| YouTube Channel

रससिन्दूरं (rasasindUraM)

 
शब्दकल्पद्रुमः
Sanskrit
रससिन्दूरं,
क्ली,
(रसजातं सिन्दूरमिति ।)औषधविशेषः तस्य नामान्तरं सिन्दूररसः ।यथा, --“शुद्धसूतस्य गृह्णीयाद्भिषग्भागचतुष्टयम् ।शुद्धगन्धस्य भागैकं तावत् कृत्रिमगन्धकम्
अथवा पारदस्यार्द्धं शुद्धगन्धकमेव हि ।तयोः कज्जलिकां कुर्य्याद्दिनमेकं विवर्ज्जयेत्
मृत्तिकां वाससा सार्द्धं कुट्टयेदतियत्नतः ।तया वारत्रयं सम्यक् काचकूपीं प्रलेपयेत्
मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकांक्षिपेत् ।तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत्
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् ।गृह्णीयादूर्द्ध्वसंलग्नं सिन्दूरसदृसं रसम्
”इति भावप्रकाशः
(मतान्तरम् ।“पृथक् समं समं कृत्वा पारदं गन्धकन्तथा ।नवसारं धूमसारं स्फटिकं याममात्रकम्
निम्बूरसेन संमर्द्द्य काचकूप्यां निवेशयेत् ।मुखे पाषाणखटिकां दत्त्वा मुद्रां प्रलेपयेत्
सप्तभिर्मृत्तिकावस्त्रैः पृथक्संशोध्य वेष्टयेत् ।सच्छिद्रायां मृदस्थाल्यां कूपिकां तां निवेशयेत् ।पूरयेत् सिकतापूरैरागलं मतिमान् भिषक् ।निवेश्य चुल्ल्यां दहनं मन्दं मध्यं खरं क्रमात्
प्रज्वाल्य द्वादशं यामं स्वाङ्गशीतं समुद्धरेत् ।स्फोटयित्वा तु मुक्ताभमूर्द्धलग्नं वलिं त्यजेत् ।अधःस्थं रससिन्दूरं सर्व्वरोगेषु योजयेत्
”इति रससिन्दूरम्
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
)