| YouTube Channel

रम्यकं (ramyakaM)

 
शब्दकल्पद्रुमः
Sanskrit
रम्यकं,
क्ली,
(रम्यते जनोऽत्रेति रम् + यत् ततःकप् संज्ञायां कन् वा ।) वर्षविशेषः इतिजटाधरः
एतस्य विवरणं यथा, --“दक्षिणेन तु मेरोस्तु श्वेतस्य चोत्तरेण ।वायव्यं रम्यकं नाम जायन्ते तत्र मानवाः
मतिप्रधाना विमला जरादुर्गविवर्जिताः ।तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितःस्मृतः ।तत्फलप्राशनादेव जीवन्ति बहुवासरम्
”इति वराहपुराणे रुद्रगीतानामाध्यायः
(तथाच देवीभागवते १८ -- २३ ।“रम्यके नाम वर्षे मूर्त्तिं भगवतः पराम् ।मात्स्यां देवासुरैर्व्वन्द्यां मनुः स्तौति निरन्तरम्
मनुरुवाच ।ओँ नमो मुख्यतमाय नमः सत्त्वायप्राणायौजसे बलाय महामत्स्याय नमः ।अन्तर्व्वहिश्चाखिललोकपालकै-रदृष्टरूपो विचरस्युरुस्वनः ।स ईश्वरस्त्वं इदं वशे नय-न्नाम्ना यथा दारुमयीं नरः स्त्रियम्
यं लोकपालाः किल मत्सरज्वराहित्वा यतन्तोऽपि पृथक् समेत्य ।पातुं शेकुर्द्दिपदश्चतुष्पदःसरीसृपं स्थाणु यदत्र दृश्यते
भवान् युगान्तार्णव ऊर्म्मिमालिनिक्षौणीमिमामोषधिवीरुधां निधिम् ।मया सहोरुक्रमतेऽज ओजसातस्मे जगत्प्राणगणात्मने नमः
एवं स्तौति देवेशं मनुः पार्थिवसत्तमः ।मत्स्यावतारं देवेशं संशयच्छेदकारणम्
ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः ।आस्ते परिचरन् भक्त्या महाभागवतोत्तमः
”तथाच मात्स्ये ११२ ३०
वैष्णवे १३
ब्रह्माण्डे
द्रष्टव्यम्
) पटोल-मूलम् इति त्रिकाण्डशेषः
(यथा, सुश्रुते ।१ २९ अध्याये ।“कम्पिल्लकरम्यकपाटलापूगहरीतकीत्यादयः
”पुं, आग्निध्रपुत्त्रभेदः एतन्नामानुसारेणैव रम्यक-वर्षोऽभवत् यथा, भागवते १९ ।“तस्यामुह वा आत्मजान् राजवर्य्य आग्नीध्रोनाभिकिंपुरुषहरिवर्षेलावृतरम्यकहिरण्मय-कुरुभद्राश्वकेतुमालसंज्ञान् नवपुत्त्रानजनयत्
”)