| YouTube Channel

रसायनं (rasAyanaM)

 
Hindi
Hindi
रासायनिक (नपु)
शब्दकल्पद्रुमः
Sanskrit
रसायनं,
क्ली,
कटिः इति राजनिर्घण्टः
(रसोदुग्धं अयनं मूलं यस्येति ।) तक्रम् इति हेम-चन्द्रः
विषम् (रसा रसरक्तादय ईयन्तेप्राप्यन्ते अनेनेति + ल्युट् ।) ज्वराव्याधि-नाशकौषधम् इति मेदिनी
(यथा, माधे ।२ ९३ ।“षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम् ।भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति
”)“न सूतेन विना कान्तं कान्तेन विना रसः ।सूतकान्तसमायोगात् रसायनमुदीरितम्
”इति राजनिर्घण्टः
*
अथ रसायनाधिकारः तत्र रसायनस्यलक्षणमाह ।“यज्जराव्याधिविध्वंसि वयसस्तम्भकन्तथा ।चक्षुष्यं वृंहणं वृष्यं भेषजं तद्रसायनम्
”रसायनस्य फलमाह ।“दीर्घमायुः स्मृतीर्मेधामारोग्यं तरुणं वयः ।देहेन्द्रियबलं कान्तिं नरो विन्देद्रसायनात्
”तद्विधिमाह ।“पूर्व्वे वयसि मघ्ये वा मनुष्यस्य रसायनम् ।प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा
नाविशुद्धशरीरस्य युक्तो रासायनो विधिः ।न भाति वाससि श्लिष्टे रङ्गयोग इवाहितः
”अथ तदुदाहरणानि ।“शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः ।त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः
मण्डूकपर्ण्याः स्वरसः प्रभातेप्रयोज्य यष्टीमधुकस्य चूर्णम् ।रसो गुडुच्यास्तु समूलपुष्पःकल्कः प्रयोज्यः खलु शङ्खपुष्प्याः
आयुःप्रदान्यामयनाशनानिबलाग्निवर्णस्वरवर्द्धनानि ।मेध्यानि चैतानि रसायनानिमेध्या विशेषेण शङ्खपुष्पी
”मण्डूकपर्णी ब्राह्मी वरभी इति लोके तदलाभेमञ्जिष्ठापि ग्राह्या तस्या अपि रसायनत्वात् ।“माक्षिकेण तुगाक्षीर्य्या पिप्पल्या लवणेन ।त्रिफला सितया वापि युक्ता सिद्धं रसायनम्
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ।वर्षादिष्वभया प्राश्या रसायनगुणैषिणा
पुनर्नवस्यार्द्धपलं नवस्यपिष्टं पिबेद्यः पयसार्द्धमासम् ।मासत्रयं तत्त्रिगुणं समां वाजीर्णोऽपि भूयः पुनर्नवः स्यात्
ये मासमेकं स्वरसं पिबन्तिदिने दिने भृङ्गरजःसमुत्थम् ।क्षीराशिनस्ते बलवीर्य्ययुक्ताःसमाशतं जीवनमाप्नुवन्ति
शतावरी मुण्डितिका गुडूचीसहस्तिकर्णा सहतालमूली ।एतानि कृत्वा समभागयुक्ता-न्याज्येन किंवा मधुनावलिह्यात्
जरारुजामृत्युवियुक्तदेहोभवेन्नरो वीर्य्यबलादियुक्तः ।विभाति देवप्रतिमः नित्यंप्रभामयो भूरिविवृद्धबुद्धिः
पीताश्वगन्धा पयसार्द्धमासंघृतेल तैलेन सुखाम्बुना वा ।वीर्य्यस्य पुष्टिं वपुषो विधत्तेबालस्य शस्यस्य यथाम्बुवृष्टिः
अयःपलं गुग्गुलुरत्र योज्यःपलत्रयं व्योषपलानि पञ्च ।पलानि चाष्टौ त्रिफलारजश्चकर्षं लिहन् यात्यमरत्वमेव
”लोहगुग्गुलुः ।“न केवलं दीर्घमिहायुरश्रुतेरसायनं यो विविधं निषेवते ।गतिं देवर्षिनिषेवितां शुभांप्रपद्यते ब्रह्म तथैव चाक्षयम्
”इति रसायनाधिकारे भावप्रकाशः
(तथा ।“लाभोपायोहिशस्तानां रसादीनां रसायनम् ।पूर्व्वे वयसि मध्ये वा तत् प्रयोज्यं जितात्मनः ।स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य सर्व्वथा
नाविशुद्धे शरीरे हि युक्तो रासायनो विधिः ।वाजीकरो वा मलिने वस्त्रे रङ्ग इवाफलः
”“रसायनानां द्विविधं प्रयोगमृषयो विदुः ।कुटीप्रावेशिकं मुख्यं वातातपिकमन्यथा
निर्व्वाते निर्भये हर्म्ये प्राप्योपकरणे पुरे ।दिश्युदीच्यां शुभे देशे त्रिगर्भां सूक्ष्मलोचनाम्
धूमातपरजोव्यालस्त्रीमूर्खाद्यविलङ्घिताम् ।सज्जवैद्योपकरणां सुमृष्टां कारयेत् कुटीम्
