| YouTube Channel

रविः (raviH)

 
Apte
English
रविः [raviḥ], [cf.
Uṇ.*
4.15]
The sun
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः
R.*
1.18.
A mountain.
The Arka plant.
The number 'twelve'.
Comp.
-इष्टः an orange. -कान्तः, ग्रावन् the sun-stone (सूर्यकान्त).-चक्रम् a particular astronomical diagram.
जः, तनयः, पुत्रः, सूनुः the planet Saturn.
epithets of Karṇa
रवितनयो$भ्यहनच्छिनिप्रवीरम्
Mb.
* 8.3.9.
of Vāli.
of Manu Vaivasvata.
of Yama.
of Sugrīva. -दिनम्, -वारः, -वासरः, -रम् Sunday. -दीप्तa. lighted by the sun. -ध्वजः day. -नेत्रः
N.
of Viṣṇu.
प्रियम् a red lotus flower.
copper. -बिम्बः the sun's disk. -मासकः a solar month. -रत्नम् a ruby.-लोचनः
N.
of
Viṣṇu.
Śiva. -लोहम्, -संज्ञकम् copper. -वंशः the solar race (of kings). -संक्रान्तिः
f.
the sun's entrance into any zodiacal sign.
सारथिः
N.
of Aruṇa.
the dawn.
Apte 1890
English
रविः [cf. Uṇ. 4. 138] 1 The sun
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः R. 1. 18.
2 A mountain.
3 The Arka plant.
4 The number ‘twelve’.
Comp.
कांतः the sun-stone (सूर्यकांत).
जः,
तनयः,
पुत्रः,
सूनूः {1} the planet Saturn. {2} epithets of Karṇa. {3} of Vali. {4} of Manu Vaivasvata. {5} of Yama. {6} of Sugrīva.
दिनं,
वारः,
वासरः
रं Sunday.
नेत्रः N. of Viṣṇu.
प्रियं {1} a red lotus flower. {2} copper.
रत्नं a ruby.
लोचनः N. of {1} Viṣṇu. {2} Śiva.
लौहं,
संज्ञकं copper.
संक्रांतिः f. the sun's entrance into any zodiacal sign.
Hindi
Hindi
सूरज
Apte Hindi
Hindi
रविः
पुं*
- रु +
सूर्य
रविः
पुं*
- रु+अच्(इ)
सूर्य
रविः
पुं*
- रु+अच्(इ)
पर्वत
रविः
पुं*
- रु+अच्(इ)
मदार का पौधा
रविः
पुं*
- रु+अच्(इ)
बारह की संख्या
Wordnet
Sanskrit
Synonyms:
सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः
noun
हिन्दूनां धर्मग्रन्थेषु वर्णिता एका देवता।
"वेदेषु सूर्यस्य पूजायाः वारंवारं विधानम् अस्ति"।"
Synonyms:
रविः
noun
धृतराष्ट्रपुत्रः
"रवेः वर्णनम् भागवते अस्ति"
Tamil
Tamil
ரவி: : சூரியன்.
शब्दकल्पद्रुमः
Sanskrit
रविः,
पुं,
(रूयते स्तूयते इति रु + “अच इः ।”उणा० १३८ इति इः ।) सूर्य्यः अर्क-वृक्षः इत्यमरः
सूर्य्यस्य भोग्यं दिनं वार-रूपम्
यथा, --“रवौ वर्ज्ज्यं चतुः पञ्च सोमे सप्त द्बयं तथा
”इत्यादिवारवेलाकथने समयप्रदीपः
तत्र निषिद्धानि यथा, --“माषमामिषमांसञ्च मसूरं निम्बपत्रकम् ।भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः
आर्द्रकं मधु मत्स्यञ्च भक्षयेद्यो रवेर्दिने ।सप्तजन्म भवेद्रोगी जन्म जन्म दरिद्रता
निम्बं मांसं मसूरञ्च विल्वकाञ्जिकमार्द्रकम् ।भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः
