| YouTube Channel

रसास्वादः (rasAsvAdaH)

 
Apte Hindi
Hindi
रसास्वादः
पुं*
रसः-आस्वादः -
सत् या रस आदि चखना
रसास्वादः
पुं*
रसः-आस्वादः -
"काव्यरस की अनुभूति, काव्य सौन्दर्य का प्रत्यक्षीकरण"
शब्दकल्पद्रुमः
Sanskrit
रसास्वादः,
पुं,
(रसस्य आस्वादः ।) अखण्ड-वस्तनवलम्बनेनापि चित्तवृत्तेः सविकल्पा-नन्दास्वादनम् समाध्यारम्भसमये सवि-कल्पानन्दास्वादनं वा इति वेदान्तसारः
*
“चतुर्थं विघ्नमाह अखण्डेति उक्तसविकल्पक-समाध्योर्म्मध्ये द्वितीयः शब्दाननुविद्धस्त्रिपुटी-विशिष्टस्तस्मिन् आनन्दो वाह्यशब्दादि-विषयप्रपञ्चभारत्यागप्रयुक्तो तु चैतन्यप्रयुक्तः ।यथा निधिग्रहणाय प्रवृत्तस्य निधिपरि-पालकभूतप्रेताद्यावृतस्य निधिप्राप्तेः अभावेऽपिभूताद्यनिष्टनिवृत्तिमात्रेण कोऽपि महानानन्दोभवति तथा सविकल्पकसमाधावखण्डवस्त्वनव-लम्बनेन नित्यानन्दरसास्वादनाभावेऽपि अनिष्ट-वाह्यप्रपञ्चनिवृत्तिजन्यानन्दं सविकल्पकरूपंब्रह्मानन्दभ्रमेण स्वादयति तद्रसास्वादनमित्यर्थः ।लक्षणान्तरमाह समाधीत्यादि निर्व्विकल्पक-समध्यारम्भकाले अनुभूय मानसविकल्प-का दत्यागासहिष्णुतया पुनस्तस्यैवास्वादनंरसास्वाद इत्यर्थः ।” इति सुबोधन्याख्यातट्टीका