| YouTube Channel

रसकर्पूर (rasakarpUra)

 
शब्दसागरः
English
रसकर्प्पूर
n.
(-रं) A white sublimate or a muriate of mercury, made in
close vessels with sulphur, mercury, and common salt
the cryst-
als formed in the first operation are sublimed a second time,
which seems to be the only essential difference between this and
the preparations called Rasapushpa
ut infra.
E.
रस mercury, and
कर्प्पूर camphor
from its white colour.
Yates
English
रस-कर्प्पूर (रः) 1.
m.
A white subli-
mate or muriate of mercury.
Wilson
English
रसकर्प्पूर
n.
(-रः) A white sublimate or a muriate of mercury, made
in close vessels with sulphur, mercury, and common salt
the crystals formed in
the first operation are sublimed a second time, which seems to be the only
essential difference between this and the preparations called Rasapuṣpa
ut
infra.
E.
रस mercury, and कर्प्पूर camphor
from its white colour.
Monier Williams Cologne
English
रस—कर्पूर
n.
sublimate of mercury,
Bhpr.
Shabdartha Kaustubha
Kannada
रसकर्पूर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಾದರಸದ ಭಸ್ಮ
शब्दकल्पद्रुमः
Sanskrit
रसकर्पूरं,
क्ली,
कर्पूररसः रसकापूर इतिभाषा यथा, “तत्र पारदस्य संक्षिप्तं शोधनंकर्त्तव्यम् ।शुद्धसूतसमं कुर्य्यात् प्रत्येकं गैरिकं सुधीः ।इष्टिकां खटिकां तद्बत् स्फुटिकां सिन्धुजन्म
बल्वीकक्षारलवणं भाण्डरञ्जकमृत्तिकाम् ।सर्व्वाण्यतानि संचूर्ण्य वाससा चापि शोधयेत्
खटिका खडी स्फुटिका फिट्करी सिन्धु-जन्म सैन्ववम् वल्वीकं तज्जा मृत् वल्मीकवरौर क्षारलवणं खारीलवण भाण्डरञ्जक-मृत्तिका काविसमाटी ।एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्द्दितम् ।तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत्
तस्याः स्थाल्या मुखे स्थालीमपरां धारयेत्समाम् ।सवस्त्रकुट्टितमृदा मुद्रयेदुभयोर्म्मुखम्
संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत् ।सम्यग्विशोष्य मुद्रां तांस्थालीं चुल्ल्यां विधारयेत्
अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् ।अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम्
शनैरुद्धारयेद्यन्त्रभूर्द्ध्वस्थालीगतं रसम् ।कर्पूरवत् सुविमलं गृह्णीयाद्गुणवत्तरम्
तं देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् ।खादन् हरति फिरङ्गं व्याधिं सोपद्रवं सपदि
विन्दति वह्नेर्द्दीप्तिं पुष्टिं वीर्य्यं बलं विपुलम् ।रमयति रमणीशतकं रसकर्पूरस्य सेवकःसततम्
”इति भावप्रकाशः
*
अपि ।“गैरिकतुरवीखटिकासैन्धवगडजं रजं कुडवम् ।प्रत्येकं दृढण्ड्यामाधायास्योपरि शतं स्थाप्यः
कुडवमितोऽथ तदूर्द्ध्वं देया हण्डीतदास्य पात-मुखी ।अथ तत्सन्धेर्म्मुद्रां कृता तदधो हुताशनोज्वाल्यः
अर्म्मणषट्कप्रमितैर्द्दारुभिरनुनातिदुर्ब्बलस्थूलैः ।अग्निं क्रमेण दद्याद्गुरुदर्शितवर्त्मना द्बिनिशम्
तदनु ततो यन्त्रवराद्युक्त्या कर्पूरसन्निभं सूतम् ।आदाय काचकुम्भे निधाय नवसादरं दद्यात्
संमर्द्द्य चाथ काष्ठैरर्द्धार्म्मणसंमितैः पचेत् घस्रम् ।चुल्लीडमरुकमध्यं वितस्तिचतुराङ्गुलावकाशन्तु
कर्त्तव्यं क्रमदहनं तदधः प्रज्वालयेन्मध्यम् ।शशिधवलमुपरिलग्नं युक्त्या संगृह्य रक्षयेद्-यत्नात्
वल्लं वल्लार्द्धं वा गुडेन जीर्णेन रोगिणे दद्यात् ।दुग्धोदनन्तु पर्थ्यं देयं तस्मै ताम्बूलम्
हरति समस्तं रोगं कर्पू राख्यो रसो नृणाम्
फिरङ्गकरिकेशरी सकलकुष्ठदावानलो-ऽखिलव्रनविनाशकृत् व्रणजगर्त्तपूर्त्तिप्रदः ।सूवर्णसमवर्णकृत् बलहुताशतेजस्करःसमस्तगदतस्करो रसपतिः कर्पूरकः
”ग्रन्थान्तरम् ।“टङ्कणं मधु लाक्षाथ ऊर्णा गुञ्जायुतो रसः ।मर्द्दयेत् भृङ्गजद्रावैर्द्दिनैकं ध्मापयेत् पुनः ।ध्मातो भस्मत्वमाप्नोति शुद्धकर्पूरसन्निभः
नवसादरं पारदाच्चतुर्थांशमिति सङ्केतः गडजंसाम्भरिलोण इति भाषा शेषं स्पष्टम् ।इत्यायुर्व्वेदप्रकाशः
(तथा ।“पिष्टं पांशुपटु प्रगाढममलं वज्य्रम्बुना नैकशःसूतं धातुगतं खटीकवलितं तत्संपुटे रोधयेत्
अन्तस्तल्लवणस्य तस्य तले प्रज्जाल्य वह्निंहठात्घस्रं ग्राह्य मथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः
तद्वल्वद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं भजेत् ।ऊर्द्ध्वं रेचयति द्बियाममसकृत् पेयं जलं शीतलम्
एतद्धन्ति वत्सरावधि विषं षान्मासिकंमासिकम् ।शैलोत्थं गरलं मृगेन्द्रकुटिलोऽद्भुतञ्च तात्का-लिकम्
”इति सुधानिधिरसः
*
रकर्पूरमिति रस-मञ्जरी कारः श्वेतभस्म इति चन्द्रिका
इतिवैद्यकरसेन्द्रसारसंग्रहे जारणमाराणाधिकारे
)
वाचस्पत्यम्
Sanskrit
रसकर्पूर
न०
रसेन कर्पूरमिव (रसकपुर) कर्पूररसेतत्पाकादिगुणा भावप्र० उक्ताः कर्पूररसशब्दे १७४३ पृ०दृश्याः