| YouTube Channel

रसधेनुः (rasadhenuH)

 
शब्दकल्पद्रुमः
Sanskrit
रसधेनुः,
स्त्री,
(रसकल्पिता धेनुः ।) दानार्थे-क्षुरसनिर्म्मितधेनुः यथा, --होतोवाच ।“रसधेनुं महाराज कथयामि समासतः ।अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशास्तरे
रसस्य तु घटं राजन् संपूर्णमैक्षवस्य ।तद्वत् संकल्पयेत् प्राज्ञश्चतुर्थांशेन वत्सकम्
इक्षुदण्डमयाः पादा रजतक्षुरसंयुताः ।सुवर्णशृङ्गाभरणां वस्त्रपुच्छां घृतस्तनीम्
पुष्पकम्बलसंयुक्तां शर्करामुखजिह्विकाम् ।दन्ताः फलमयास्तस्याः पृष्ठताम्रमयीं शुभाम्
पुष्परोमान्तु राजेन्द्र मुक्ताफलकृतेक्षणाम् ।सप्तव्रीहिसमायुक्तां चतुर्द्दिक्षु दीपिकाम्
सर्व्वोपस्करसंयुक्तां सर्व्वगन्धादिवासिताम् ।चत्वारि तिलपात्राणि चतुर्द्दिक्षु निवेशयेत्
ब्रह्मणे वेदविदुषे श्रोत्रियायाहिताग्नये ।पुराणज्ञे विशेषेण साधुवृत्ताय धीमते
तादृशाय प्रदातव्या रसधेनुः कटम्बिने ।सर्व्वलक्षणयुक्ताय श्रोत्रियाय कुटुम्बिने
रसधेनुः प्रदातव्या सर्व्वकामेण नित्यदा ।दाता स्वर्गमवाप्नोति सर्व्वपातकवर्ज्जितः
दाता ग्राहको वाथ एककालमभोजनः ।सोमपानफलं तस्य सर्व्वक्रतुफलं लभेत्
दीयमानान्तु पश्यन्ति ते यान्ति परमां गतिम् ।धेनुञ्च पूजयित्वाग्रे गन्धधूपस्रगादिभिः
पूर्व्वोक्तैरेव मन्त्रैस्तु ततस्तां प्रार्थयेत् सुधीः ।प्रार्थनापूर्व्वकं भक्त्या द्विजाग्र्याय निवेदयेत्
दश पूर्व्वान् परांश्चैव आत्मानञ्चैकविंशकम् ।प्रापयेत् परमं स्थानं स्वर्गान्नावर्त्तते पुनः
एषा ते कथिता राजन् रसधेनुरनुत्तमा ।ददस्व महाराज परं स्थानमवाप्नुहि
इदं पठते नित्यं शृणुयादथ भक्तितः ।सर्व्वपापविनिर्मुक्तो विष्णुलोके महीयते
”इत्यादि वाराहपुराणे श्वेतोपाख्याने रसधेनु-माहात्म्यं समाप्तम्