| YouTube Channel

रसेश्वर (rasezvara)

 
Monier Williams Cologne
English
रसेश्वर
m.
‘lord of fluids’, quicksilver
वाचस्पत्यम्
Sanskrit
रसेश्वर
पु०
रसः पारद ईश्वर इव तद्देहरसजातत्वात् ।१ ईश्वरतुल्ये रसे तत्त्वज्ञानार्थं देहस्थैर्य्यसम्पादनद्वारामुक्तिहेतुत्वमस्य माहेश्वरभेदाः प्रतिपेदिरे तन्मतञ्च सर्व-दर्शनसंग्रहे प्रदर्शितं यथा“अपरे माहेश्वराः परमेश्वरतादात्म्यबादिनोऽपि पिण्ड-स्थैर्य्ये सर्वामिमता जीवन्मक्तिः सेत्स्यतीत्यास्थाय पिण्ड-स्थैर्य्योपाय पारदादिपदवेदनीयं रसमेव सङ्गिरन्ते रसस्यपारदत्वं संसारपरपारप्रापणहेतुत्वेन तदुक्तम्इतःपरः ग्रन्थः पारदशब्दे ४३१३ पृष्ठे प्रदर्शितः ।“प्रकारान्तरेणापि जीवन्मुक्तौ नेयं वाचोयुक्ति-र्युक्तिमतीति चेन्न षट्स्वपि दर्शनेषु देहपातानन्तरंमुक्तेरुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्स-प्रवृत्तेरनुपपत्तैः तदप्युक्तं तत्रैव “षड्दर्शनेऽपिमुक्तिस्त दीर्शता पिण्डपातने करामलकवत्सापि प्रत्यक्षानोपलभ्यते तस्मात्तं रक्षयेत्पिण्डं रसैश्चैव रसा-यनैरिति” गोविन्दभगवत् पादाचर्य्यैरपि “इति धन-शरीरभोगान्मत्वाऽनित्यान् सदैव यतनीयम् मुक्तौ साच ज्ञानात् तच्चाभ्यासात् स्थिरे देहे” इत्युक्तम् ननुविनश्वरतया वृश्यमानस्य देहस्य कथं नित्यत्वमवसीयतेइति चेन्मैवं मंस्थाः, षाट्कौशिकस्य शरीरस्यानित्यत्वेऽपिरसाभ्रकपदाभिलप्यहरगौरीसृष्टिजातस्य नित्यत्वोपपत्तेःतथाच रसहृदये “ये चात्यक्तशरीरा हरगौरीसूष्टि-जान्तरं प्राप्ताः वन्द्यास्ते रससिद्धा मन्त्रगणः किङ्करोयेषामिति” तस्माज्जीवन्मुक्तिं समीहमानेन योगिनाप्रथमं दिव्यतनुर्विधेया हरगौरीसृष्टिसंयोगजनितत्वञ्चरसस्य हरजत्वेनाभ्रकस्य गोरीसम्भवत्वेन तत्तदात्म-कत्वमुक्तम् “अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः ।अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनमिति” अत्यल्प-मिदमुच्यते देवदैत्यमुनिमानवादिषु बहवो रससामर्थ्याद्दिव्यंदेहमाश्रित्य जीवन्मुक्तिमाश्रिताः श्रूयन्ते रसेश्वरसि-द्धान्ते “देवाः केचिस्महेशाद्या दैत्याः काव्यपुरःसराः ।मुनयो बालखिल्याद्या नृपाः सोमेश्वरादयः गोविन्द-भगवत्पादाचार्य्यो गोविन्दनामकः चर्वटिः कपिलोव्याडिः कापालिः कन्दलायनः एतेऽन्ये बहवः सिद्धाजीवन्मुक्ताश्चरन्ति हि तनुं रसमयीमाप्य तदात्मककथाचणाः” इति अयमेवास्यार्थः परमेश्वरेण परमेश्वरींप्रति प्रपञ्चितःऽ ।इतःपरो ग्रन्थः पारदशब्दे ४३१३ पृ० दर्शितः ।तत्प्रपञ्चस्तु गोविन्दभगवत्पादाचार्य्यसर्वज्ञरामेश्वरभट्टा-रकप्रभृतिमिः प्राचीनैराचार्य्यैर्निरूपित इति ग्रन्थ-भूयस्त्वभयादुदास्यते रसशास्त्रं धातुवादार्थ-मेवेति मन्तव्यं देहबन्धद्वारा मुक्तेरेव परमपयोजनत्वात्तदुक्तं रसार्णवे “लोहवन्धस्त्वया देव! यद्दत्तं परमी-शितः! तं देहबन्धमाचक्ष्व येन स्यात् खेचरी गतिः ।