| YouTube Channel

रसमूर्च्छनं (rasamUrcchanaM)

 
शब्दकल्पद्रुमः
Sanskrit
रसमूर्च्छनं,
क्ली,
(रसस्य पारदस्य मूर्च्छनम् ।)पारदस्य मूर्च्छाकरणम् यथा, --“त्र्युषणं त्रिफलाबन्ध्याकन्दैः क्षुद्रद्बयान्वितैः ।चित्रकोर्णानिशाक्षारकन्याककनकद्रवैः
सूतं कृतेन यूषेण वारान् सप्ताभिमूर्च्छयेत् ।इत्थं संमूर्च्छितः सूतस्त्यजेत् सप्तापि कञ्चुकान्
”इति भावप्रकाशः
(तथास्य विवृतिः ।“गन्धकेन रसं प्राज्ञः सुदृढं मर्द्दयेद्भिषक् ।कज्जलाभो यदा सूतो विहाय घनचापलम्
दृश्यतेऽसौ तदा ज्ञेयो मूर्च्छितो रसकोविदैः ।असौ रोगचयं हन्यादनुपानस्य योगतः
”इति मूर्च्छनम्
*
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-कारे
)