| YouTube Channel

रसाभासः (rasAbhAsaH)

 
Apte Hindi
Hindi
रसाभासः
पुं*
रसः-आभासः -
किसी रस का बाह्यरूप या केवल प्रतीति
रसाभासः
पुं*
रसः-आभासः -
किसी रस का अनुपयुक्त स्थान पर वर्णन
शब्दकल्पद्रुमः
Sanskrit
रसाभासः,
पुं,
(रस इव आभासते इति +भास् + अच् ।) अनौचित्यविशिष्टरसः तस्यलक्षणं यथा, --“अनौचित्यप्रवृत्तत्वे आभासो रसभावयोः ।”अनौचित्यञ्चात्र रसानां भरतादिप्रणीतलक्ष-णानां सामग्रीरहितत्वे सत्येकदेशयोगित्वोप-लक्षणपरं बोध्यम् तच्च बालव्युत्पत्तये एक-देशतो दर्श्यते उपनायकसंस्थायां मुनिगुरु-पत्नीगतायाञ्च बहुनायकविषयायां रतौतथानुभयनिष्ठायां प्रतिनायकनिष्ठत्वे तद्वदधम-पात्रतिर्य्यगादिगते शृङ्गारे अनौचित्यम् रौद्रेगुर्व्वादिगतकोपे शान्ते हीननिष्ठे गुर्व्वा-द्यालम्बने हास्ये ब्रह्मवधाद्युत्साहे अधम-पात्रगते तथा वीरे उत्तमपात्रगतत्वे भयानकेज्ञेयमेवमन्यत्र तत्र रतेरुपनायकनिष्ठत्वे यथामम ।“स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनीक्षौणीमावृणुते तमालमलिनच्छायातमः-सन्ततिः ।तन्मे सुन्दर ! मुञ्च कृष्ण ! सहसा वर्त्मेतिगोप्या गिरःश्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिःपातु वः
”बहुनायकनिष्ठत्वे यथा, --“कान्तास्त एव भुवनत्रितगेऽपि मन्येयेषां कृते सुतनु ! पाण्डुरयं कपोलः ।”अनुभयनिष्ठत्वे यथा, --मालतीमाधवे नन्दनस्य मालत्याम् पश्चा-दुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्व-मिति श्रीमल्लोचनकाराः तत्रोदाहरणं यथारत्नावल्याम् सागरिकाया अन्योऽन्यदर्शनात्प्राक् वत्सराजे रतिः प्रतिनायकनिष्ठत्वे यथाहयग्रीववधे हयग्रीवस्य जलक्रीडावर्णने ।अधमपात्रगतत्वे यथा, --“जघनस्थलनद्धपत्रवल्ली-गिरिमल्लीकुसुमानि कापि भिल्ली ।अवचित्य गिरौ पुरो निषण्णास्वकचानुत्कचयाञ्चकार भर्त्त्रा
”तिर्य्यग्गतत्वे यथा, --“मल्लीमतल्लीषु वनान्तरेषुवल्ल्यन्तरे वल्लभमाह्वयन्ती ।पञ्चद्विपञ्ची कलनादभङ्गीसङ्गीतमङ्गीकुरुते स्म भृङ्गी
”आदिशब्दात्तापसादयः रौद्राभासो यथा, --“रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गोमुहु-र्म्मुक्ताकर्णेमपेतभीर्धृतधनुर्व्वाणो हरेः पश्यतः ।आध्मातः कटुकोक्तिभिः स्वमसकृद्दोर्व्विक्रमंकीर्त्तयन्अंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टो-ऽर्ज्जुनः
”भयानकाभासो यथा, --“अशक्नुवन् सोढुमधीरलोचनःसहस्ररश्मेरिव यस्य दर्शनम् ।प्रविश्य हेमाद्रिगुहागृहान्तरंनिनाय विभ्यद्दिवसानि कौशिकः
”स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः एव-मन्यत्र इति साहित्यदर्पणे परिच्छेदः