| YouTube Channel

रसमारणं (rasamAraNaM)

 
शब्दकल्पद्रुमः
Sanskrit
रसमारणं,
क्ली,
(रसस्य पारदस्य मारणम् ।)पारदस्य मारणम् यथा, --“धूमसारं रसं तोरिं गन्धकं नवसादरम् ।यामैकं मर्छयेदम्लैर्भागं कृत्वा समं समम्
काचकूप्यां विनिःक्षिप्य ताञ्च मृद्वस्त्रमुद्रया ।विलिप्य परितो वक्त्रे मुद्रां दत्त्वा विशोषयेत्
अधःसच्छिद्रपिठरीमध्ये कूपीं निवेशयेत् ।पिठरीवालुकापूरैर्भृत्वा वा कूपिकागलम्
निवेश्य चुल्ल्यां तदधो वह्निं कुर्य्याच्छनैः शनैः ।तस्मादप्यधिकं किञ्चित् पावकं ज्वालयेत् क्रमात्
एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः ।स्फोटयेत् स्वाङ्गशीतं तमूर्द्ध्वगं गन्धकं त्यजेत्
अधस्थञ्च मृतं सूतं गृह्णीयात् तन्तु मात्रया ।यथोचितानुपानेन सर्व्वकर्म्मसु योजयेत्
”इति भावप्रकाशः