”इति कर्म्मलोचनम्
*
रविग्रहस्य रक्तश्याममिश्रितवर्णः अयंपूर्व्वदिक्पुरुषक्षत्त्रियजातिसत्त्वगुणकटुरससिंह-राशिहस्तानक्षत्रसप्तमीतिथिताम्रकलिङ्गदेशा-नामधिपतिः काश्यपगोत्रः द्बादशाङ्गुल-शरीरः पद्महस्तद्वयः पूर्व्वाननः सप्ताश्व-वाहनः शिवाधिदैवतः रह्निप्रत्यधिदैवतश्च ।इति ग्रहयज्ञतत्त्वादयः
*
अस्य व्युत्पत्तिर्यथा, “अवतीमांस्त्रयो लोकांस्तस्मात् सूर्य्यः परि-भ्रमात् ।अचिरात्तु प्रकाशेत अवनात् रविः स्मृतः
”इति मात्स्ये १०१ अध्यायः
*
अस्य भार्य्यापत्यानि यथा, --“मरीचेः कश्यपो जज्ञे तस्माज्जज्ञे विभावसुः ।तस्य भार्य्याभवत् संज्ञा पुत्त्री त्वष्टुः प्रजापतेः
त्रीण्यपत्यानि राजेन्द्र ! संज्ञायां महसांनिधिः ।आदित्यो जनयामास कन्याञ्चैकां सुलोचनाम् ।वैवस्वतं मनुश्रेष्ठं यमञ्च यमुनां ततः
नातितेजोमयं रूपं सोढुं सालं विवस्वतः ।मायामयीं ततश्छायां सवर्णां निर्म्ममे स्वतः
संज्ञोवाच ततश्छायां सवर्णे शृणु मे वचः ।अहं यास्यामि सदनं पितुस्त्वं पुनरत्र मे ।भवने वस कल्याणि ! निर्व्विशङ्कं ममाज्ञया
मनुरेष यमावेतौ यमुनायमसंज्ञकौ ।स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया
वक्तव्यदिदं वृत्तं त्वया पत्यौ कदाचन ।इत्याकर्ण्याथ सा त्वाष्ट्रीं देवी छाया जगादताम्
आकचग्रहणान्नाहमाशापाच्चं कदाचन ।आख्यास्यामि चरित्रं ते याहिदेवि ! यथासुखम्
इति च्छायां गृहे स्थाप्य संज्ञागात् पितुरालयम् ।उवाच पितरं देवी जामातुस्तव क्षमा
तेजः सोढुमहं तात ! काश्यपस्य महात्मनः ।तन्निशम्य चुकोपासौ भर्त्सयामास कन्यकाम्
मह्यं श्रेयः कथं वा स्यादिति सा परिचिन्त्य ।अगच्छद्बडवा भूत्वा चरन्ती चोत्तरान् कुरून्
तपस्तेपे सा तीव्रं पतिमाधाय चेतसि ।मन्यमानोऽथ तां संज्ञां सवर्णायां तथा रविः
सावर्णिं जनयामास मनुश्रेष्ठं महीपते ।शनैश्चरं द्बितीयञ्च सुतां भद्रं तृयीयिकाम्
सवर्णा स्वेष्वपत्येषु सापत्न्यात् स्त्रीस्वभावतः ।चकाराप्यधिकं स्नेहं तथा पूर्व्वजेष्वहो
चिरमालोक्य तां भार्य्यां उवाच सविता वचः ।अयि भाविनि बालेषु समेष्वपि कुतस्त्वया
विधीयतेऽधिकः स्नेहः सावर्ण्यादिसुतान् प्रति ।नाचचक्षे तदा साथ भास्वते परिपृच्छते
ततः समुद्यते शप्तुं छाया सर्व्वं शशंस ।यथा वृत्तं तथा तथ्यं तुतोष भगवान् रविः
निरागसं शशाप जगाम त्वष्टुरन्तिकम् ।त्वष्टापि यथान्यायं सान्त्वयित्वाथ काश्यपम् ।निर्दग्धुकामं कोपेन प्राणर्च्चच्च मुदा तदा
त्वष्टोवाच ।तवातितेजसो भीता प्राप्योत्तरकुरून् वने ।बडवारूपमास्थाय संज्ञा चरति शाद्वले ।द्रष्टा हि तां भवानद्य स्वभार्य्यां तात मा रुष
लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनथ ।स हरिर्हरिरूपेण मुखेन समताडयत्
त्वरमाणा सवितुः परपूरुषशङ्कया ।सा तन्निरवमत् शक्र नासिकाभ्यां विवस्वतः ।देवौ तस्मादजायेतामश्विनौ भिषजां वरौ
”इति पाद्मे स्वर्गखण्डे ११ अध्यायः
(अन्यत् सूर्य्यशब्दे द्रष्टव्यम्
)