अथ पुण्येऽह्नि संपूज्य पूज्यांस्तां प्रविशेच्छुचिः ।तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः ।दानशीलदयासत्यव्रतधर्म्मपरायणः
देवतानुस्मृतो युक्तो युक्तस्वप्नप्रजागरः ।प्रियौषधः पेशलवाक् प्रारभेत रसायनम्
हरीतकीमामलकं सैन्धवं नागरं वचाम् ।हरिद्रां पिप्पलीं वेल्लं गुडञ्चोष्णाम्बुना पिबेत्
स्निग्धः स्विन्नो नरः पूर्व्वं तेन साधु विरिच्यते ।ततः शुद्धशरीराय कृतसंसर्ज्जनाय
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम् ।दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथ वा
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत् ।यस्य यद्यौगिकं पश्येत् सर्व्वमालोच्य सात्म्य-वित्
”“कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः ।अतोऽन्यथा तु ये तेषां सूर्य्यमारुतिकोविधिः
वातातपसहायोगा वक्ष्यन्तेऽतो विशेषतः ।सुखोपचारा भ्रंशेऽपि ये देहस्यवाधकाः
”इत्युत्तरस्थानीयबाग्भटे ३९ अध्याये
विशेषस्तु तस्मिन्नध्याये ज्ञातव्यः
*
रसःपारदः लक्षणया तज्जातीय-हरितालादिकञ्चअयनं आश्रय उपायो वा यस्य तत् स्वर्णादि-करणम् ।अथरसायने ईश्वर उवाच ।“गोमूत्रं हरितालञ्च गन्धकञ्च मनःशिलाम् ।समं समं गृहीत्वा तु यावत् शुष्यति पेषयेत्
एकादशदिनं यावत् यत्नेन रक्षयेत् शुचिः ।मन्त्रेण धूपदीपादिनैवेद्यैर्दुग्धमिश्रितैः
मन्त्रस्तु ओँ हरिहराय रसायनं सिद्धिं कुरुकुरुस्वाहा अयुतजपेन सिद्धिः ।तद्वटीं गोलकं कृत्वा वस्त्रेणावेष्टयेत् पुनः ।मृत्तिकां लेपयेत्तस्य च्छायाशुष्कन्तु कारयेत्
गर्त्ते कुण्डे विनिक्षिप्ते पलाशकाष्टवह्निना ।ज्वालयेदष्टयामन्तु नान्यथा शङ्करोदितम्
तद्भस्म जायते सिद्धिर्व्विद्धि सिद्धिसमाकुलम् ।ताम्रपात्रे अग्निमध्ये बिन्दुमात्रं नियच्छति
तत्क्षणाज्जायते स्वर्णं नान्यथा शङ्करोदितम् ।दातव्यं गुरुभक्ताय दद्याद्दुष्टमानसे ।सिद्धपीठे भवेत्सिद्धिर्गायत्त्रीलक्षजापनैः
यस्मै कस्मै दातव्यं दातव्यं शिवभक्तके ।अग्निमुखं द्विजातीनां पाचकानां विशेषतः
गोप्यं गोप्यं महागोप्यं देवानामपि दुर्लभम्
”प्रकारान्तरम् ।“आनीय बहुयत्नेन सम्बलं तोलकद्वयम् ।वसुराद्यं शिवञ्चाद्यं मायाबिन्दुसमन्वितम्
बीजत्रयञ्चाष्टशतं प्रजपेत् सम्बलोपरि ।अशीतितोलकमानं कृष्णधेनुसमुद्भवम्
दुग्धमानीय यत्नेन चाष्टोत्तरशतं जपेत् ।वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत्
उत्तापं ज्वालयेद्धीमान् मन्दमन्देन बह्निना ।रिपुर्वेदार्द्धपर्य्यन्तमर्द्धशोषं भवेद्यदि
तदैवोत्तोल्य तद्द्रव्यं दुग्धं तोये विनिक्षिपेत्
”ततः परीक्षा कर्त्तव्या ।“निर्धूभं पावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः ।तत्रैव प्रजपेन्मन्त्रं सर्व्वबन्धनमात्मकम्
सार्द्धेन तोलकं ताम्रं दृष्ट्वा उत्थाप्य यत्नतः ।गुञ्जाप्रमाणं तद्द्रव्यं सत्यं सत्यं हि शङ्करि ! ।रौप्यं भवति तद्रव्यं नान्यथा शङ्करोदितम्
”प्रकारान्तरम् ।“कृष्णसर्पमेकं गृहीत्वा तस्य मुखे शिववीर्य्यं पूर-यित्वा सर्पस्य मुखं गुदञ्च बद्धा नूतनमृण्मय-स्थालीमध्ये संस्थाप्य स्थालीमुखं मृदादिनासंलिप्य निर्ज्जनस्थाने प्रातरारभ्य पुनःप्रात-र्यावत् बह्निना ज्वालं दद्यात् ततः शुभक्षणेस्थालीमुखमुद्धृत्य सर्पभस्म विहाय शिववीर्य्यंगृह्णीयात् ततस्तोलकमितं ताम्रं गालयित्वातस्मिन् गालितताम्रे रक्तिकमात्रं तत् शिववीर्य्यंदद्यात् तेन तत्क्षणादेव तत्ताम्रं सुवर्णीभूतम् ।आदौ शिवार्च्चनं कृत्वा पश्चात् प्रयोग एषकर्त्तव्यः
इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेय-संवादे रसायनं नाम त्रयोदशः पटलः
)