यथा लोहे तथा देहे कर्त्तव्यः सूतकः सता समानंकुरुते देवि! प्रत्ययं देहलोहयोः पूर्वं लोहे परी-क्षेत पश्चाद्देहे प्रयोजयेत्” इति ननु सच्चिदानन्दात्मक-परतत्त्वस्फुरणादेव मुक्तिसिद्धौ किमनेन दिव्यदेहसम्पा-दनप्रयासेनेति चेत्तदेतदवार्त्तं वार्त्तशरीरालाभे तद्वा-र्त्ताया अयोगात् तदुक्तं रसहृदये “गलितानल्पवि-कल्पः सर्वाध्वविवर्जितश्चिदानन्दः स्फुरितोऽप्यस्फुरित-तनोः करोति किं जन्तुवर्गस्येति यं जरया जर्जरितंकासश्वासादिदुःखविशदञ्च योग्यं तं समाधौप्रतिहतबुद्धीन्द्रियप्रसरम् बालः षोडशवर्षो विषय-रसाखादलम्पटः परतः यातविवेको वृद्धो मर्त्यःकथमाप्नुयान्मुक्तिमिति” ननु जीवत्वं नाम संसारित्वंतद्विपरीतत्वं मुक्तत्वं तथाच परस्परविरुद्धयोः कथ-मेकायतनत्वमुपपन्नं स्यादिति चेत्तदनुपपन्नं विकल्पानुप-पत्तेः मुक्तिस्तावत् सर्वतीर्थकरसम्मता सा किं ज्ञेयपदेनिविशते वा चरमे शशविषाणकल्पा स्यात् प्रथमे नजीवनं वर्जनीयमजीवतो ज्ञातृत्वानुपपत्तेः तदुक्तंरसेश्वरसिद्धान्ते “रसाङ्कमेयमार्गोक्ते जीवमोक्षोऽस्त्यधो-मनाः प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु ज्ञान-ज्ञेयमिदं विद्धि सर्वतन्त्रेषु सम्मतम् नाजीवन् ज्ञा-स्यति ज्ञेयं यदतोऽस्त्येव जीवनम्” इति चेदमदृष्ट-चरमिति मन्तव्यं विष्णुत्वामिमतानुसारिभिः नृपञ्चास्य-शरीरस्य नित्यत्वोपपादनात् तदुक्तम् साकारसिद्धौ“सच्चिन्नित्यनिजाचिन्त्यपूर्णानन्दैकविग्रहम् नृपञ्चास्य-महं वन्दे श्रीविष्णुस्वामिसम्मतम्” इति नन्वेतत्सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्गं सदिति नसङ्गच्छत इत्यादिनाक्षेपपुरःसरं सनकादिप्रत्यक्षेण “सहस्र-शीर्षा पुरुषः” इत्यादिश्रुत्या “तमद्भुतं बालकमम्बुजेक्षणंचतुर्भुजं शङ्खगदाद्यदायुधम्” इत्यादिपुराणलक्षणेन प्र-माणत्रयेण सिद्धं नृपञ्चाननाङ्गं कथमसत् स्यादिति ।सदादीनि विशेषणानि गर्भश्रीकान्तमिश्रैः विष्णुस्वामि-चरणपरिणतान्तःकरणैः प्रतिपादितानि तस्मादस्म-दिष्टदेहनित्यत्वमत्यन्तादृष्टं भवतीति पुरुषार्थकामुकैःपुरुषैरेष्टव्यम् अत एवोक्तम् “आयतनं विद्यानां-मूलं धर्मार्थकाममोक्षाणाम् श्रेयः परं किमन्य-च्छरीरमजरामरं विहायैकमिति” अजरामरीकरण-समर्थश्च रसेन्द्र एव तदाह “एकोऽसौ रसराजः शरीर-मजरामरं कुरुते” इति किं वर्ण्यते रसस्य माहात्म्यंयस्य दर्शनस्पर्शनादिनापि महत् फलं भवति तदुक्तं रसा-र्णवे “दर्शनात् स्पर्शनात्तस्य भक्षणात् स्मरणादपि पूजना-द्रसदानाच्च दृश्यते षड्विधं फलम् केदारादीनि लि-ङ्गानि पृथिव्यां यानि कानिचित् तानि दृष्ट्वा तु यत्-पुण्यं तत् पुण्यं रसदर्शनादित्यादिना” अन्यत्रापि“काश्यादिसर्वलिङ्गेभ्यो रसलिङ्गार्चनं शिवम् प्राप्यतेयेन तल्लिङ्गं भोगारोग्यामृताजरम्” इति रसनि०न्दायाः प्रत्यवायोऽपि दर्शितः “प्रमादाद्रसनिन्दायाःश्रुतावेनं स्मरेत् सुधीः द्राक् त्यजेन्निन्दकं नित्यं नि-न्दया पूरिताशुभम्” इति तस्मादस्मदुक्तया रीत्यादिव्यं देहं सम्पाद्य योगाभ्यासवशात् परतत्त्वे दृष्टेपुरुषार्थप्राप्तिर्भवति तदा “भ्रूयुगमध्यगतं यत् शिखि-विद्युत्सूर्य्यवज्जगद्भासि केषाञ्चित् पुण्यदृशामुन्मीलतिचिन्मयं ज्योतिः परमानन्दैकरसं परमं ज्योतिः-स्वभावमविकल्पम् विगलितसकलक्लेशं ज्ञेयं शान्तंस्वसंवेद्यम् तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयंजगत् पश्यन् उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नो-तीति” श्रुतिश्च “रसो वै सः रसं ह्येवायं लब्ध्वानन्दीभवतीति” तदित्थं भवे नान्योदुःखभरतरणोपायो रसएवेति सिद्धम् तथाच रसस्य परब्रह्मणा साम्यमितिप्रतिपादकः श्लोकः “यः स्यात् प्रावरणाविमोचनधियांसाध्यः प्रकृत्या पुनः सम्पन्नो सहते दीव्यति परंवैश्वानरे जाग्रति जातो यद्यपरं वेदयति स्व-स्मात् स्वयं द्योतते यो ब्रह्मैव दैन्यसंसृतिभयात्पायादसौ पारदः” इति