| YouTube Channel

रसाञ्जनं (rasAJjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
रसाञ्जनं,
क्ली,
(रसजातमञ्जनं इति मध्यपदलोपीकर्म्मधारयः ।) रसजाताञ्जनविशेषः रसवत्इति भाषा
तत्पर्य्यायः रसगर्भम् तार्क्ष्य-शैलम् इत्यमरः
रसोद्भूतम् रसाग्र-जम् कृतकम् बालभैषज्यम् दार्व्वी-क्वाथोद्भवम् रसराजः वर्य्याञ्जनम् १०रसनार्भम् ११ अग्निसारम् १२ अस्य गुणाः ।हिमत्वम् तिक्तत्वम् चक्षुष्यत्वम् मधुरत्वम् ।कटुत्वम् रक्तपित्तविषच्छर्द्दिहिक्कापस्मार-नाशित्वञ्च ।“रीत्यान्तु ध्मायमानायां तत्किट्टन्तु रसाञ्जनम् ।तदभावे तु कर्त्तव्यं दार्व्वीक्वाथसमुद्भबम्
”इति राजनिर्घण्टः
अपि ।“दार्व्वीक्वाथसमं क्षीरं पादं पक्त्वा यथाघनम् ।तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम्
रसाञ्जनं तार्क्ष्यशैलं रसगर्भञ्च तार्क्ष्यजम् ।रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् ।उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत्
”इति भावप्रकाशः