| YouTube Channel

रम्भातृतीया (rambhAtRtIyA)

 
Monier Williams Cologne
English
रम्भा—तृतीया
f.
N.
of the third day of the first half of the month Jyaiṣṭha (so called because Hindū women on this day imitate Rambhā, who bathed on the same day with partic. ceremonies),
Cat.
Wordnet
Sanskrit
Synonyms:
रम्भातृतीया
noun
ज्येष्ठमासस्य शुक्लपक्षस्य तृतीया।
"सुनीता रम्भातृतीयायां जाता।"
शब्दकल्पद्रुमः
Sanskrit
रम्भातृतीया,
स्त्री,
(रम्भाख्या तृतीया ।) व्रत-विशेषकालः यथा, --ब्रह्मोवाच ।“रम्भातृतीयां वक्ष्ये सौभाग्यश्रीसुतादिदाम् ।मार्गशीर्षे सिते पक्षे तृतीयायामुपोषितः
गौरीं यजेद्विल्वपत्रैः कुशोदादः करम्भदः ।कदम्बादो गिरिसुतां पौषे मरुवकैर्यजेत्
कर्पूरादः कृशरदो मल्लिकादन्तकाष्ठकृत् ।माघे सुभद्रां कह्लारैर्घृताशो मण्डकप्रदः
गीतीमयं दन्तकाष्ठं फाल्गुने गोमतीं यजेत् ।कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः सस्कुलीप्रदः
विशालाक्षीं दमनकैश्चैत्रे काशारसंप्रदः ।दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत्
वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः ।ज्यैष्ठे नारायणीमर्च्चेच्छतपत्रैश्च खण्डदः
नवङ्गाशश्च तज्जाद आषाढे माधवीं यजेत् ।तिलाशो विल्वपत्रैश्च क्षीरान्नवटकप्रदः
औडुम्बरं दन्तकाष्ठं तगर्य्याः श्रावणे श्रियम् ।दन्तकाष्ठं स्वर्णकाशः क्षीरदो ह्युत्तमां यजेत्
पद्मैर्यजेत् भाद्रपदे शृङ्गोदाशो गुणादिदः ।राजपुत्त्रीञ्चाश्वयुजे जवापुष्पैश्च जीवकम्
प्राशयेन्निशि नैवेद्यैः कृशरैः कार्त्तिके यजेत् ।जातिपुष्पैः पद्मजाञ्च पञ्चगव्याशनो यजेत्
घृतोदनञ्च वर्षान्ते सपत्नीकान् द्विजान् यजेत् ।उमामहेश्वरं स्वार्णं लवणे तु गुडे स्थितम्
वस्त्रच्छत्रसुवर्णाद्यै रात्रौ कृतजागरः ।गीतवाद्यैर्ददेत् प्रातर्गवाद्यं सर्व्वमाप्नुयात्
”इति गारुडे १२० अध्यायः
*
अपि “अथ तृतीया सा चतुर्थीयुतारम्भाव्रतेतरदैवकर्म्मसु ग्राह्या ।‘रम्भाख्यां वर्ज्जयित्वा तु तृतीयां मुनिसत्तम ।अन्येषु सर्व्वकार्य्येषु गणयुक्ता प्रशस्यते
’इति ब्रह्मवैवर्त्तात्
ततश्च युग्मवाक्यं रम्भाव्रतपरम् भविष्योत्तरे ।‘कुरुष्व भद्रे यत्नेन रम्भाख्यं व्रतमुत्तमम् ।ज्यैष्ठे शुक्लतृतीयायां स्नातनियमतत्परा
’रम्भाख्यमिति रम्भया कृतमिति रम्भाव्रतम् ।”इति तिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
रम्भातृतीया स्त्री रम्भा गौरी त० मार्गशीर्षशुक्लतृतीयायाम्उपचारात् तत्र कर्त्तव्ये गौरीपूजाङ्गके व्रतभेदे