| YouTube Channel

रश्मिः (razmiH)

 
Apte
English
रश्मिः [raśmiḥ], [अश्-मि धातो रुट्, रश्-मि वा
cf.
Uṇ.*
4.46]
A string, cord, rope
अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः
Rām.*
4.17.2.
A bridle, rein
मुक्तेषु रश्मिषु निरायतपूर्व- कायाः
Ś.*
1.8
रश्मिसंयमनात्
Ś.*
1
Ki.*
7.19.
A goad, whip.
A beam, ray of light
ज्योतीषि वर्तयति प्रवि- भक्तरश्मिः
Ś.*
7.6
N.*
22.56
so हिमरश्मि
&c.
An eyelash.
A measuring cord
परि यो रश्मिना दिवो Ṛv.8. 25.18.
A finger (Ved. ).
Comp.
-कलापः a pearlnecklace of 54 threads. -केतुः a particular comet.-ग्राहः a charioteer (सारथि)
रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः
Mb.
* 8.31.55. -मालिन्, -मुचः the sun
अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः
Ki.*
12.2
चण्डवातोद्धुतान् मेघान् निघ्नन् रश्मिमुचो यथा
Mb.
* 7.153.43.
Apte 1890
English
रश्मिः [अश्-मि धातो रुट्, रश्-मिवा
cf. Uṇ. 4. 46] 1 A string, cord, rope.
2 A bridle, rein
मुक्तेषु रश्मिषु निरायतपूर्वकायाः Ś. 1. 8
रश्मिसंयमनात् Ś. 1.
3 A goad, whip.
4 A beam, ray of light
Ś. 7. 6
N. 22. 56
so हिमरश्मि &c.
5 An eye-lash.
6 A measuring cord.
7 A finger (Ved.).
Comp.
कलापः a pearl-necklace of 54 threads.
मुचः the sun.
Apte Hindi
Hindi
रश्मिः
स्त्री*
- "अश् + मि धातोरुट्, रश् + मि वा"
"डोर, डोरी, रस्सी"
रश्मिः
स्त्री*
- -
"लगाम, रास"
रश्मिः
स्त्री*
- -
"सांटा, हंटर"
रश्मिः
स्त्री*
- -
"किरण, प्रकाश किरण"
Wordnet
Sanskrit
Synonyms:
रश्मिः, मरीचिः, करः, अभीशुः, अभीषुः, मयूखः, गभस्तिः, दीधितिः, अर्कत्विट्, पादः, उस्रः, रुचिः, त्विषिः, विभा, अर्चिस्, भानुः, शिपिः, धृष्णिः, पृष्टिः, वीचिः, घृणिः, उपधृतिः, पृश्निः, स्योनः, स्यूमः, किरणः, अंशुः, किरणः
noun
प्रकाशस्य अतिसूक्ष्माः रेखाः याः सूर्यचन्द्रादिभ्यः ज्योतिष्मद्भ्यः पदार्थेभ्यः निष्कस्य विकीर्यमाणाः दृश्यन्ते।
"सूर्यस्य रश्मिभिः दिनस्य प्रारम्भः भवति।"
Synonyms:
प्रग्रहः, वागा, रश्मिः, वल्गा, दन्तालिका, संयमः, यन्त्रणम्, निग्रहः, वसुः, अभीषुः, अभीशुः
noun
अश्वादीनां नियमनार्थे उपयुज्यमाना रश्मिः।
"नहि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः। गजो वा महिषो वापि षष्ठे काले नरोत्तमः॥"
शब्दकल्पद्रुमः
Sanskrit
रश्मिः,
पुं,
(अश्नुते व्याप्नोतीति अशू व्याप्तौ +“अश्नोते रश्च ।” उणा० ४६ इति मिःधातो रशादेशश्च ।) किरणः (यथा, मनौ ।५ १३३ ।“मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः ।रजो भूर्व्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत्
”)पक्ष्म अश्वरज्जुः इति मेदिनी
*
(यथा, ऋग्वेदे २८ ।“यत्र मन्थां विबध्नते रश्मीन् यमित वा इव
”“रश्मीन् अश्वबन्धनार्थान् प्रग्रहान् ।” इतितद्भाष्ये सायणः
) सूर्य्यस्य रश्मिना जलादान-दाने यथा, --“तेजोभिः सर्व्वलोकेभ्यो ह्यादत्ते रश्मिभिर्ज्जलम् ।समुद्राद्बायुसंयोगाद्बहन्त्यापो गभस्तयः
ततस्तु पयसां काले परिवर्त्तन्दिवाकरः ।नियच्छत्यपो मेघेभ्यः शुक्लाशुक्लैस्तु रश्मिभिः
”इति मात्स्ये १०२ अध्यायः
*
अपि ।“एवमेष महादेवो देवदेवः पितामहः ।करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः
तस्य ये रश्मयो विप्राः सर्व्वलोकप्रदीपकाः ।तेषां श्रेष्ठा पुनः सप्त रश्मयो ग्रहयोनयः
