृत्कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।बलवर्णकरो मेधाहितो नेत्र्यो रसायनः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
अन्यद्विवरणमस्य रसोनकशब्दे लशुनशब्दे चद्रष्टव्यम्
)