सुसुग्नो हरिकेशश्च विश्वकर्म्मा तथैव ।विश्वव्यचाः पुनश्चान्यः सम्पद्बसुरतः परः
अर्व्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः
सुसुम्नः सूर्य्यरश्मिस्तुं पुष्णाति शिशिरद्युतिम् ।तिर्य्यगूर्द्ध्वप्रचारोऽसौ सुसुम्नः परिगीयते
हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ।विश्वकर्म्मा तथा रश्मिर्ब्बुधं पुष्णाति सर्व्वदा
विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ।सम्पद्वमुरिति ख्यातः पुष्णाति लोहितम्
बृहस्पतिं प्रपुष्णाति रश्मिरर्व्वाग्वसुः प्रभोः ।शनैश्चरं प्रपुष्णाति सप्तमश्च स्वराट् तथा
एवं सूर्य्यप्रभावेन सर्व्वा नक्षत्रतारकाः ।वर्द्धन्ते वर्द्धिता नित्यं नित्यमाप्याययन्ति
दिव्यानां पार्थिवानाञ्च नैशानाञ्चैव सर्व्वशः ।आदानान्नित्यमादित्यस्तेजसा तमसां प्रभुः ।आदत्ते तु नाडीनां सहस्रेण समन्ततः
नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रकम् ।स्थावरान् जङ्गमांश्चैव यच्च कुल्यादिकं पयः
तस्य रश्मिसहस्रन्तु शीतवर्षोष्णनिस्रवम् ।तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्त्तयः
छन्दनाश्चैत याह्याश्च कोतणा भृकणास्तथा ।अमृता नामतः सर्व्वा रश्मयो वृष्टिसर्ज्जनाः
हिमोद्बहाश्च तामस्यो रश्मयस्त्रिशतं पुनः ।वश्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्ज्जनाः ।चन्द्रास्ता नामतः सर्व्वाः पीताभाः स्युर्गभस्तयः ।शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा ।शुक्रास्ता नामतः सर्व्वास्त्रिविधा धर्म्मसर्ज्जनाः
समं विभर्त्ति ताभिः मनुष्यपितृदेवताः ।मनुष्यानौषधेनेह स्वधया पितॄनपि
अमृतेन सुरान् सर्व्वान्तिसस्त्रींस्तर्पयत्यसौ ।वसन्ते ग्रीष्मके चैव शतैः सन्तर्पति त्रिभिः
शरद्यपि वर्षासु चतुर्भिः संप्रवर्षति ।हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः
वरुणो माघमासे तु सूर्य्यः पूषा तु फाल्गुने ।चैत्रै मासि भवेदीशो धाता वैशाखतापनः
ज्यैष्ठमूले भवेदिन्द्र आपाढे सविता रविः ।विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः
पर्य्यण्योऽश्वयुजि त्वष्टा कार्त्तिके मासि भास्करः ।मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः
पञ्च रश्मिसहस्राणि वरुणस्यार्ककर्म्मणि ।षड्भिः सहस्रैः पूषा तु देवेशः सप्तभिस्तथा
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ।विवस्वान् दशभिः पाति पात्येकादशभिर्भगः
सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् ।अर्य्यमा दशभिः पाति पर्य्यण्यो नवभिस्तपेत्
षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति विश्वधृक् ।वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसप्नभः
श्वतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः ।हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितोरविः
औषधीषु बलं धत्ते स्वधामपि पितृष्वथ ।सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति
अन्ये चाष्टौ ग्रहाः ज्ञेयाः सूर्य्ये चाधिष्ठिताद्विजाः ।चन्द्रमाः सोमपुत्त्रश्च शुक्रश्चैव बृहस्पतिः
भौमो भानुस्तथा राहुः केतुमानपि चाष्टमः ।सर्व्वे ध्रुवे निरुद्धा ये ग्रहास्ते वातरश्मिभिः ।भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम्
”इति कौर्म्म्ये ४० अध्यायः
तद्वैदिकपर्य्यायः खेदयाः किरणाः गावः ३रश्मयः अभीशवः दीधितयः गभ-स्तयः वनम् उस्राः वसवः १० मरी-चिपाः ११ मयूखाः १२ सप्तऋषयः १३साध्याः १४ सुपर्णाः १५ इति पञ्चदश रश्मि-नामानि इति वेदनिघण्टौ १५